दृष्टवान्सर्वलोकेश अर्जुनेन समन्वितः। पीताम्बरधरो देवस्तद्वनं बहुधा चरन्
सद्रुमस्य सयक्षस्य सभूतगणपक्षिणः। खाण्डवस्य विनाशं तं ददर्श मधुसूदनः
विहारदेशं संप्राप्य नानाद्रुममनुत्तमम्। गृहैरुच्चावचैर्युक्तं पुरन्दरपुरोपमम्
भक्ष्यैर्भोज्यैश्च पेयैश्च रसवद्बिर्महाधनैः। माल्यैश्च विविधैर्गन्धैस्तथा वार्ष्मेयपाण्डवौ
तदा विविशतुः पूर्णं रत्नैरुच्चावचैः शुभैः। यथोपजोषं सर्वश्च जनश्चिक्रीड भारत
स्त्रियश्च विपुलश्रोष्ण्यश्चारुपीनपयोधराः। मदस्खलितगामिन्यश्चिक्रीडुर्वामलोचनाः
वने काश्चिज्जले काश्चित्काश्चिद्वेश्मसु चाङ्गनाः। यथादेशं यथाप्रीति चिक्रीडुः पार्थकृष्णयोः
वासुदेवप्रिया नित्यं सत्यभामा च भामिनी। द्रौपदी च सुभद्रा च वासांस्याभरणानि च। प्रायच्छन्त महाराज स्त्रीणां ताः स्म मदोत्कटाः
काश्चित्प्रहृष्टा ननृतुश्चुक्रुशुश्च तथा पराः। जहसुश्च परा नार्यः पपुश्चान्या वरासवम्
रुरुधुश्चापरास्तत्र प्रजघ्नुश्च परस्परम्। मन्त्रयामासुरन्याश्च रहस्यानि परस्परम्
वेणुवीणामृदङ्गानां मनोज्ञानां च सर्वशः। शब्देन पूर्यते हर्म्यं तद्वनं सुमहर्द्धिमत्
तस्मिंस्तदा वर्तमानो कुरुदाशार्हनन्दनौ। समीपं जग्मतुः कंचिदुद्देशं सुमनोहरम्
तत्र गत्वा महात्मानौ कृष्णौ परपुरञ्जयौ। महार्हासनयो राजंस्ततस्तौ सन्निषीदतुः
तत्र पूर्वव्यतीतानि विक्रान्तानीतराणि च। बहूनि कथयित्वा तौ रेमाते पार्थमाधवौ
तत्रोपविष्टौ मुदितौ नाकपृष्ठेऽश्विनाविव। अभ्यागच्छत्तदा विप्रो वासुदेवधनञ्जयौ
बृहच्छालप्रतीकाशः प्रतप्तकनकप्रभः। हरिपिङ्गोज्ज्वलश्मश्रुः प्रमाणायामतः समः
तरुणादित्यसङ्काशश्चीरवासा जटाधरः। पद्मपत्राननः पिङ्गस्तेजसा प्रज्वलन्निव
जगाम तौ कृष्णपार्थौ दिधक्षुः खाण्डवं वनम्। उपसृष्टं तु तं कृष्णो भ्राजमानं द्विजोत्तमम्। अर्जनो वासुदेवश्च तूर्णमुत्पत्य तस्थतुः
सोऽब्रवीदर्जुनं चैव वासुदेवं च सात्वतम्। लोकप्रवीरौ तिष्ठन्तौ काण्डवस्य समीपतः
ब्राह्मणो बहुभोक्ताऽस्मि बुञ्जेऽपरिमितं सदा। भिक्षे वार्ष्णेयपार्थौ वामेकां तृप्तिं प्रयच्छतम्
एवमुक्तो तमब्रूतां ततस्तौ कृष्णपाण्डवौ। केनान्नेन भवांस्तृप्येत्तस्यान्नस्य यतावहे
एवमुक्तः स भगवानब्रवीत्तावुभौ ततः। भाषमाणौ तदा वीरौ किमन्नं क्रियतामिति
नाहमन्नं बुभुक्षे वै पावकं मां निबोधतम्। यदन्नमनुरूपं मे तद्युवां संप्रयच्छतम्
इदमिन्द्रः सदा दावं खाण्डवं परिरक्षति। न च शक्नोम्यहं दग्धुं रक्ष्यमाणं महात्मना
वसत्यत्र सखा तस्य तक्षकः पन्नगः सदा। सगणस्तत्कृते दावं परिरक्षति वज्रभृत्
तत्र भूतान्यनेकानि रक्ष्यन्तेऽस्य प्रसङ्गतः। तं दिधक्षुर्न शक्नोमि दग्धुं शक्रस्य तेजसा
स मां प्रज्वलितं दृष्ट्वा मेघाम्भोभिः प्रवर्षति। ततो दग्धुं न शक्नोमि दिधक्षुर्दावमीप्सितम्
स युवाभ्यां सहायाभ्यामस्त्रविद्भ्यां समागतः। दहेयं खाण्डवं दावमेतदन्नं वृतं मया
युवां ह्युदकधारास्ता भूतानि च समन्ततः। उत्तमास्त्रविदौ सम्यक्सर्वतो वारयिष्यथः
किमर्थं भगवानग्निः खाण्डवं दग्धुमिच्छति। रक्ष्यमाणं महेन्द्रेण नानासत्वसमायुतम्