अमोघबलमश्वानामुत्तमं जविनां वरम्। श्रीमन्तमजरं दिव्यं सर्वलक्षणपूजितम्
कथं तदमृतं देवैर्मथितं क्व च शंस मे। `कारणं चात्र मथने संजातममृतात्परम्।।' यत्र जज्ञे महावीर्यः सोऽश्वराजो महाद्युतिः
ज्वलन्तमचलं मेरुं तेजोराशिमनुत्तमम्। आक्षिपन्तं प्रभां भानोः स्वशृङ्गैः काञ्चनोज्ज्वलैः
कनकाभरणं चित्रं देवगन्धर्वसेवितम्। अप्रमेयमनाधृष्यमधर्मबहुलैर्जनैः
व्यालैरावारितं घोरैर्दिव्यौषधिविदीपितम्। नाकमावृत्य तिष्ठन्तमुच्छ्रयेण महागिरिम्
अगम्यं मनसाप्यन्यैर्नदीवृक्षसमन्वितम्। नानापतगसङ्घैश्च नादितं सुमनोहरैः
तस्य शृङ्गमुपारुह्य बहुरत्नाचितं शुभम्। अनन्तकल्पमद्वन्द्वं सुराः सर्वे महौजसः
ते मन्त्रयितुमारब्धास्तत्रासीना दिवौकसः। अमृताय समागम्य तपोनियमसंयुताः
तत्र नारायणो देवो ब्रह्माणमिदमब्रवीत्। चिन्तयत्सु सुरेष्वेवं मन्त्रयत्सु च सर्वशः
देवैरसुरसङ्घैश्च मथ्यतां कलशोदधिः। भविष्यत्यमृतं तत्र मथ्यमाने महोदधौ
सर्वौषधीः समावाप्य सर्वरत्नानि चैव ह। मन्थध्वयुदधिं देवा वेत्स्यध्वममृतं ततः
ततोऽभ्रशिखराकारैर्गिरिशृङ्गैरलंकृतम्। मन्दरं पर्वतवरं लताजालसमाकुलम्
नानाविहंगसंघुष्टं नानादंष्ट्रिसमाकुलम्। किंनरैरप्सरोभिश्च देवैरपि च सेवितम्
एकादश सहस्राणि योजनानां समुच्छ्रितम्। अधोभूमेः सहस्रेषु तावत्स्वेव प्रतिष्ठितम्
तमुद्धर्तुमशक्ता वै सर्वे देवगणास्तदा। विष्णुमासीनमभ्येत्य ब्रह्माणं चेदमब्रुवन्
भवन्तावत्र कुरुतां बुद्धिं नैःश्रेयसीं पराम्। मन्दरोद्धरणे यत्नः क्रियतां च हिताय नः
तथेति चाब्रवीद्विष्णुर्ब्रह्मणा सह भार्गव। अचोदयदमेयात्मा फणीन्द्रं पद्मलोचनः
ततोऽनन्तः समुत्थाय ब्रह्मणा परिचोदितः। नारायणेन चाप्युक्तस्तस्मिन्कर्मणि वीर्यवान्
अथ पर्वतराजानं तमनन्तो महाबलः। उज्जहार बलाद्ब्रह्मन्सवनं सवनौकसम्
ततस्तेन सुराः सार्धं समुद्रमुपतस्थिरे। तमूचुरमृतस्यार्थे निर्मथिष्यामहे जलम्
अपांपतिरथोवाच ममाप्यंशो भवेत्ततः। सोढाऽस्मि विपुलं मर्दं मन्दरभ्रमणादिति
ऊचुश्च कूर्मराजानमकूपारे सुरासुराः। अधिष्ठानं गिरेरस्य भवान्भवितुमर्हति
कूर्मेण तु तथेत्युक्त्वा पृष्ठमस्य समर्पितम्। तं शैलं तस्य पृष्ठस्थं वज्रेणेन्द्रोऽभ्यपीडयत्
मन्थानं मन्दरं कृत्वा तथा योक्त्रं च वासुकिम्। देवा मथितुमारब्धाः समुद्रं निधिमम्भसाम्। अमृतार्थे पुरा ब्रह्मस्तथैवासुरदानवाः
एकमन्तमुपाश्लिष्टा नागराज्ञो महासुराः
विबुधाः सहिताः सर्वे यतः पुच्छं ततः स्थिताः। अनन्तो भगवान्देवो यतो नारायणः स्थितः
वासुकेरग्रमाश्लिष्टा नागराज्ञो महासुराः।' शिर उत्क्षिप्य नागस्य पुनः पुनरवाक्षिपन्
वासुकेरथ नागस्य सहसा क्षिप्यतोऽसुरैः। सधूमाः सार्चिषो वाता निष्पेतुरसकृन्मुखात्
वासुकेर्मथ्यमानस्य निःसृतेन विषेण च। अभवन्मिश्रितं तोयं तदा भार्गवनन्दन
मथनान्मन्दरेणाथ देवदानवबाहुभिः। विषं तीक्ष्णं समुद्भूतं हालाहलमिति श्रुतम्