कृतमेव तु कल्याणं सर्वं मम भवेद्ध्रुवम्। यदि स्यान्मम वार्ष्णेयी महिषीयं स्वसा तव
प्राप्तौ तु क उपायः स्यात्तं व्रवीहि जनार्दन। आस्थास्यामि तदा सर्वं यदि शक्यं नरेण तत्
स्वयं वरः क्षत्रियाणां विवाहः पुरुषर्षभ। स च संशयितः पार्थ स्वभावस्यानिमित्ततः
प्रसह्य हरणं चापि क्षत्रियाणां प्रशस्यते। विवाहहेतुः शूराणामिति धर्मविदो विदुः
स त्वमर्जुन कल्याणीं प्रसह्य भगिनीं मम। `यतिरूपधरस्तं तु यथा कालविपाकता।' हर स्वयंवरे ह्यस्याः को वै वेद चिकीर्षितम्
ततोऽर्जुनश्च कृष्णश्च विनिश्चित्येतिकृत्यताम्। शीघ्रगान्पुरुषानन्प्रेषयामासतुस्तदा
धर्मराजाय तत्सर्वमिन्द्रप्रस्थगताय वै। श्रुत्वैव च महाबाहुरनुजज्ञे समातृकः
भीमसेनस्तु तच्छ्रुत्वा कृतकृत्यं स्म मन्यते। इत्येवं मनुजैरुक्तं कृष्णः श्रुत्वा महामतिः
अनुज्ञाप्य तदा पार्थं हृदि स्थाप्य चिकीर्षितम्। इत्येवं मनुजैः सार्धं द्वारकां समुपेयिवान्
चैराः संचारिते तस्मिन्ननुज्ञाते युधिष्ठिरे। वासुदेवाभ्यनुज्ञातः कथयित्वेतिकृत्यताम्
कृष्णस्य मतमास्थाय प्रययौ भरतर्षभः। द्वारकाया उपवने तस्थौ वै कार्यसाधनः
निवृत्ते ह्युत्सवे तस्मिन्गिरौ रैवतके तदा। वृष्णयोऽप्यगमन्सर्वे पुरीं द्वारवतीमनु
चिन्तयानस्ततो भद्रामुपविष्टः शिलातले। रमणीये वनोद्देशे बहुपादपसंवृते
सालतालाश्वकर्णैश्च बकुलैरर्जुनैस्तथा। चम्पकाशोकपुन्नागैः केतकैः पाटलैस्तथा
कर्णिकारैरशोकैश्च अङ्कोलैरतिमुक्तकैः। एवमादिभिरन्यैश्च संवृते स शिलातले
पुनःपुनश्चिन्तयानः सुभद्रां भद्रभाषिणीम्। यदृच्छया चोपपन्नान्वृष्णिवीरान्ददर्श सः
बलदेवं च हार्दिक्यं साम्बं सारणमेव च। प्रद्युम्नं च गदं चैव चारुदेष्णं विदूरथम्
भानुं च हरितं चैव विपृथुं पृथुमेव च। तथान्यांश्च बहून्पश्यन्हृदि शोकमधारयत्
ततस्ते सहिताः सर्वे यतिं दृष्ट्वा समुत्सुकाः। वृष्णयो विनयोपेताः परिवार्योपतस्थिरे
ततोऽर्जुनः प्रीतमनाः स्वागतं व्याजहार सः। आस्यतामास्यतां सर्वै रमणीये शिलातले
इत्येवमुक्ता यतिना प्रीतास्ते यादवर्षभाः। उपोपविविशुः सर्वे ते स्वागतमिति ब्रुवन्
परितः सन्निविष्टेषु वृष्णिवीरेषु पाण्डवः। आकारं गूहमानस्तु कुशलप्रश्नमब्रवीत्
सर्वत्र कुशलं चोक्त्वा बलदेवोऽब्रवीदिदम्। प्रसादं कुरु मे विप्र कुतस्त्वं चागतो ह्यसि
त्वया दृष्टानि पुण्यानि वद त्वं वदतांवर। पर्वतांश्चैव तीर्थानि वनान्यायतनानि च
तीर्थानां दर्शनं चैव पर्वतानां च भारत। आपगानां वनानां च कथयामास ताः कथाः
श्रुत्वा धर्मकथाः पुण्या वृष्णिवीरा मुदान्विताः। अपूजयंस्तदा भिक्षुं कथान्ते जनमेजय
ततस्तु यादवाः सर्वे मन्त्रयन्ति स्म भारत। अयं देशातिथिः श्रीमान्यतिलिङ्गधरो द्विजः
आवासं कमुपाश्रित्य वसेत निरुपद्रवः। इत्येवं प्रब्रुवन्तस्तु रौहिणेयं च यादवाः
ददृशुः कृष्णमायान्तं सर्वे यादवनन्दनम्। एहि केशव तातेति रौहिणेयो वचोऽब्रवीत्
यतिलिङ्गधरो विद्वान्देशातिथिरयं द्विजः। वर्षमासनिवासार्थमागतो नः पुरं प्रति। स्थाने यस्मिन्निवसतु तन्मे ब्रूहि जनार्दन