परिष्वज्यावदत्प्रीत्या निःसपत्नोस्तु ते पतिः। `वीरसूर्भव भद्रे त्वं भव भर्तृप्रिया तथा
ओजसा निर्मिता बह्वीरुवाच परमाशिषः।' तथैव मुदिता भद्रा तामुवाच तथास्त्विति
ततः सुभद्रां वार्ष्णेयी परिष्वज्य शुभाननाम्। अङ्के निवेश्य मुदिता वसुदेवं प्रशस्य च
ततः किलकिलाशब्दः क्षणेन समपद्यत। हर्षादानर्तयोधानामासाद्य वृजिनं पुरम्
देवपुत्रप्रकाशास्ते जाम्बूनदमयध्वजाः। पृष्ठतोऽनुययुः पार्थं पुरुहूतमिवामराः
गोभिरुष्ट्रैः सदश्वैश्च युक्तानि बहुला जनाः। ददृशुर्यानमुख्यानि दाशार्हपुरवासिनाम्
ततः पुरवरे यूनां पुंसां वाच उदीरिताः। अर्जुने प्रतियाति स्म अश्रूयन्त समन्ततः
प्रवासादागतं पार्थं दृष्ट्वा स्वमिव बान्धवम्। सोऽभिगम्य नरश्रेष्ठो दाशार्हशतसंवृतः
पौरैः पुरवरं प्रीत्या परया चाभिनन्दितः। प्राप्य चान्तःपुरद्वारमवरुह्य नरर्षभः
ववन्दे धौम्यमासाद्य मातरं च धनञ्जयः। स्पृष्ट्वा च चरणौ राज्ञो भीमस्य च धनञ्जयः
यमाभ्यां वन्दितो हृष्टः सस्वजे तौ ननन्द च। ब्राह्मणप्रमुखान्सर्वान्भ्रातृभिः सह सङ्गतः
यथार्हं मानयामास पौरजानपदानपि। तत्रस्थान्यनुयातानि तीर्थान्यायतनानि च
निवेदयामास तदा राज्ञे सर्वं स्वनुष्ठितम्। भ्रातृभ्यश्चैव सर्वेभ्यः कथयामास भारत
श्रुत्वा सर्वं महाप्राज्ञो धर्मराजो युधिष्ठिरः। पुरस्तादेव तेषां तु पूजयामास चार्जुनम्
पाण्डवेन यथार्हं तु पूजार्हेण सुपूजितः। न्यविशच्चाभ्यनुज्ञातो राज्ञा तुष्टो यशस्विना
तामदीनां सुपूजार्हां सुभद्रां प्रीतिवर्धिनीम्। साक्षाच्छ्रियममन्यन्त पार्थाः कृष्णसहोदराम्
गुरूणां श्वशुराणां च देवराणां तथैव च। सुभद्रा स्वेन वृत्तेन बभूव परमप्रिया
ततस्ते हृष्टमनसः पाण्डवेया महारथाः। कुन्ती च परमप्रीता कृष्णा च सततं तथा
अथ शुश्राव निर्वृत्ते वृष्णीनां परमोत्सवे। अर्जुनेन हृतां भद्रां शङ्खचक्रगदाधरः
पुरस्तादेव पौराणां संशयः समजायत। जानता वासुदेवेन वासितो भरतर्षभः
लोकस्य विदितं ह्यद्य पूर्वं विपृथुना यथा। सान्त्वयित्वाभ्यनुज्ञातो भद्रया सह सङ्गतः
दित्सता सोदरां तस्मै पतत्त्रिवरकेतुना। अर्हते पार्थिवेन्द्राय पार्थायायतलोचनाम्
सत्कृत्य पाण्डवश्रेष्ठं प्रेषयामास चार्जुनम्। भद्रया सह बीभत्सुः प्रापितो वृजिनं पुरम्
इति पौरजनाः सर्वे वदन्ति च समन्ततः।' श्रुत्वा तु पुण्डरीकाक्षः संप्राप्तं स्वपुरोत्तमम्
अर्जुनं पाण्डवश्रेष्ठमिन्द्रप्रस्थगतं तथा। `यियासुः खाण्डवप्रस्थममन्त्रयत केशवः
पूर्वं सत्कृत्य राजानमाहुकं मधुसूदनः। तथा विपृथुमक्रूरं संकर्षणविडूरथौ
मन्त्रयामास तैः सार्धं पुरस्तादभिमानितैः। संकर्षणेन संमन्त्र्य ह्यनुज्ञातो महामनाः
संप्रीतः प्रीयमाणेन वृष्णिराज्ञा जनार्दनः। अभिमन्त्र्याभ्यनुज्ञातो योजयामास वाहिनीम्
ततस्तु यानान्यासाद्य दाशार्हाणां यशस्विनाम्। सिंहनादः प्रहृष्टानां क्षणेन समपद्यत
योजयन्तः सदश्वांस्तु यानयुग्यं रथांस्तथा। गजांश्च परमप्रीतः समपद्यन्त वृष्णयः