व्यत्ययित्वा तु तल्लिङ्गं यतिवेषं धनञ्जयः। आमुच्य कवचं वीरः समुच्छ्रितमहद्धनुः
आरुरोह रथश्रेष्ठं शुक्लवासा धनञ्जयः। महेन्द्रदत्तं मुकुटं तथैवाभरणानि च
अलङ्कृत्य तु कौन्तेयः प्रयातुमुपचक्रमे। ततः कन्यापुरे घोषस्तुमुलः समपद्यत
दृष्ट्वा नववरं पार्थं बाणखड्गधनुर्धरम्। अभीशुहस्तां सुश्रोणीमर्जुनेन रथे स्थिताम्
ऊचुः कन्यास्तदा यान्तीं वासुदेवसहोदराम्। सर्वकामसमृद्धा त्वं सुभद्रे भद्रभाषिणि
वासुदेवप्रियं लब्ध्वा भर्तारं वीरमर्जुनम्। सर्वसीमन्तिनीनां त्वां श्रेष्ठां कृष्णसहोदरीम्
मन्यामहे महाभागे सुभद्रे भद्रभाषिणि। यस्मात्सर्वमनुष्याणां श्रेष्ठो भर्ता तवार्जुनः
उपपन्नस्त्वया वीरः सर्वलोकमहारथः। हे प्रयाहि गृहान्भद्रे सुहृद्भिः संगमोऽस्तु ते
एवमुक्ता प्रहृष्टाभिः सखीभिः प्रतिनन्दिता। भद्रा भद्रजवोपेतानश्वान्पुनरचोदयत्
पार्श्वे चामरहस्ता सा सखी तस्याङ्गनाऽभवत्। ततः कन्यापुरद्वारात्सघोषादभिनिःसृतम्
ददृशुस्तं रथश्रेष्ठं जना जीमूतनिस्वनम्। सुभद्रासङ्गृहीतस्य रथस्य महतः स्वनम्
मेघस्वनमिवाकाशे शुश्रुवुः पुरवासिनः। सुभद्रया तु संपन्ने तिष्ठन्रथवरेऽर्जुनः
प्रबभौ च तयोपेतः कैलास इव गङ्गया। पार्थः सुभद्रासहितो विरराज महारथः
विराजते यथा शक्रो राजञ्शच्या समन्वितः। सुभद्रां प्रेक्ष्य पार्थेन ह्रियमाणां यशस्विनीम्
चक्रुः किलकिलाशब्दानासाद्य बहवो जनाः। दाशार्हाणां कुलस्य श्रीः सुभद्रा मद्रभाषिणी
अभिकामा सकामेन पार्थेन सह गच्छति। अथापरे तु संक्रुद्धा गृह्णीत घ्नत माचिरम्
इति संवार्य शस्त्राणि ववर्षुरभितो दिशम्। इति संभाषमाणानां स नादः सुमहानभूत्
स तेन जनघोषेण वीरो गज इवार्दितः। ववर्ष शरवर्षाणि न तु कंचन रोषयत्
मुमोच निशितान्बाणान्दीप्यमानान्स्वतेजसा। प्रासादवरसङ्घेषु हर्म्येषु भवनेषु च
क्षोभयित्वा पुरश्रेष्ठं गरुत्मानिव सागरम्। प्रेक्षन्रैवकतद्वारं निर्ययौ भरतर्षभः
शासनात्पुरुषेन्द्रस्य बलेन महता बली। गिरौ रैवतके नित्यं बभूव विपृथुश्रवाः
प्रवासे वासुदेवस्य तस्मिन्हलधरोपमः। संबभूव तदा गोप्ता पुरस्य पुरवर्धनः
प्राप्य पाण्डवनिर्याणं निर्ययौ विपृथुश्रवाः। निशम्य पुरनिर्घोषं स्वमनीकमचोदयत्
सोऽभिपत्य तदाध्वानं ददर्श पुरुषर्षभम्। निःसृतं द्वारकाद्वारादंशुमन्तमिवाम्बिरात्
सविद्युतमिवाम्भोदं प्रेक्षतां तं धनुर्धरम्। पार्थमानर्तयोधानां विस्मयः समपद्यत
उदीर्णरथनागाश्वमनीकमभिवीक्ष्य तत्। उवाच परमप्रीता सुभद्रा भद्रभाषिणी
संग्रहीतुमभिप्रायो दीर्घकालकृतो मम। युध्यमानस्य सङ्ग्रामे रथं तव नरर्षभ
ओजस्तेजोद्युतिबलैरन्वितस्य महात्मनः। पार्थ ते सारथित्वेन भविता शिक्षितास्म्यहम्
एवमुक्तः प्रियां प्रीतः प्रत्युवाच नरर्षभः। चोदयाश्वानसंसक्तान्विश्तु विपृथोर्बलम्
बहुभिर्युध्यमानस्य तावकान्विजिघांसतः। पश्य बाहुबलं भद्रे शरान्विक्षिपतो मम