अपांपतिरथोवाच ममाप्यंशो भवेत्ततः। सोढाऽस्मि विपुलं मर्दं मन्दरभ्रमणादिति
ऊचुश्च कूर्मराजानमकूपारे सुरासुराः। अधिष्ठानं गिरेरस्य भवान्भवितुमर्हति
कूर्मेण तु तथेत्युक्त्वा पृष्ठमस्य समर्पितम्। तं शैलं तस्य पृष्ठस्थं वज्रेणेन्द्रोऽभ्यपीडयत्
मन्थानं मन्दरं कृत्वा तथा योक्त्रं च वासुकिम्। देवा मथितुमारब्धाः समुद्रं निधिमम्भसाम्। अमृतार्थे पुरा ब्रह्मस्तथैवासुरदानवाः
एकमन्तमुपाश्लिष्टा नागराज्ञो महासुराः
विबुधाः सहिताः सर्वे यतः पुच्छं ततः स्थिताः। अनन्तो भगवान्देवो यतो नारायणः स्थितः
वासुकेरग्रमाश्लिष्टा नागराज्ञो महासुराः।' शिर उत्क्षिप्य नागस्य पुनः पुनरवाक्षिपन्
वासुकेरथ नागस्य सहसा क्षिप्यतोऽसुरैः। सधूमाः सार्चिषो वाता निष्पेतुरसकृन्मुखात्
वासुकेर्मथ्यमानस्य निःसृतेन विषेण च। अभवन्मिश्रितं तोयं तदा भार्गवनन्दन
मथनान्मन्दरेणाथ देवदानवबाहुभिः। विषं तीक्ष्णं समुद्भूतं हालाहलमिति श्रुतम्
देवाश्च दानवाश्चैव दग्धाश्चैव विषेण ह। अपाक्रामंस्ततो भीता विषादमगमंस्तदा
ब्रह्माणमब्रुवन्देवाः समेत्य मुनिपुंगवैः। मथ्यमानेऽमृते जातं विषं कालानलप्रभम्
तेनैव तापिता लोकास्तस्य प्रतिकुरुष्वह। एवमुक्तस्तदा ब्रह्मा दध्यौ लोकेश्वरं हरम्
त्र्यक्षं त्रिशूलिनं रुद्रे देवदेवमुमापतिम्। तदाऽथ चिन्तितो देवस्तज्ज्ञात्वा द्रुतमाययौ
तस्याथ देवस्तत्सर्वमाचचक्षे प्रजापतिः। तच्छ्रुत्वा दवेदेवेशो लोकस्यास्य हितेप्सया
अपिबत्तद्विषं रुद्रः कालानलसमप्रभम्। कण्ठे स्थापितवान्देवो लोकानां हितकाम्यया
यस्मात्तु नीलता कण्ठे नीलकण्ठस्ततः स्मृतः। पीतमात्रे विषे तत्र रुद्रेणामिततेजसा
देवाः प्रीताः पुनर्जग्मुश्चक्रुर्वै कर्म तत्तथा। मथ्यमानेऽमृतस्यार्थे भूयो वै देवदानवैः
वासुकेरथ नागस्य सहसा क्षिप्यतोऽसुरैः। सधूमाः सार्चिषो वाता निष्पेतुरसकृन्मुखात्
ते धूमसङ्घाः संभूता मेघसङ्घाः सविद्युतः। अभ्यवर्षन्सुरगणाञ्श्रमसंतापकर्शितान्
तस्माच्च गिरिकूटाग्रात्प्रच्युताः पुष्पवृष्टयः। सुरासुरगणान्सर्वान्समन्तात्समवाकिरन्
बभूवात्र महान्नादो महामेघरवोपमः। उदधेर्मथ्यमानस्य मन्दरेण सुरासुरैः
तत्र नानाजलचरा विनिष्पिष्टा महाद्रिणा। विलयं समुपाजग्मुः शतशो लवणाम्भसि
वारुणानि च भूतानि विविधानि महीधरः। पातालतलवासीनि विलयं समुपानयत्
तस्मिंश्च भ्राम्यमाणेऽद्रौ संघृष्यन्तः परस्परम्। न्यपतन्पतगोपेताः पर्वताग्रान्महाद्रुमाः
तेषां संघर्षजश्चाग्निरर्चिर्भिः प्रज्वलन्मुहुः। विद्युद्भिरिव नीलाभ्रमावृणोन्मन्दरं गिरिम्
ददाह कुञ्जरांस्तत्र सिंहांश्चैव विनिर्गतान्। विगतासूनि सर्वाणि सत्त्वानि विविधानि च
तमग्निममरश्रेष्ठः प्रदहन्तमितस्ततः। वारिणा मेघजेनेन्द्रः शमयामास सर्वशः
ततो नानाविधास्तत्र सुस्रुवुः सागराम्भसि। महाद्रुमाणां निर्यासा बहवश्चौषधीरसाः
तेषाममृतवीर्याणां रसानां पयसैव च। अमरत्वं सुरा जग्मुः काञ्चनस्य च निःस्रवात्