मयोक्तं न श्रुतं पूर्वं सहितैः सर्वयादवैः। अतिक्रान्तमतिक्रान्तं न निवर्तेत कर्हिचित्। शृणुध्वं सहिताः सर्वे मम वाक्यं सहेतुकम्
नावमानं कुलस्यास्य गुडाकेशः प्रयुक्तवान्। संमानोऽभ्यधिकस्तेन प्रयुक्तोऽयं न संशयः
अर्थलुब्धान्न वः पार्थो मन्यते सात्वतान्सदा। स्वयंवरमनाधृष्यं मन्यते चापि पाण्डवः
प्रदानमपि कन्यायाः पशुवत्को नु मन्यते। विक्रयं चाप्यपत्यस्य कः कुर्यात्पुरुषो भुवि
एतान्दोषांस्तु कौन्तेयो दृष्टवानिति मे मतिः। `क्षत्रियाणां तु वीर्येण प्रशस्तं हरणं बलात्।' अतः प्रसह्य हृतवान्कन्यां धर्मेण पाण्डवः
उचितश्चैव संबन्धः सुभद्रा च शयस्विनी। एष चापीदृशः पार्थः प्रसह्य हृतवानतः
भरतस्यान्वये जातं शान्तनोश्च यशस्विनः। कुन्तिभोजात्माजापुत्रं का बुभूषेत नार्जुनम्
न तं पश्यामि यः पार्थं विजयेत रणे बलात्। वर्जयित्वा विरूपाक्षं भगनेत्रहरं हरम्
अपि सर्वेषु लोकेषु सेन्द्ररुद्रेषु मारिष। स च नाम रथस्तादृङ्मदीयास्ते च वाजिनः
मम शस्त्रं विशेषेण तूणौ चाक्षयसायकौ।' योद्धा पार्थश्च शीघ्रास्त्रः को नु तेन समो भवेत्। तमभिद्रुत्य सान्त्वेन परमेण धनञ्जयम्
निवर्तयत संहृष्टा ममैषा परमा मतिः। यदि निर्जित्य वः पार्थो बलाद्गच्छेत्स्वकं पुरं
प्रणश्येद्वो यशः सद्यो न तु सान्त्वे पराजयः। `पितृष्वसायाः पुत्रो मे संबन्धं नार्हति द्विषाम्।' तच्छ्रुत्वा वासुदेवस्य तथा कर्तुं जनाधिप
उद्योगं कृतवन्तस्ते भेरीं सन्नाद्य यादवाः। अर्जुनस्तु तदा श्रुत्वा भेरीसन्नादनं महत्
कौन्तेयस्त्वरमाणस्तु सुभद्रामभ्यभाषत। आयान्ति वृष्णयः सर्वे ससुहृज्जनबान्धवाः
त्वदर्थं योद्धुकामास्ते मदरक्तान्तलोचनाः। प्रमत्तानशुचीन्मूढान्सुरामत्तान्नराधमान्
वमनं पानशीलांस्तान्करिष्यामि शरोत्तमैः। उताहो वा मदोन्मत्तान्नयिष्यामि यमक्षयम्
एवमुक्त्वा प्रियां पार्थो न्यवर्तत महाबलः। निवर्तमानं दृष्ट्वैव सुभद्रा त्रस्ततां गता
एवं मा वद पार्थेति पादयोः पतिता तदा। सुभद्रा तु कलिर्जाता वृष्णीनां निधाय च
एवं ब्रुवन्तः पौरास्ते ह्यपवादरताः प्रभो। मम शोकं वर्धयन्ति तस्मान्नाशं न चिन्तये। परिवादभयान्मुक्ता त्वत्प्रसादाद्भवाम्यहम्
एवमुक्तस्ततः पार्थः प्रियया भद्रया तदा। गमनाय मतिं चक्रे पार्थः सत्यपराक्रमः
स्तितपूर्वं तदाऽऽभाष्य परिष्वज्य प्रियां तदा। उत्थाप्य च पुनः पार्थो याहि याहीति चाब्रवीत्
ततः सुभद्रा त्वरिता रश्मीन्संगृह्य पाणिना। चोदयामास जवनाञ्शीग्रमश्वान्कृतत्वरा
ततस्तु कृतसन्नाहा वृष्णिवीराः समाहिताः। प्रत्यानयार्थं पार्थस्य जवनैस्तुरगोत्तमैः
राजमार्गमनुप्राप्ता दृष्ट्वा पार्थस्य विक्रमम्। प्रासादपङ्क्तिस्तम्भेषु वेदिकासु ध्वजेषु च
अर्जुनस्य शरान्दृष्ट्वा विस्मयं परमं गताः। केशवस्य वचस्तथ्यं मन्यमानास्तु यादवाः
अतीत्य तं रैवतकं श्रुत्वा तु विपृथोर्वचः। अर्जुनेन कृतं श्रुत्वा गन्तुकामास्तु वृष्णयः
श्रुत्वा दीर्घं गतं पार्थं न्यवर्तन्त महारथाः। पुरोद्यानमतिक्रम्य विशालं च गिरिव्रजम्
सानुमुज्जयिनीं चैव वनान्युपवनानि च। पुण्येष्वानर्तराष्ट्रेषु वापीपद्मसरांसि च
प्राप्य धेनुमतीतीर्थमश्वरोधसरः प्रति। प्रेक्षावर्तं ततः शैलमम्बुदं च नगोत्तमम्
आराच्छृङ्गमथासाद्य तीर्णः करवतीं नदीम्। प्राप्य साल्वेयराष्ट्राणि निषधानप्यतीत्य च