वृष्ण्यन्धकमहामात्रैः सह वीरैर्महारथैः। भ्रातृभिश्च कुमारैश्च योधैश्च शतशो वृतः
सैन्येन महता शौरिरभिगुप्तः समन्ततः। तत्र दानपतिः श्रीमाञ्जगाम स महायशाः
अक्रूरो वृष्णिवीराणां सेनापतिररिन्दमः। अनाधृष्टिर्महातेजा उद्धवश्च महायशाः
साक्षाद्वृहस्पतेः शिष्यो महाबुद्धिर्महामनाः। सत्यकः सात्यकिश्चैव कृतवर्मा च सात्वतः
प्रद्युम्नश्चैव साम्बश्च निशङ्कुः शङ्कुरेव च। चारुदेष्णश्च विक्रान्तो झिल्ली विपृथुरेव च
सारणश्च महाबाहुर्गदश्च विदुषां वरः। एते चान्ये च बहवो वृष्णिभोजान्धकास्तथा
आजग्मः खाण्डवप्रस्थमादाय हरणं बहु। `उपहारं समादाय पृथुवृष्णिपुरोगमाः
प्रययुः सिंहनादेन सुभध्रामवलोककाः। ते त्वदीर्घेण कालेन कृष्णेन सह यादवाः। पुरमासाद्य पार्थानां परां प्रीतिमवाप्नुवन्
ततो युधिष्ठिरो सजा श्रुत्वा माघवमागतम्। प्रतिग्रहार्थं कृष्णस्य यमौ प्रास्थापयत्तदा
ताभ्यां प्रतिगृहीतं तु वृष्णिचक्रं महर्द्धिमत्। विवेश खाण्डवप्रस्थं पताकाध्वजशोभितम्
संमृष्टसिक्तपन्थानं पुष्पप्रकरशोभितम्। चन्दनस्य रसैः शीतैः पुम्यगन्धैर्निषेवितम्
दह्यताऽगुरुणा चैव देशे देशे सुगन्धिना। हृष्टपुष्टजनाकीर्णं वणिग्भिरुपशोभितम्
प्रतिपेदे महाबाहुः सह रामेण केशवः। वृष्ण्यन्धकैस्तथा भोजैः समेतः पुरुषोत्तमः
संपूज्यमानः पौरैश्च ब्राह्मणैश्च सहस्रशः। विवेश भवनं राज्ञः पुरन्दरगृहोपमम्
युधिष्ठिरस्तु रामेण समागच्छद्यथाविधि। मूर्ध्नि केशवमाघ्राय बाहुभ्यां परिषस्वजे
तं प्रीयमाणो गोविन्दो विनयेनाभिपूजयन्। भीमं च पुरुषव्याघ्रं विधिवत्प्रत्यपूजयत्
तांश्च वृष्ण्यन्धकश्रेष्ठान्कुन्तीपुत्रो युधिष्ठिरः। प्रतिजग्राह सत्कारैर्यथाविधि यथागतम्
गुरुवत्पूजयामास कांश्चित्कांश्चिद्वयस्यवत्। कांश्चिदभ्यवदत्प्रेम्णा कैश्चिदप्यभिवादितः
ततः पृथा च पार्थाश्च मुदिताः कृष्णया सह। पुण्डरीकाक्षमासाद्य बभूवुर्मुदितेन्द्रियाः
हर्षादभिगतौ दृष्ट्वा संकर्षणजनार्दनौ। बन्धुमन्तं पृथा पार्थं युधिष्ठिरममन्यत
ततः सङ्कर्षणाक्रूरावप्रमेयावदीनवत्। भद्रवत्यै सुभद्रायै धनौघमुपजह्रतुः
प्रवालानि च हाराणि भूषणानि सहस्रशः। कुथास्तरपरिस्तोमान्व्याघ्राजिनपुरस्कृतान्
विविधैश्चैव रंत्नौगैर्दीप्तप्रभमजायत। शयनासनयानैश्च युधिष्ठिरनिवेशनम्
ततः प्रीतिकरो यूनां विवाहपरमोत्सवः। भद्रवत्यै सुभद्रायै सप्तरात्रमवर्तत
तेषां ददौ हृषीकेशो जन्यार्थे धनमुत्तमम्। हरणं वै सुभद्राया ज्ञातिदेयं महायशाः
रथानां काञ्चनाङ्गानां किङ्किणीजालमालिनाम्। चतुर्युजामुपेतानां सूतैः कुशलशिक्षितैः
सहस्रं प्रददौ कृष्मो गवामयुतमेव च। श्रीमान्माथुरदेश्यानां दोग्ध्रीणां पुण्यवर्चसाम्
बडवानां च शुद्धानां चन्द्रांशुसमवर्चसाम्। ददौ जनार्दनः प्रीत्या सहस्रं हेमभूषितम्
तथैवाश्वतरीणां च दान्तानां वातरंहसाम्। शतान्यञ्जनकेशीनां श्वेतानां पञ्चपञ्च च
स्नानपानोत्सवे चैव प्रयुक्तं वयसान्वितम्। स्त्रीणां सहस्रं गौरीणां सुवेषाणां सुवर्चसाम्