ततो रथवरात्तूर्णमवरुह्य नरर्षभः। अभिगम्य नरव्याघ्रं प्रहृष्टः परिषस्वजे
सोऽब्रवीत्पार्थमासाद्य दीर्घकालमिदं तव। निवासमभिजानामि शङ्खचक्रगदाधरात्
न मेऽस्त्यविदितं किंचिद्यद्यदाचितं त्वया। सुभद्रार्थं प्रलोभेन प्रीतस्तव जनार्दनः
प्राप्तस्य यतिलिङ्गेन वासितस्य धनञ्जय। बन्धुमानसि रामेण महेन्द्रावरजेन च
मामेव च सदाकाङ्क्षी मन्त्रिणं मधुसूदनः। अन्तरेण सुभद्रां च त्वां च तात धनञ्जय
इमं रथवरं दिव्यं सर्वशस्त्रसमन्वितम्। इदमेवानुयात्रं च निर्दिश्य गदपूर्वजः
अन्तर्द्वीपं तदा वीर गतो वृष्णिसुखावहः। दीर्घकालावरुद्धं त्वां संप्राप्तं प्रियया सह
पश्यन्तु भ्रातरः सर्वे वज्रपाणिमिवामराः। आयाते तु दशार्हाणामृषभे शार्ङ्गधन्वनि
भद्रामनुगमिष्यन्ति रत्नानि च वसूनि च। अरिष्टं याहि पन्थानं सुखी भव धनञ्जय
नष्टशोकैर्विशोकस्य सुहृद्भिः संगमोऽस्तु ते
ततो विपृथुमामन्त्र्य पार्थः प्रीतोऽभिवाद्य च। कृष्णस्य मतमास्थाय कृष्णस्य रथमास्थितः
पूर्वमेव तु पार्थाय कृष्णेन विनियोजितम्। सर्वरत्नसुसंपूर्णं सर्वभोगसमन्वितम्
रथेन काञ्चनाङ्गेन कल्पितेन यथाविधि। शैब्यसुग्रीवयुक्तेन किङ्किणीजालमालिना
सर्वशस्त्रोपपन्नेन जीमूतरवनादिना। ज्वलनार्चिःप्रकाशेन द्विषतां हर्षनाशिना
सन्नद्धः कवची खड्गी बद्धगोधाङ्गुलित्रवान्। युक्तः सेनानुयात्रेण रथणारोप्य माधवीम्। रथेनाकाशगेनैव पययौ *स्वपुरं प्रति
ह्रियमाणां तु तां दृष्ट्वा सुभद्रां सैनिका जनाः। विक्रोशन्तोऽद्रवन्सर्वे द्वारकामभितः पुरीम्
ते समासाद्य सहिताः सुधर्मामभितः सभाम्। सभापालस्य तत्सर्वमाचख्युः पार्थविक्रमम्
तेषां श्रुत्वा सभापालो भेरीं सान्नाहिकीं ततः। समाजघ्ने महाघोषां जाम्बूनदपरिष्कृताम्
क्षुब्धास्तेनाथ शब्देन भोजवृष्ण्यन्धकास्तदा। `अन्तर्द्वीपात्समुत्पेतुः सहसा सहितास्तदा।' अन्नपानमपास्याथ समापेतुः समन्ततः
तत्र जाम्बूनदाङ्गानि स्पर्ध्यास्तरणवन्ति च। मणिविद्रुमचित्राणि ज्वलिताग्निप्रभाणि च
भेजिरे पुरुषव्याघ्रा वृष्ण्यन्धकमहारथाः। सिंहासनानि शतशो धिष्ण्यानीव हुताशनाः
तेषां समुपविष्टानां देवानामिव सन्नये। आचख्यौ चेष्टितं जिष्णोः सभापालः सहानुगः
तच्छ्रुत्वा वृष्णिवीरास्ते मदसंरक्तलोचनाः। अमृष्यमाणाः पार्थस्य समुत्पेतुरहङ्कृताः
योजयध्वं रथानाशु प्रासानाहरतेति च। धनूंषि च महार्हाणि कवचानि बृहन्ति च
सूतानुच्चुक्रुशुः केचिद्रथान्योजयतेति च। स्वयं च तुरगान्केचिदयुञ्जन्हेमभूषितान्
रथेष्वानीयमानेषु कवचेषु ध्वजेषु च। अभिक्रन्दे नृवीराणां तदासीत्तुमुलं महत्
वनमाली ततः क्षीबः कैलासशिखरोपमः। नीलवासा मदोत्सिक्त इदं वचनमब्रवीत्
किमिदं कुरुथाप्रज्ञास्तूष्णींभूते जनार्दने। अस्य भावमविज्ञाय संक्रुद्धा मोघगर्जिताः
एष तावदभिप्रायमाख्यातु स्वं महामतिः। यदस्य रुचिरं कर्तुं तत्कुरुध्वमतन्द्रिताः
ततस्ते तद्वचः श्रुत्वा ग्राह्यरूपं हलायुधात्। तूष्णींभूतास्ततः सर्वे साधुसाध्विति चाब्रुवन्