पाण्डवस्य सुभद्रायाः सकाशे तु यशस्विनः। समुत्पत्तिः प्रभावश्च गदेन कथितः पुरा
श्रुत्वा चाशनिनिर्घोषं केशवेनापि धीमता। उपमामर्जुनं कृत्वा विस्तरः कथितः पुरा
क्रुद्धमानप्रलापश्च वृष्णीनामर्जुनं प्रति। पौरुषं चोपमां कृत्वा प्रावर्तत धनुष्मताम्
अन्योन्यकलहे चापि विवादे चापि वृष्णयः। अर्जुनोपि न मे तुल्यः कुतस्त्वमिति चाब्रुवन्
जातांश्च पुत्रान्गृह्णन्त आशिषो वृष्णयोऽब्रवन्। अर्जुनस्य समो वीर्ये भव तात धनुर्धरः
तस्मात्सुभद्रा चकमे पौरुषाद्भरतर्षभम्। सत्यसन्धस्य रूपेण चातुर्येण च मोहिता
चारणातिथिसंघानां गदस्य च निशम्य सा। अदृष्टे कृतभावाभूत्सुभद्रा भरतर्षभे
कीर्तयन्ददृशे यो यः कथंचित्कुरुजाङ्गलम्। तं तमेव तदा भद्रा बीभत्सुं स्म हि पृच्छति
अभीक्ष्णश्रवणादेवमभीक्ष्णपरिपृच्छनात्। प्रत्यक्ष इव भद्रायाः पाण्डवः प्रत्यपद्यत
भुजौ भुजगसङ्काशौ ज्याघातेन किणीकृतौ। पार्थोऽयमिति पश्यन्त्या निःशंसयमजायत
यथारूपं हि शुश्राव सुभद्रा भरतर्षभम्। तथारूपमवेक्ष्यैनं परां प्रीतिमवाप सा
सा कदाचिदुपासीनं पप्रच्छ कुरुनन्दनम्। कथं देशाश्च चरिता नानाजनपदाः कथम्
सरांसि सरितश्चैव वनानि च कथं यते। दिशः काश्च कथं प्राप्ताश्चरता भवता सदा
स तथोक्तस्तदा भद्रां बहुनर्मामृतं ब्रुवन्। उवाच परमप्रीतस्तथा बहुविधाः कथाः
निशण्य विविधं तस्य लोके चरितमात्मनः। तथा परिगतो भावः कन्यायाः समपद्यत
पर्वसन्धौ तु कस्मिंश्चित्सुभद्रा भरतर्षभम्। रहस्येकान्तमासाद्य हर्षमाणाऽभ्यभाषत
यतिना रचता देशान्खाण्डवप्रस्थवासिनी। कश्चिद्भगवता दृष्टा पृथाऽस्माकं पितृष्वसा
भ्रातृभिः प्रीयते सर्वैर्दृष्टः कच्चिद्युधिष्ठिरः। कच्चिद्धर्मपरो भीमो धर्मराजस्य धीमतः
निवृत्तसमयः कच्चिदपराधाद्धनञ्जयः। नियमे कामभोगानां वर्तमानः प्रिये रतः
क्व नु पार्थश्चरत्यद्य बहिः स वसतीर्वसन्। सुखोचितो ह्यदुःखार्हो दीर्घबाहुररिन्दमः
कच्चिच्छ्रुतो वा दृष्टो वा पार्थो भगवताऽर्जुनः। निशम्य वचनं तस्यास्तामुवाच हसन्निव
आर्या कुशलिनी कुन्ती सहपुत्रा सहस्नुषा। प्रीयते पश्यती पुत्रान्खाण्डवप्रस्थ आसते
अनुज्ञातश्च मात्रा च सोदरैश्च धनञ्जयः। द्वारकामावसत्येको यतिलिङ्गेन पाण्डवः
पश्यन्ती सततं कस्मान्नाभिजानासि माधवि। निशण्य वचनं तस्य वासुदेवसहोदरी
निश्वासबहुला तस्थौ क्षितिं विलिखती तदा। ततः परमसंहृष्टः सर्वशस्त्रभृतां वरः
अर्जुनोऽहमिति प्रीतस्तामुवाच धनञ्जयः। यथा तव गतो भावः श्रवणान्मयि भामिनि
त्वद्गतः सततं भावस्तथा तव गुणैर्मम। प्रशस्तेऽहनि धर्मेण भद्रे स्वयमहं वृतः
सत्यवानिव सावित्र्या भविष्यामि पतिस्तव
एवमुक्त्वा ततः पार्थः प्रविवेश लतागृहम्। ततः सुभद्रा ललिता लज्जाभावसमन्विता
मुमोह शयने दिव्ये शयाना न तथोचिता। नाकरोद्यतिपूजां सा लज्जाभावमुपेयुषी