संमृष्टसिक्तपन्थानं पुष्पप्रकरशोभितम्। चन्दनस्य रसैः शीतैः पुम्यगन्धैर्निषेवितम्
दह्यताऽगुरुणा चैव देशे देशे सुगन्धिना। हृष्टपुष्टजनाकीर्णं वणिग्भिरुपशोभितम्
प्रतिपेदे महाबाहुः सह रामेण केशवः। वृष्ण्यन्धकैस्तथा भोजैः समेतः पुरुषोत्तमः
संपूज्यमानः पौरैश्च ब्राह्मणैश्च सहस्रशः। विवेश भवनं राज्ञः पुरन्दरगृहोपमम्
युधिष्ठिरस्तु रामेण समागच्छद्यथाविधि। मूर्ध्नि केशवमाघ्राय बाहुभ्यां परिषस्वजे
तं प्रीयमाणो गोविन्दो विनयेनाभिपूजयन्। भीमं च पुरुषव्याघ्रं विधिवत्प्रत्यपूजयत्
तांश्च वृष्ण्यन्धकश्रेष्ठान्कुन्तीपुत्रो युधिष्ठिरः। प्रतिजग्राह सत्कारैर्यथाविधि यथागतम्
गुरुवत्पूजयामास कांश्चित्कांश्चिद्वयस्यवत्। कांश्चिदभ्यवदत्प्रेम्णा कैश्चिदप्यभिवादितः
ततः पृथा च पार्थाश्च मुदिताः कृष्णया सह। पुण्डरीकाक्षमासाद्य बभूवुर्मुदितेन्द्रियाः
हर्षादभिगतौ दृष्ट्वा संकर्षणजनार्दनौ। बन्धुमन्तं पृथा पार्थं युधिष्ठिरममन्यत
ततः सङ्कर्षणाक्रूरावप्रमेयावदीनवत्। भद्रवत्यै सुभद्रायै धनौघमुपजह्रतुः
प्रवालानि च हाराणि भूषणानि सहस्रशः। कुथास्तरपरिस्तोमान्व्याघ्राजिनपुरस्कृतान्
विविधैश्चैव रंत्नौगैर्दीप्तप्रभमजायत। शयनासनयानैश्च युधिष्ठिरनिवेशनम्
ततः प्रीतिकरो यूनां विवाहपरमोत्सवः। भद्रवत्यै सुभद्रायै सप्तरात्रमवर्तत
तेषां ददौ हृषीकेशो जन्यार्थे धनमुत्तमम्। हरणं वै सुभद्राया ज्ञातिदेयं महायशाः
रथानां काञ्चनाङ्गानां किङ्किणीजालमालिनाम्। चतुर्युजामुपेतानां सूतैः कुशलशिक्षितैः
सहस्रं प्रददौ कृष्मो गवामयुतमेव च। श्रीमान्माथुरदेश्यानां दोग्ध्रीणां पुण्यवर्चसाम्
बडवानां च शुद्धानां चन्द्रांशुसमवर्चसाम्। ददौ जनार्दनः प्रीत्या सहस्रं हेमभूषितम्
तथैवाश्वतरीणां च दान्तानां वातरंहसाम्। शतान्यञ्जनकेशीनां श्वेतानां पञ्चपञ्च च
स्नानपानोत्सवे चैव प्रयुक्तं वयसान्वितम्। स्त्रीणां सहस्रं गौरीणां सुवेषाणां सुवर्चसाम्
सुवर्णशतकण्ठीनामरोमाणां स्वलङ्कृताम्। परिचर्यासु दक्षाणां प्रददौ पुष्करेक्षणः
पृष्ठ्यानामपि चाश्वानां बाह्लिकानां जनार्दनः। ददौ शतसहस्राख्यं कन्याधनमनुत्तमम्
कृताकृतस्य मुख्यस्य कनकस्याग्निवर्चसः। मनुष्यभारान्दाशार्हो ददौ दश जनार्दनः
गजानां तु प्रभिन्नानां त्रिधा प्रस्रवतां मदम्। गिरिकूटनिकाशानां समरेष्वनिवर्तिनाम्
क्लृप्तानां पटुघण्टानां चारूणां हेममालिनाम्। हस्त्यारोहैरुपेतानां सहस्रं साहसप्रियः
रामः पाणिग्रहणिकं ददौ पार्थाय लाङ्गली। प्रीयमाणो हलधरः संबन्धं प्रति मानयन्
स महाधनरत्नौघो वस्त्रकम्बलफेनवान्। महागजमहाग्राहः पताकाशैवलाकुलः
पाण्डुसागरमाविद्धः प्रविवेश महाधनः। पूर्णमापूरयंस्तेषां द्विषच्छोकावहोऽभवत्
प्रतिजग्राह तत्सर्वं धर्मराजो युधिष्टिरः। पूजयामास तांश्चैव वृष्ण्यन्धकमहारथान्
ते समेता महात्मानः कुरुवृष्ण्यन्धकोत्तमाः। विजह्रुरमरावासे नराः सुकृतिनो यथा