भेजिरे पुरुषव्याघ्रा वृष्ण्यन्धकमहारथाः। सिंहासनानि शतशो धिष्ण्यानीव हुताशनाः
तेषां समुपविष्टानां देवानामिव सन्नये। आचख्यौ चेष्टितं जिष्णोः सभापालः सहानुगः
तच्छ्रुत्वा वृष्णिवीरास्ते मदसंरक्तलोचनाः। अमृष्यमाणाः पार्थस्य समुत्पेतुरहङ्कृताः
योजयध्वं रथानाशु प्रासानाहरतेति च। धनूंषि च महार्हाणि कवचानि बृहन्ति च
सूतानुच्चुक्रुशुः केचिद्रथान्योजयतेति च। स्वयं च तुरगान्केचिदयुञ्जन्हेमभूषितान्
रथेष्वानीयमानेषु कवचेषु ध्वजेषु च। अभिक्रन्दे नृवीराणां तदासीत्तुमुलं महत्
वनमाली ततः क्षीबः कैलासशिखरोपमः। नीलवासा मदोत्सिक्त इदं वचनमब्रवीत्
किमिदं कुरुथाप्रज्ञास्तूष्णींभूते जनार्दने। अस्य भावमविज्ञाय संक्रुद्धा मोघगर्जिताः
एष तावदभिप्रायमाख्यातु स्वं महामतिः। यदस्य रुचिरं कर्तुं तत्कुरुध्वमतन्द्रिताः
ततस्ते तद्वचः श्रुत्वा ग्राह्यरूपं हलायुधात्। तूष्णींभूतास्ततः सर्वे साधुसाध्विति चाब्रुवन्
समं वचो निशम्यैव बलदेवस्य धीमतः। पुनरेवसभामध्ये सर्वे ते समुपाविशन्
ततोऽब्रवीद्वासुदेवं वचो रामः परन्तपः। `त्रैलोक्यनाथ हे कृष्ण भूतभव्यभविष्यकृत्।' किमवागुपविष्टोऽसि प्रेक्षमाणो जनार्दन
सत्कृतस्त्वत्कृते पार्थः सर्वैरस्माभिरच्युत। न च सोऽर्हति तां पूजां दुर्बुद्धिः कुलपांसनः
को हि तत्रैव भुक्तावान्नं भाजनं भेत्तुमर्हति। मन्यमानः कुले जातमात्मानं पुरुषः क्वचित्
इच्छन्नेव हि संबन्धं कृतं पूर्वं च मानयन्। को हि नाम भवेनार्थी साहसेन समाचरेत्
सोऽवमन्य तथाऽस्माकमनादृत्य च केशवम्। प्रसह्य हृतवानद्य सुभद्रां मृत्युमात्मनः
कथं हि शिरसो मध्ये कृतं तेन पदं मम। मर्षयिष्यामि गोविन्द पादस्पर्शमिवोरगः
अद्य निष्कौरवामेकः करिष्यामि वसुन्धराम्। न हि मे मर्षणीयोऽयमर्जुनस्य व्यतिक्रमः
तं तथा गर्जमानं तु मेघदुन्दुभिनिःस्वनम्। अन्वपद्यन्त ते सर्वे भोजवृष्ण्यन्धकास्तदा
उक्तवन्तो यथावीर्यमसकृत्सर्ववृष्णयः। ततोऽब्रवीद्वासुदेवो वाक्यं धर्मार्थसंयुतम्
मयोक्तं न श्रुतं पूर्वं सहितैः सर्वयादवैः। अतिक्रान्तमतिक्रान्तं न निवर्तेत कर्हिचित्। शृणुध्वं सहिताः सर्वे मम वाक्यं सहेतुकम्
नावमानं कुलस्यास्य गुडाकेशः प्रयुक्तवान्। संमानोऽभ्यधिकस्तेन प्रयुक्तोऽयं न संशयः
अर्थलुब्धान्न वः पार्थो मन्यते सात्वतान्सदा। स्वयंवरमनाधृष्यं मन्यते चापि पाण्डवः
प्रदानमपि कन्यायाः पशुवत्को नु मन्यते। विक्रयं चाप्यपत्यस्य कः कुर्यात्पुरुषो भुवि
एतान्दोषांस्तु कौन्तेयो दृष्टवानिति मे मतिः। `क्षत्रियाणां तु वीर्येण प्रशस्तं हरणं बलात्।' अतः प्रसह्य हृतवान्कन्यां धर्मेण पाण्डवः
उचितश्चैव संबन्धः सुभद्रा च शयस्विनी। एष चापीदृशः पार्थः प्रसह्य हृतवानतः
भरतस्यान्वये जातं शान्तनोश्च यशस्विनः। कुन्तिभोजात्माजापुत्रं का बुभूषेत नार्जुनम्
न तं पश्यामि यः पार्थं विजयेत रणे बलात्। वर्जयित्वा विरूपाक्षं भगनेत्रहरं हरम्
अपि सर्वेषु लोकेषु सेन्द्ररुद्रेषु मारिष। स च नाम रथस्तादृङ्मदीयास्ते च वाजिनः
मम शस्त्रं विशेषेण तूणौ चाक्षयसायकौ।' योद्धा पार्थश्च शीघ्रास्त्रः को नु तेन समो भवेत्। तमभिद्रुत्य सान्त्वेन परमेण धनञ्जयम्