सा जिष्णुमधिकं भेजे सुभद्रा चारुदर्शना। पार्थस्य सदृशी भद्रा रूपेण वयसा तथा
सुभद्रायाश्च पार्थोऽपि सदृशो रूपलक्षणैः। इत्यूचुश्च तदा देवाः प्रीताः सेन्द्रपुरोगमाः
एवं निवेश्य देवास्ते गन्धर्वैः साप्सरोगणैः। आमन्त्र्य यादवाः सर्वे विप्रजग्मुर्यथागतम्
यादवाः पार्थमामन्त्र्य अन्तर्द्वीपं गतास्तदा। वासुदेवस्तदा पार्थमुवाच यदुनन्दनः
द्वाविंशद्दिवसान्पार्थ इहोष्य भरतर्षभ। मामकं रथमारुह्य शैब्यसुग्रीवयोजितम्
सुभद्रया सुखं पार्थ खाण्डवप्रस्थमाविश। यादवैः सहितः पश्चादागमिष्यामि भारत। यतिवेषेण नियतो वस त्वं रुक्मिणीगृहे
एवमुक्त्वा प्रचक्राम अन्तर्द्वीपं जनार्दनः। कृतोद्वाहस्ततः पार्थः कृतकार्योऽभवत्तदा
तस्यां चोपगतो भावः पार्थस्य सुमहात्मनः। तस्मिन्भावः सुभद्राया अन्योन्यं समवर्धत
स तथा युयुजे वीरो भद्रया भरतर्षभः। अभिनिष्पन्नया रामः सीतयेव समन्वितः
अपि जिष्णुर्विजज्ञे तां ह्रीं श्रियं सन्नतिक्रियाम्। देवतानां वरस्त्रीणां रूपेण सदृशीं सतीम्
स प्रकृत्या श्रिया दीप्त्या संदिदीपे तयाऽधिकम्। उद्यत्सहस्रदीप्तांशुः शरदीव दिवाकरः
सा तु तं मनुजव्याघ्रमनुरक्ता यशस्विनी। कन्यापुरगता भूत्वा तत्परा समपद्यत
वृष्म्यन्धकपुरात्तस्मादपयातुं धनञ्जयः। विनिश्चित्य तया सार्धं सुभद्रामिदमब्रवीत्
द्विजानां गुणमुख्यानां यथार्हं प्रतिपादय। भोज्यैर्भक्ष्यैश्च कामैश्च स्वपुरीं प्रतियास्यताम्
आत्मनश्च समुद्दिश्य महाव्रतसमापनम्। गच्छ भद्रे स्वयं तूर्णं महाराजनिवेशनम्
तेजोबलजवोपेतैः शुक्लैर्हयवरोत्तमैः। वाजिभिः शैव्यसुग्रीवमेघपुष्पबलाहकैः
युक्तं रथवरं तूर्णमिहानय सुसत्कृतम्। व्रतार्थमिति भाषित्वा सखीभिः सुभगे सह
क्षिप्रमादाय पर्येहि सह सर्वायुधेन च। अनुकर्षान्तपताकाश्च तूणीरांश्च धनूंषि च
सर्वान्रथवरे स्थाप्य सोत्सेधाश्च महागदाः
अर्जुनेनैवमुक्ता सा सुभद्रा भद्रभाषिणी। जगाम नृपतेर्वेश्म सखीभिः सहिता तदा
व्रतार्थमिति तत्रस्थान्रक्षिणो वाक्यमब्रवीत्। रथेनानेन यास्यामि महाव्रतसमापनम्
शैब्यसुग्रीवयुक्तेन सायुधेनैव शार्ङ्गिणः। रथेन रमणीयेन प्रयास्यामि व्रतार्थिनी
सुभध्रयैवमुक्ते तु जनाः प्राञ्जलयोऽभवन्। योजयित्वा रथवरं कल्याणैरभिभाष्य ताम्
यथोक्तं सर्वमारोप्य आयुधानि च भामिनी। क्षिप्रमादाय कल्याणी सुभद्राऽर्जुनमब्रवीत्
रथोऽयं रथिनां श्रेष्ठ आनीतस्तव शासनात्। स त्वं याहि यथाकामं कुरून्कौरवनन्दन
निवेद्य तु रथं भर्तुः सुभद्रा भद्रसंमता। ब्राह्मणानां तदा हृष्टा ददौ सा विविधं वसु
स्नेहवन्ति च भोज्यानि प्रददावीप्सितानि च। यथाकामं यथाश्रद्धं वस्त्राणि विविधानि च
तर्पिता विविधैर्भोज्यैस्तान्यवाप्य वसूनि च। ब्राह्मणाः स्वगृहं जग्मुः प्रयुज्य परमाशिषः
सुभद्रया तु विज्ञप्तः पूर्वमेव धनञ्जयः। अभीशुग्रहणे पार्थ न मेऽस्ति सदृशो भुवि
तस्मात्सा पूर्वमारुह्य रश्मीञ्जग्राह माधवी। सोदरा वासुदेवस्य कृतस्वस्त्ययना हयान्