कन्यापुरे तु यद्वृत्तं ज्ञात्वा दिव्येन चक्षुषा। शशास रुक्मिणीं कृष्णो भोजनादि तदार्जुने
तदाप्रभृति तां भद्रां चिन्तयन्वै धनञ्जयः। आस्ते स्म स तदाऽऽरामे कामेन भृशपीडितः
सुभद्रा चापि न स्वस्था पार्थं प्रति बभूव सा। कृशा विवर्णवदना चिन्ताशोकपरायणा
निश्वासपरमा भद्रा मानसेन मनस्विनी। न शय्यासनभोगेषु रतिं विन्दति केनचित्
न नक्तं न दिवा शेते बभूवोन्मत्तदर्शना। एवं शोकपरां भद्रां देवी वाक्यमथाब्रवीत्। मा शोकं कुरु वार्ष्णेयि धृतिमालम्ब्य शोभने
रुक्मिण्येवं सुभद्रां तां कृष्णस्यानुमते तदा। रहोगत्य तदा श्वश्रूं देवकीं वाक्यमब्रवीत्
अर्जुनो यतिरूपेण ह्यागतः सुसमाहितः। कन्यापुरमथाविश्य पूजितो भद्रया मुदा
तं विदित्वा सुभद्रापि लज्जया परिमोहिता। दिवानिशं शयाना सा नाकरोद्भोजनादिकम्
एवमुक्ता तया देवी भद्रां शोकपरायणाम्। तत्समीपं समागत्य श्लक्ष्णं वाक्यमथाब्रवीत्
मा शोकं कुरु वार्ष्णेयि धृतिमालम्ब्य शोभने। राज्ञे निवेदयित्वापि वसुदेवाय धीमते
कृष्णायापि तथा भद्रे प्रहर्षं कारयामि ते। पश्चाज्जानामि ते वार्तां मा शोकं कुरु भामिनि
एवमुक्त्वा तु सा माता भद्रायाः प्रियकारिणी। निवेदयामास तदा भद्रामानकदुन्दुभेः
रहस्येकासना तत्र भद्राऽस्वस्थेति चाब्रवीत्। आरामे तु यतिः श्रीमानर्जुनश्चेति नः श्रुतम्
अक्रूराय च कृष्माय आहुकाय च सात्येकः। निवेद्यतां महाप्राज्ञ श्रोतव्यं यदि बान्धवैः
वसुदेवस्तु तच्छ्रुत्वा अक्रूराहुकयोस्तथा। निवेदयित्वा कृष्णेन मन्त्रयामास तैस्तदा
इदं कार्यमिदं कृत्यमिदमेवेति निश्चितः। अक्रूरश्चोग्रसेनश्च सात्यकिश्च गदस्तथा
पृथुश्रवाश्च कृष्णश्च सहिताः शिनिना मुहुः। रुक्मिणी सत्यभामा च देवकी रोहिणी तथा
वसुदेवेन सहिताः पुरोहितमते स्थिताः। विवाहं मन्त्रयामासुर्द्वादशेऽहनि भारत
अज्ञातं रौहिणेयस्य उद्धवस्य च भारत। विवाहं तु सुभद्रायाः कर्तुकामो गदाग्रजः
महादेवस्य पूजार्थं महोत्सव इति ब्रुवन्। चतुस्त्रिंशदहोरात्रं सुभद्रार्तिप्रशान्तये
नगरे घोषयास हितार्थं सव्यसाचिनः। इतश्चतुर्थे त्वहनि अन्तर्द्वीपं तु गम्यताम्
सदारैः सानुयात्रैश्च सपुत्रैः सहबाधवैः। गन्तव्यं सर्ववर्मैश्च गन्तव्यं सर्वयादवैः
एवमुक्तास्तु ते सर्वे तथा चक्रुश्च सर्वशः। ततः सर्वदशार्हाणामन्तर्द्वीपे च भारत
चतुस्त्रिंशदहोरात्रं बभूव परमोत्सवः। कृष्णरामाहुकाक्रूरप्रद्युम्नशिनिसत्यकाः
समुद्रं प्रययुर्हृष्टाः कुकुरान्धकवृष्णयः। युक्तयन्त्रपताकाभिर्वृष्णयो ब्राह्मणैः सह
समुद्रं प्रययुर्नौभिः सर्वे पुरनिवासिनः। ततस्त्वरितमागत्य दाशार्हगणपूजितम्
सुभद्रा पुण्डरीकाक्षमब्रवीद्यतिशासनात्। कृत्यवान्द्वादशाहानि स्थाता स भगवानिह
तिष्ठतस्तस्य कः कुर्यादुपस्थानविधिं सदा। तमुवाच हृषीकेशः कस्त्वदन्यो विशेषतः
तमृषिं प्रत्युपस्थातुमितो नार्हति माधवि। त्वमेवास्मन्मतेनाद्य महर्षेर्वशवर्तिनी
कुरु सर्वाणि कार्याणि कीर्तिं धर्ममवेक्ष्य च। तस्य चातिथिमुख्यस्य सर्वेषां च तपस्विनाम्