शासनात्पुरुषेन्द्रस्य बलेन महता बली। गिरौ रैवतके नित्यं बभूव विपृथुश्रवाः
प्रवासे वासुदेवस्य तस्मिन्हलधरोपमः। संबभूव तदा गोप्ता पुरस्य पुरवर्धनः
प्राप्य पाण्डवनिर्याणं निर्ययौ विपृथुश्रवाः। निशम्य पुरनिर्घोषं स्वमनीकमचोदयत्
सोऽभिपत्य तदाध्वानं ददर्श पुरुषर्षभम्। निःसृतं द्वारकाद्वारादंशुमन्तमिवाम्बिरात्
सविद्युतमिवाम्भोदं प्रेक्षतां तं धनुर्धरम्। पार्थमानर्तयोधानां विस्मयः समपद्यत
उदीर्णरथनागाश्वमनीकमभिवीक्ष्य तत्। उवाच परमप्रीता सुभद्रा भद्रभाषिणी
संग्रहीतुमभिप्रायो दीर्घकालकृतो मम। युध्यमानस्य सङ्ग्रामे रथं तव नरर्षभ
ओजस्तेजोद्युतिबलैरन्वितस्य महात्मनः। पार्थ ते सारथित्वेन भविता शिक्षितास्म्यहम्
एवमुक्तः प्रियां प्रीतः प्रत्युवाच नरर्षभः। चोदयाश्वानसंसक्तान्विश्तु विपृथोर्बलम्
बहुभिर्युध्यमानस्य तावकान्विजिघांसतः। पश्य बाहुबलं भद्रे शरान्विक्षिपतो मम
एवमुक्ता तदा भद्रा पार्थेन भरतर्षभ। चुचोद साश्वान्संहृष्टा ते ततो विविशुर्बलम्
तदाहतमहावाद्यं समुदग्रध्वजायुतम्। अनीकं विपृथोर्हृष्टं पार्थमेवान्ववर्तत
रथैर्बहुविधाकारैः सदश्वैश्च महाजवैः। किरन्तः शरवर्षाणि परिवव्रुर्धनञ्जयम्
तेषामस्त्राणि संवार्य दिव्यास्त्रेण महास्त्रवित्। आवृणोन्महदाकाशं शरैः परपुरञ्जयः
तेषां बाणान्महाबाहुर्मुकुटान्यङ्गदानि च। चिच्छेद निशितैर्बाणैः शरांश्चैव धनूंषि च
युगानीषान्वरूथानि यन्त्राणि विविधानि च। अजिघांसन्परान्पार्थश्चिच्छेद निशितैः शरैः
विधनुष्कान्विकवचान्विरथांश्च महारथान्। कृत्वा पार्थः प्रियां प्रीतः प्रेक्ष्यतामित्यदर्शयत्
सा दृष्ट्वा महदाश्चर्यं सुभद्रा पार्थमब्रवीत्। अवाप्तार्थाऽस्मि भद्रं ते याहि पार्थ यथासुखम्
स सक्तं पाण्डुपुत्रेण समीक्ष्य विपृथुर्बलम्। त्वरमाणोऽभिसंक्रम्य स्थीयतामित्यभाषत
ततः सेनापतेर्वाक्यं नात्यवर्तन्त यादवाः। सागरे मारुतोद्धूता वेलामिव महोर्मयः
ततो रथवरात्तूर्णमवरुह्य नरर्षभः। अभिगम्य नरव्याघ्रं प्रहृष्टः परिषस्वजे
सोऽब्रवीत्पार्थमासाद्य दीर्घकालमिदं तव। निवासमभिजानामि शङ्खचक्रगदाधरात्
न मेऽस्त्यविदितं किंचिद्यद्यदाचितं त्वया। सुभद्रार्थं प्रलोभेन प्रीतस्तव जनार्दनः
प्राप्तस्य यतिलिङ्गेन वासितस्य धनञ्जय। बन्धुमानसि रामेण महेन्द्रावरजेन च
मामेव च सदाकाङ्क्षी मन्त्रिणं मधुसूदनः। अन्तरेण सुभद्रां च त्वां च तात धनञ्जय
इमं रथवरं दिव्यं सर्वशस्त्रसमन्वितम्। इदमेवानुयात्रं च निर्दिश्य गदपूर्वजः
अन्तर्द्वीपं तदा वीर गतो वृष्णिसुखावहः। दीर्घकालावरुद्धं त्वां संप्राप्तं प्रियया सह
पश्यन्तु भ्रातरः सर्वे वज्रपाणिमिवामराः। आयाते तु दशार्हाणामृषभे शार्ङ्गधन्वनि
भद्रामनुगमिष्यन्ति रत्नानि च वसूनि च। अरिष्टं याहि पन्थानं सुखी भव धनञ्जय
नष्टशोकैर्विशोकस्य सुहृद्भिः संगमोऽस्तु ते