देवापृथुपुरं पश्यन् सर्वतः सुसमाहितः। तमतीत्य महाबाहुर्देवारण्यमपश्यत
पूजयामासुरायान्तं देवारण्ये महर्षयः। स वनानि नदीः शैलान् गिरिप्रस्रवणानि च
अतीत्य च तदा पार्थः सुभद्रासारथिस्तदा। कौरवं विषयं प्राप्य विशोकः समपद्यत
सोदर्याणां महाबाहुः सिंहाशयमिवाशयम्। दूरादुपवनोपेतं समन्तात्सलिलावृतम्
भद्रया मुदितो जिष्णुर्ददर्श वृजिनं पुरम्
क्रोशणात्रे पुरस्यासीद्गोष्ठं पार्थस्य शोभनम्। तत्रापि यात्वा बीभत्सुर्निविष्टो यदुकन्यया
ततः सुभद्रां सत्कृत्य पार्थो वचनमब्रवीत्। गोपिकानां तु वेषेण गच्छ त्वं वृजिनं पुरम्
कामव्याहारिणी कृष्णा रोचतां ते वचो मम। दृष्ट्वा तु परुषं ब्रूयात्सह तत्र मयागताम्
अन्यवेषेण तु गतां दृष्ट्वा सा त्वां प्रियं वदेत्। यत्तु सा प्रथमं ब्रूयान्न तस्यास्ति निवर्तनम्
तस्मान्मानं च दर्पं च व्यपनीय स्वयं व्रज। तस्य तद्वचनं श्रुत्वा सुभद्रा प्रत्यभाषत
एवमेतत्करिष्यामि यथा त्वं पार्थ भाषसे। सुभद्रावचनं श्रुत्वा सुप्रीतः पाकशासनिः
गोपालान्स समानीय त्वरितो वाक्यमब्रवीत्। तरुम्यः सन्ति यावन्त्यस्ताः सर्वा व्रजयोषितः
आगच्छन्तु गमिष्यन्त्या भद्रया सह सङ्गताः। इन्द्रप्रस्थं पुरवरं कृष्णां द्रष्टुं यशस्विनीम्
एतच्छ्रुत्वा तु गोपालैरानीता व्रजयोषितः। ततस्ताभिः परिवृतां व्रजस्त्रीभिः समन्ततः
सुभद्रां त्वरमाणश्च रक्तकौशेयवासिनीम्। पार्थः प्रस्थापयामास कृत्वा गोपालिकावपुः
साऽधिकं तेन रूपेण शोभमाना यशस्विनी। `गोपालिकामध्यगता प्रययौ वृजिनं पुरम्
त्वरिता खाण्डवप्रस्थमाससाद विवेश च।' भवनं श्रेष्ठमासाद्य वीरपत्नी वराङ्गना
ववन्दे पृथुताम्राक्षी पृथां भद्रा पितृष्वसाम्। तां कुन्ती चारुसर्वाङ्गीमुपाजिघ्रत मूर्धनि
प्रीत्या परमया युक्ता आशीर्भिर्युञ्जताऽतुलाम्। ततोऽभिगम्य त्वरिता पूर्णेन्दुसदृशानना
ववन्दे द्रौपदीं भद्रा प्रेष्याऽहमिति चाब्रवीत्। प्रत्युत्थाय तदा कृष्णा स्वसारं माधवस्य च
परिष्वज्यावदत्प्रीत्या निःसपत्नोस्तु ते पतिः। `वीरसूर्भव भद्रे त्वं भव भर्तृप्रिया तथा
ओजसा निर्मिता बह्वीरुवाच परमाशिषः।' तथैव मुदिता भद्रा तामुवाच तथास्त्विति
ततः सुभद्रां वार्ष्णेयी परिष्वज्य शुभाननाम्। अङ्के निवेश्य मुदिता वसुदेवं प्रशस्य च
ततः किलकिलाशब्दः क्षणेन समपद्यत। हर्षादानर्तयोधानामासाद्य वृजिनं पुरम्
देवपुत्रप्रकाशास्ते जाम्बूनदमयध्वजाः। पृष्ठतोऽनुययुः पार्थं पुरुहूतमिवामराः
गोभिरुष्ट्रैः सदश्वैश्च युक्तानि बहुला जनाः। ददृशुर्यानमुख्यानि दाशार्हपुरवासिनाम्
ततः पुरवरे यूनां पुंसां वाच उदीरिताः। अर्जुने प्रतियाति स्म अश्रूयन्त समन्ततः
प्रवासादागतं पार्थं दृष्ट्वा स्वमिव बान्धवम्। सोऽभिगम्य नरश्रेष्ठो दाशार्हशतसंवृतः
पौरैः पुरवरं प्रीत्या परया चाभिनन्दितः। प्राप्य चान्तःपुरद्वारमवरुह्य नरर्षभः
ववन्दे धौम्यमासाद्य मातरं च धनञ्जयः। स्पृष्ट्वा च चरणौ राज्ञो भीमस्य च धनञ्जयः