संविधानपरा भद्रे भव त्वं वशवर्तिनी
एवमादिश्य भिक्षां च भद्रां च मधुसूदनः। ययौ शङ्खप्रणादेन भेरीणां निस्वनेन च
ततस्तु द्वीपमासाद्य दानधर्मपरायणाः। उग्रसेनमुखाश्चान्ये विजहुः कुकुरान्धकाः
पटहानां प्रणादैश्च भेरीणां निस्वनेन च। सप्तयोजनविस्तार आयतो दशयोजनम्
बभूव स महाद्वीपः सपर्वतमहावनः। सेतुपुष्करिणीजालैराक्रीडः सर्वसात्वताम्
वापीपल्वलसङ्घैश्च काननैश्च मनोरमैः। वासुदेवस्य क्रीडार्थं योग्यः सर्वप्रहर्षतः
कुकुरान्धकवृष्णीनां तथा प्रियकरस्तदा। बभूव परमोपेतस्त्रिविष्टप इवापरः
चतुस्त्रिंशदहोरात्रं दानधर्मपरायणाः। उग्रसेनमुखाः सर्वे विजहुः कुकुरान्धकाः
विचित्रमाल्याभरणाश्चित्रगन्धानुलेपनाः। विहाराभिगताः सर्वे यादवा हर्षसंयुताः
सुनृत्तगीतवादित्रै रममाणास्तदाऽभवन्। प्रतियाते दशार्हाणामृषभे शार्ङ्गधन्वनि। सुभध्रोद्वाहनं पार्थः प्राप्तकालममन्यत
कुकुरान्धकवृष्णीनामपयानं च पाण्डवः। विनिश्चित्य ततः पार्थः सुभद्रामिदमब्रवीत्
शृणु भद्रे यथाशास्त्रं हितार्थं मुनिभिः कृतम्। विवाहं बहुधा सत्सु वर्णानां धर्मसंयुतम्
कन्यायास्तु पिता भ्राता माता मातुल एव वा। पितुः पिता पितुर्भ्राता दाने तु प्रभुतां गतः
महोत्सवं पशुपतेर्द्रष्टुकामः पिता तव। अन्तर्द्वीपं गतो भद्रे पुत्रैः पौत्रैः सबान्धवैः
मम चैव विशालाक्षि विदेशस्था हि बान्धवाः। तस्मात्सुभद्रे गान्धर्वो विवाहः पञ्चमः स्मृतः
समागमे तु कन्यायाः क्रियाः प्रोक्ताश्चतुर्विधाः। तेषां प्रवृत्तिं साधूनां शृणु माधवि तद्यथा
वरमाहूय विधिना पित्रा दत्ता तथार्थिने। सा पत्नी तु परैरुक्ता सा वश्या तु पतिव्रता
भृत्यानां भरणार्थाय आत्मनः पोषणाय च। दाने गृहीता या नारी सा भार्येति स्मृता बुधैः
धर्मतो वरयित्वा तु आनीय स्वं निवेशनम्। न्यायेन दत्तातारुण्ये दाराः पितृकृताः स्मृताः
गान्धर्वेण विवाहेन रागात्पुत्रार्थकारणात्। आत्मनाऽनुगृहीता या वश्या सा तु प्रजावती
जनयेद्या तु भर्तारं जाया इत्येव नामतः। पत्नी भार्या च दाराश्च जाया चेति चतुर्विधाः
चतस्र एवाग्निसाक्ष्याः क्रियायुक्ताश्च धर्मतः। गान्धर्वस्तु क्रियाहीनो रागादेव प्रवर्तते
सकामायाः सकामेन निर्मन्त्रो रहसि स्मृतः। मयोक्तमक्रियं चापि कर्तव्यं माधवि त्वया
अयनं चैव मासश्च ऋतुः पक्षस्तथा तिथिः। करणं च मुहूर्तं च लग्नसंपत्तथैव च
विवाहस्य विशालाक्षि प्रशस्तं चोत्तरायणम्। वैशाखश्चैव मासानां पक्षाणां शुक्ल एव च
नक्षत्राणां तथा हस्तस्तृतीया च तिथिष्वपि। लग्नो हि मकरः श्रेष्ठः करणानां बवस्तथा
मैत्रो मुहूर्तो वैवाह्य आवयोः शुभकर्मणि। सर्वसंपदियं भद्रे अद्य रात्रौ भविष्यति
भगवानस्तमभ्येति आदित्यस्तपतां वरः। रात्रौ विवाहकालोऽयं भविष्यति न संशयः
नारायणोऽपि सर्वज्ञो नावबुध्येत विश्वकृत्। धर्मसङ्कटमापन्ने किं नु कृत्वा सुखं भवेत्
मनोभवेन कामेन मोहितं मां प्रलापिनम्। प्रतिवाक्यं च मे देवि किं न वक्ष्यसि माधवि