अभीश्च मन्युमांश्चैव ततस्तमरिमर्दनम्। अभिमन्युरिति प्राहुरार्जुनिं पुरुषर्षभम्
स सात्वत्यामतिरथः संबभूव धनञ्जयात्। मखे निर्मथनेनेव शमीगर्भाद्धुताशनः
यस्मिञ्जाते महातेजाः कुन्तीपुत्रो युधिष्ठिरः। अयुतं गा द्विजातिभ्यः प्रादान्निष्कांश्च भारत
दयितो वासुदेवस्य बाल्यात्प्रभृति चाभवत्। पितॄणां चैव सर्वेषां प्रजानामिव चन्द्रमाः
जन्मप्रभृति कृष्णश्च चक्रे तस्य क्रियाः शुभाः। स चापि ववृधे बालः शुक्लपक्षे यथा शशी
चतुष्पादं दशविधं धनुर्वेदमरिन्दमः। अर्जुनाद्वेद वेदज्ञः सकलं दिव्यमानुषम्
विज्ञानेष्वपि चास्त्राणां सौष्ठवे च महाबलः। क्रियास्वपि च सर्वासु विशेषानभ्यशिक्षयत्
आगमे च प्रयोगे च चक्रे तुल्यमिवात्मना। तुतोष पुत्रं सौभद्रं प्रेक्षमाणो धनञ्जयः
सर्वसंहननोपेतं सर्वलक्षणलक्षितम्। दुर्धर्षमृषभस्कन्धं व्यात्ताननमिवोरगम्
सिंहदर्पं महेष्वासं मत्तमातङ्गविक्रमम्। मेघदुन्दुभिनिर्घोषं पूर्णचन्द्रनिभाननम्
कृष्णस्य सदृशं शौर्ये वीर्ये रूपे तथाऽऽकृतौ। ददर्श पुत्रं बीभत्सुर्मघवानिव तं यथा
पाञ्चाल्यपि तु पञ्चभ्यः पतिभ्यः शुभलक्षणा। लेभे पञ्च सुतान्वीराञ्श्रेष्ठान्पञ्चाचलानिव
युधिष्ठिरात्प्रतिविन्ध्यं सुतसोमं वृकोदरात्। अर्जुनाच्छ्रुतकर्माणं शतानीकं च नाकुलिम्
सहदेवाच्छ्रुतसेनमेतान्पञ्च महारथान्। पाञ्चाली सुषुवे वीरानादित्यानदितिर्यथा
शास्त्रतः प्रतिविन्ध्यन्तमूचुर्विप्रायुधिष्ठिरम्। परप्रहरणज्ञाने प्रतिविन्ध्यो भत्वयम्
सुतेसोमसहस्रे तु सोमार्कसमतेजसम्। सुतसोमं महेष्वासं सुषुवे भीमसेनतः
श्रुतं कर्म महत्कृत्वा निवृत्तेन किरीटिना। जातः पुत्रस्तथेत्येवं श्रुतकर्मा ततोऽभवत्
शतानीकस्य राजर्षेः कौरव्यस्य महात्मनः। चक्रे पुत्रं सनामानं नकुलः कीर्तिवर्धनम्
ततस्त्वजीजनत्कृष्णा नक्षत्रे वह्निदैवते। सहदेवात्सुतं तस्माच्छ्रुतसेनेति तं विदुः
एकवर्षान्तरास्त्वेते द्रौपदेया यशस्विनः। अन्वजायन्त राजेन्द्र परस्परहितैषिणः
जातकर्माण्यानुपूर्व्याच्चूडोपनयनानि च। चकार विधिवद्धौम्यस्तेषां भरतसत्तम
कृत्वा च वेदाध्ययनं ततः सुचरितव्रताः। जगृहुः सर्वमिष्वस्त्रमर्जुनाद्दिव्यमानुषम्
दिव्यगर्भोपमैः पुत्रैर्व्यूढोरस्कैर्महारथैः। अन्विता राजशार्दूल पाण्डवा मुदमाप्नुवन्
इन्द्रप्रस्थे वसन्तस्ते जघ्रुरन्यान्नराधिपान्। शासनाद्धृतराष्ट्रस्य राज्ञः शान्तनवस्य च
आश्रित्य धर्मराजानं सर्वलोकोऽवसत्सुखम्। पुण्यलक्षणकर्माणं स्वदेहमिव देहिनः
स समं धर्मकामार्थान्सिषेवे भरतर्षभ। त्रीनिवात्मसमान्बन्धून्नीतिमानिव मानयन्
तेषां समविभक्तानां क्षितौ देहवतामिव। बभौ धर्मार्थकामानां चतुर्थ इव पार्थिवः
अध्येतारं परं वेदान्प्रयोक्तारं महाध्वरे। रक्षितारं शुभाँल्लोकाँल्लोभिरे तं जनाधिपम्
अधिष्ठानवती लक्ष्मीः परायणवती मतिः। वर्धमानोऽखिलो धर्मस्तेनासीत्पृथिवीक्षिताम्
भ्रातृभिः सहितौ राजा चतुर्भिरधिकं बभौ। प्रयुज्यमानैर्विततो वेदैरिव महाध्वरः