अर्जुनस्य वचः श्रुत्वा चिन्तयन्ती जनार्दनम्। नोवाच किंचिद्वचनं बाष्पदूषितलोचना
रागोन्मादप्रलापी सन्नर्जुनो जयतां वरः। चिन्तयामास पितरं प्रविश्य च लतागृहम्
चिन्तयानं तु कौन्तेयं मत्वा शच्या शचीपतिः। सहितो नारदाद्यैश्च मुनिभिश्च महामनाः
गन्धर्वैरप्सरोभिश्च चारणैश्चापि गुह्यकैः। अरुन्धत्या वसिष्ठेन ह्याजगाम कुशस्थलीम्
चिन्तितं च सुभद्रायाश्चिन्तयित्वा जनार्दनः। निद्रयापहृतज्ञानं रौहिणेयं विना तदा
सहाक्रूरेण शिनिना सत्यकेन गदेन च। वसुदेवेन देवक्या आहूकेन च धीमता
आजगाम पुरीं रात्रौ द्वारकां स्वजनैर्वृतः। पूजयित्वा तु देवेशो नारदादीन्महायशाः
कुशलप्रश्नमुक्त्वा तु देवेन्द्रेणाभियाचितः। वैवाहिकीं क्रियां कृष्णः स तथेत्येवमुक्तवान्
आहुको वसुदेवश्च सहाक्रूरः ससात्यकिः। अभिप्रणम्य शिरसा पाकशासनमब्रुवन्। देवदेव नमस्तेस्तु लोकनाथ जगत्पते
वयं धन्याः स्म सहितैर्बान्धवैः सहिताः प्रभो। कृतप्रसादास्तु वयं तव वाक्येन विश्वजित्
एवमुक्त्वा प्रसाद्यैनं पूजयित्वा प्रयत्नतः। महेन्द्रशासनात्सर्वे सहिता ऋषिभिस्तदा
विवाहं कारयामासुः शक्रपुत्रस्य शास्त्रतः। अरुन्धती शची देवी रुग्मिणी देवकी तथा
दिव्यस्त्रीभिश्च सहिताः सुभद्रायाः शुभाः क्रियाः। अर्जुनेऽपि तथा सर्वाः क्रिया भद्राः प्रयोजयन्
महर्षिः काश्यपो होता सदस्या नारदादयः। पुण्याशिषः प्रयोक्तारः सर्वे ते हि तदार्जुने
अभिषेकं तदा कृत्वा महेन्द्रः पाकशासनिम्। लोकपालैस्तु सहितः सर्वदेवैरभिष्टुतः
किरीटाङ्गदहाराद्यैर्हस्ताभरणकुण्डलैः। भूषयित्वा तदा पार्थं द्वितीयमिव वासवम्
पुत्रं परिष्वज्य तदा प्रीतिमाप पुरन्दरः। शछी देवी तदा भद्रामरुन्धत्यादिभिस्तथा
कारयामास वैवाह्यमङ्गलान्यादवस्त्रियः। सहाप्सरोभिर्मुदिता भूषयित्वा स्वभूषणैः
पौलोमीमिव मन्यन्ते सुभद्रां तत्र योषितः। ततो विवाहो ववृधे कृतः सर्वगुणान्वितः
तस्याः पाणिं गृहीत्वा तु मन्त्रैर्होमपुरस्कृतम्। सुभद्रया बभौ जिष्णुः शच्या इव शचीपतिः
सा जिष्णुमधिकं भेजे सुभद्रा चारुदर्शना। पार्थस्य सदृशी भद्रा रूपेण वयसा तथा
सुभद्रायाश्च पार्थोऽपि सदृशो रूपलक्षणैः। इत्यूचुश्च तदा देवाः प्रीताः सेन्द्रपुरोगमाः
एवं निवेश्य देवास्ते गन्धर्वैः साप्सरोगणैः। आमन्त्र्य यादवाः सर्वे विप्रजग्मुर्यथागतम्
यादवाः पार्थमामन्त्र्य अन्तर्द्वीपं गतास्तदा। वासुदेवस्तदा पार्थमुवाच यदुनन्दनः
द्वाविंशद्दिवसान्पार्थ इहोष्य भरतर्षभ। मामकं रथमारुह्य शैब्यसुग्रीवयोजितम्
सुभद्रया सुखं पार्थ खाण्डवप्रस्थमाविश। यादवैः सहितः पश्चादागमिष्यामि भारत। यतिवेषेण नियतो वस त्वं रुक्मिणीगृहे
एवमुक्त्वा प्रचक्राम अन्तर्द्वीपं जनार्दनः। कृतोद्वाहस्ततः पार्थः कृतकार्योऽभवत्तदा
तस्यां चोपगतो भावः पार्थस्य सुमहात्मनः। तस्मिन्भावः सुभद्राया अन्योन्यं समवर्धत
स तथा युयुजे वीरो भद्रया भरतर्षभः। अभिनिष्पन्नया रामः सीतयेव समन्वितः
अपि जिष्णुर्विजज्ञे तां ह्रीं श्रियं सन्नतिक्रियाम्। देवतानां वरस्त्रीणां रूपेण सदृशीं सतीम्