ततः सङ्कर्षणाक्रूरावप्रमेयावदीनवत्। भद्रवत्यै सुभद्रायै धनौघमुपजह्रतुः
प्रवालानि च हाराणि भूषणानि सहस्रशः। कुथास्तरपरिस्तोमान्व्याघ्राजिनपुरस्कृतान्
विविधैश्चैव रंत्नौगैर्दीप्तप्रभमजायत। शयनासनयानैश्च युधिष्ठिरनिवेशनम्
ततः प्रीतिकरो यूनां विवाहपरमोत्सवः। भद्रवत्यै सुभद्रायै सप्तरात्रमवर्तत
तेषां ददौ हृषीकेशो जन्यार्थे धनमुत्तमम्। हरणं वै सुभद्राया ज्ञातिदेयं महायशाः
रथानां काञ्चनाङ्गानां किङ्किणीजालमालिनाम्। चतुर्युजामुपेतानां सूतैः कुशलशिक्षितैः
सहस्रं प्रददौ कृष्मो गवामयुतमेव च। श्रीमान्माथुरदेश्यानां दोग्ध्रीणां पुण्यवर्चसाम्
बडवानां च शुद्धानां चन्द्रांशुसमवर्चसाम्। ददौ जनार्दनः प्रीत्या सहस्रं हेमभूषितम्
तथैवाश्वतरीणां च दान्तानां वातरंहसाम्। शतान्यञ्जनकेशीनां श्वेतानां पञ्चपञ्च च
स्नानपानोत्सवे चैव प्रयुक्तं वयसान्वितम्। स्त्रीणां सहस्रं गौरीणां सुवेषाणां सुवर्चसाम्
सुवर्णशतकण्ठीनामरोमाणां स्वलङ्कृताम्। परिचर्यासु दक्षाणां प्रददौ पुष्करेक्षणः
पृष्ठ्यानामपि चाश्वानां बाह्लिकानां जनार्दनः। ददौ शतसहस्राख्यं कन्याधनमनुत्तमम्
कृताकृतस्य मुख्यस्य कनकस्याग्निवर्चसः। मनुष्यभारान्दाशार्हो ददौ दश जनार्दनः
गजानां तु प्रभिन्नानां त्रिधा प्रस्रवतां मदम्। गिरिकूटनिकाशानां समरेष्वनिवर्तिनाम्
क्लृप्तानां पटुघण्टानां चारूणां हेममालिनाम्। हस्त्यारोहैरुपेतानां सहस्रं साहसप्रियः
रामः पाणिग्रहणिकं ददौ पार्थाय लाङ्गली। प्रीयमाणो हलधरः संबन्धं प्रति मानयन्
स महाधनरत्नौघो वस्त्रकम्बलफेनवान्। महागजमहाग्राहः पताकाशैवलाकुलः
पाण्डुसागरमाविद्धः प्रविवेश महाधनः। पूर्णमापूरयंस्तेषां द्विषच्छोकावहोऽभवत्
प्रतिजग्राह तत्सर्वं धर्मराजो युधिष्टिरः। पूजयामास तांश्चैव वृष्ण्यन्धकमहारथान्
ते समेता महात्मानः कुरुवृष्ण्यन्धकोत्तमाः। विजह्रुरमरावासे नराः सुकृतिनो यथा
तत्रतत्र महानादैरुत्कृष्टतलनादितैः। यथायोगं यथाप्रीति विजह्रुः कुरुवृष्णयः
एवमुत्तमवीर्यास्ते विहृत्य दिवसान्बहून्। पूजिताः कुरुभिर्जग्मुः पुनर्द्वारवतीं प्रति
रामं पुरुस्कृत्य ययुर्वृष्म्यन्धकमहारथाः। रत्नान्यादाय शुभ्राणि दत्तानि कुरुसत्तमैः
रामः सुभद्रां संपूज्य परिष्वज्य स्वसां तदा। न्यासेति द्रौपदीमुक्त्वा परिधाय महाबलः
पितृष्वसायाश्चरणावभिवाद्य ययौ तदा। तस्मिन्काले पृथा प्रीता पूजयामास तं तथा
स वृष्णिवीरः पार्थैश्च पौरैश्च परमार्चितः। ययौ द्वारवतीं रामो वृष्णिभिः सह संयुतः
वासुदेवस्तु पार्थेन तत्रैव सह भारत। `चतुस्त्रिंशदहोरात्रं रममाणो महाबलः।' उवास नगरे रम्ये शक्रप्रस्थे महात्मना
व्यचरद्यमुनातीरे मृगयां स महायशाः। मृगान्विध्यन्वराहांश्च रेमे सार्धं किरीटिना
ततः सुभद्रा सौभद्रं केशवस्य प्रिया स्वसा। जयन्तमिव पौलोमी ख्यातिमन्तमजीजनत्
दीर्घबाहुं महोरस्कं वृषभाक्षमरिन्दमम्। सुभद्रा सुषुवे वीरमभिमन्युं नरर्षभम्