कृष्णायापि तथा भद्रे प्रहर्षं कारयामि ते। पश्चाज्जानामि ते वार्तां मा शोकं कुरु भामिनि
एवमुक्त्वा तु सा माता भद्रायाः प्रियकारिणी। निवेदयामास तदा भद्रामानकदुन्दुभेः
रहस्येकासना तत्र भद्राऽस्वस्थेति चाब्रवीत्। आरामे तु यतिः श्रीमानर्जुनश्चेति नः श्रुतम्
अक्रूराय च कृष्माय आहुकाय च सात्येकः। निवेद्यतां महाप्राज्ञ श्रोतव्यं यदि बान्धवैः
वसुदेवस्तु तच्छ्रुत्वा अक्रूराहुकयोस्तथा। निवेदयित्वा कृष्णेन मन्त्रयामास तैस्तदा
इदं कार्यमिदं कृत्यमिदमेवेति निश्चितः। अक्रूरश्चोग्रसेनश्च सात्यकिश्च गदस्तथा
पृथुश्रवाश्च कृष्णश्च सहिताः शिनिना मुहुः। रुक्मिणी सत्यभामा च देवकी रोहिणी तथा
वसुदेवेन सहिताः पुरोहितमते स्थिताः। विवाहं मन्त्रयामासुर्द्वादशेऽहनि भारत
अज्ञातं रौहिणेयस्य उद्धवस्य च भारत। विवाहं तु सुभद्रायाः कर्तुकामो गदाग्रजः
महादेवस्य पूजार्थं महोत्सव इति ब्रुवन्। चतुस्त्रिंशदहोरात्रं सुभद्रार्तिप्रशान्तये
नगरे घोषयास हितार्थं सव्यसाचिनः। इतश्चतुर्थे त्वहनि अन्तर्द्वीपं तु गम्यताम्
सदारैः सानुयात्रैश्च सपुत्रैः सहबाधवैः। गन्तव्यं सर्ववर्मैश्च गन्तव्यं सर्वयादवैः
एवमुक्तास्तु ते सर्वे तथा चक्रुश्च सर्वशः। ततः सर्वदशार्हाणामन्तर्द्वीपे च भारत
चतुस्त्रिंशदहोरात्रं बभूव परमोत्सवः। कृष्णरामाहुकाक्रूरप्रद्युम्नशिनिसत्यकाः
समुद्रं प्रययुर्हृष्टाः कुकुरान्धकवृष्णयः। युक्तयन्त्रपताकाभिर्वृष्णयो ब्राह्मणैः सह
समुद्रं प्रययुर्नौभिः सर्वे पुरनिवासिनः। ततस्त्वरितमागत्य दाशार्हगणपूजितम्
सुभद्रा पुण्डरीकाक्षमब्रवीद्यतिशासनात्। कृत्यवान्द्वादशाहानि स्थाता स भगवानिह
तिष्ठतस्तस्य कः कुर्यादुपस्थानविधिं सदा। तमुवाच हृषीकेशः कस्त्वदन्यो विशेषतः
तमृषिं प्रत्युपस्थातुमितो नार्हति माधवि। त्वमेवास्मन्मतेनाद्य महर्षेर्वशवर्तिनी
कुरु सर्वाणि कार्याणि कीर्तिं धर्ममवेक्ष्य च। तस्य चातिथिमुख्यस्य सर्वेषां च तपस्विनाम्
संविधानपरा भद्रे भव त्वं वशवर्तिनी
एवमादिश्य भिक्षां च भद्रां च मधुसूदनः। ययौ शङ्खप्रणादेन भेरीणां निस्वनेन च
ततस्तु द्वीपमासाद्य दानधर्मपरायणाः। उग्रसेनमुखाश्चान्ये विजहुः कुकुरान्धकाः
पटहानां प्रणादैश्च भेरीणां निस्वनेन च। सप्तयोजनविस्तार आयतो दशयोजनम्
बभूव स महाद्वीपः सपर्वतमहावनः। सेतुपुष्करिणीजालैराक्रीडः सर्वसात्वताम्
वापीपल्वलसङ्घैश्च काननैश्च मनोरमैः। वासुदेवस्य क्रीडार्थं योग्यः सर्वप्रहर्षतः
कुकुरान्धकवृष्णीनां तथा प्रियकरस्तदा। बभूव परमोपेतस्त्रिविष्टप इवापरः
चतुस्त्रिंशदहोरात्रं दानधर्मपरायणाः। उग्रसेनमुखाः सर्वे विजहुः कुकुरान्धकाः
विचित्रमाल्याभरणाश्चित्रगन्धानुलेपनाः। विहाराभिगताः सर्वे यादवा हर्षसंयुताः
सुनृत्तगीतवादित्रै रममाणास्तदाऽभवन्। प्रतियाते दशार्हाणामृषभे शार्ङ्गधन्वनि। सुभध्रोद्वाहनं पार्थः प्राप्तकालममन्यत