तं तु धौम्यादयो विप्राः परिवार्योपतस्थिरे। बृहस्पतिसमा मुख्याः प्रजापतिमिवामराः
धर्मराजे ह्यतिप्रीत्या पूर्णचन्द्र इवामले। प्रजानां रेमिरे तुल्यं नेत्राणि हृदयानि च
न तु केवलदैवेन प्रजा भावेन रेमिरे। यद्बभूव मनःकान्तं कर्मणा स चकार तत्
न ह्ययुक्तं न चासत्यं नासह्यं न च वाऽप्रियम्। भाषितं चारुभाषस्य जज्ञे पार्थस्य धीमतः
स हि सर्वस्य लोकस्य हितमात्मन एव च। चिकीर्षन्सुमहातेजा रेमे भरतसत्तम
तथा तु मुदिताः सर्वे पाण्डवा विगतज्वराः। अवसन्पृथिवीपालाँस्तापयन्तः स्वतेजसा
ततः कतिपयाहस्य बीभत्सुः कृष्णमब्रवीत्। उष्णानि कृष्ण वर्तन्ते गच्छावो यमुनां प्रति
सुहृज्जनवृतौ तत्र विहृत्य मधुसूदन। सायाह्ने पुनरेष्यावो रोचतां ते जनार्दन
कुन्तीमातर्ममाप्येतद्रोचते यद्वयं जले। सुहृज्जनवृताः पार्थ विहरेम यथासुखम्
आमन्त्र्य तौ धर्मराजमनुज्ञाप्य च भारत। जग्मतुः पार्थगोविन्दौ सुहृज्जनवृतौ ततः
विहरन्खाण्डवप्रस्थे काननेषु च माधवः। पुष्पितोपवनां दिव्यां ददर्श यमुनां नदीम्
तस्यास्तीरे वनं दिव्यं सर्वर्तुसुमनोहरम्। आलयं सर्वभूतानां खाण्डवं खड्गचर्मभृत्
ददर्श कृत्स्नं तं देशं सहितः सव्यसाचिना। ऋक्षगोमायुशार्दूलवृककृष्णमृगान्वितम्
शाखामृगगणैर्जुष्टं गजद्वीपिनिषेवितम्। शकबर्हिणदात्यूहहंससारसनादितम्
नानामृगसहस्रैश्च पक्षिभिश्च समावृतम्। मानार्हं तच्च सर्वेषां देवदानवरक्षसाम्
आलयं पन्नगेन्द्रस्य तक्षकस्य महात्मनः। वेणुशाल्मलिबिल्वातिमुक्तजंब्वाम्रचम्पकैः
अङ्कोलपनसाश्वत्थतालजम्बीरवञ्जुलैः। एकपद्मकतालैश्च शतशश्चैव रौहिणैः
नानावृक्षैः समायुक्तं नानागुल्मसमावृतम्। वेत्रकीचकसंयुक्तमाशीविषनिषेवितम्
विगतार्कं महाभोगविततद्रुमसङ्कटम्। व्यालदंष्ट्रिगणाकीर्णं वर्जितं सर्वमानुषैः
रक्षसां भुजगेन्द्राणां पक्षिणां च महालयम्। खाण्डवं सुमहाप्राज्ञः सर्वलोकविभागवित्
दृष्टवान्सर्वलोकेश अर्जुनेन समन्वितः। पीताम्बरधरो देवस्तद्वनं बहुधा चरन्
सद्रुमस्य सयक्षस्य सभूतगणपक्षिणः। खाण्डवस्य विनाशं तं ददर्श मधुसूदनः
विहारदेशं संप्राप्य नानाद्रुममनुत्तमम्। गृहैरुच्चावचैर्युक्तं पुरन्दरपुरोपमम्
भक्ष्यैर्भोज्यैश्च पेयैश्च रसवद्बिर्महाधनैः। माल्यैश्च विविधैर्गन्धैस्तथा वार्ष्मेयपाण्डवौ
तदा विविशतुः पूर्णं रत्नैरुच्चावचैः शुभैः। यथोपजोषं सर्वश्च जनश्चिक्रीड भारत
स्त्रियश्च विपुलश्रोष्ण्यश्चारुपीनपयोधराः। मदस्खलितगामिन्यश्चिक्रीडुर्वामलोचनाः
वने काश्चिज्जले काश्चित्काश्चिद्वेश्मसु चाङ्गनाः। यथादेशं यथाप्रीति चिक्रीडुः पार्थकृष्णयोः
वासुदेवप्रिया नित्यं सत्यभामा च भामिनी। द्रौपदी च सुभद्रा च वासांस्याभरणानि च। प्रायच्छन्त महाराज स्त्रीणां ताः स्म मदोत्कटाः
काश्चित्प्रहृष्टा ननृतुश्चुक्रुशुश्च तथा पराः। जहसुश्च परा नार्यः पपुश्चान्या वरासवम्
रुरुधुश्चापरास्तत्र प्रजघ्नुश्च परस्परम्। मन्त्रयामासुरन्याश्च रहस्यानि परस्परम्