कृष्णः स्वभवनं रम्यं प्रविवेश महाबलः। प्रभासादागतं देव्यः सर्वाः कृष्णमपूजयन्
ततः कतिपयाहस्य तस्मिन्रैवतके गिरौ। वृष्ण्यन्धकानामभवदुत्सवो नृपसत्तम
तत्र दानं ददुर्वीरा ब्राह्मणेभ्यः सहस्रशः। भोजवृष्ण्यन्धकाश्चैव महे तस्य गिरेस्तदा
प्रसादै रत्नचित्रैश्च गिरेस्तस्य समन्ततः। स देशः शोभितो राजन्कल्पवृक्षैश्च सर्वशः
वादित्राणि च तत्रान्ये वादकाः समवादयन्। ननृतुर्नर्तकाश्चैव जगुर्गेयानि गायनाः
अलङ्कृताः कुमाराश्च वृष्णीनां सुमहौजसाम्। यानैर्हाटकचित्रैश्च चञ्चूर्यन्ते स्म सर्वशः
पौराश्च पादचारेण यानैरुच्चावचैस्तथा। सदाराः सानुयात्राश्च शतशोऽथ सहस्रशः
ततो हलधरः क्षीबो रेवतीसहितः प्रभुः। अनुगम्यमानो गन्धर्वैरचरत्रत्र भारत
तथैव राजा वृष्णीनामुग्रसेनः प्रतापवान्। अनुगीयमानो गन्धर्वैः स्त्रीसहस्रसहायवान्
रौक्मिणेयश्च साम्बश्च क्षीबौ समरदुर्मदौ। दिव्यमाल्याम्बरधरौ विजह्वातेऽमराविव
अक्रूरः सारणश्चैव गदो बभ्रुर्विदूरथः। निशठश्चारुदेष्णश्च पृथुर्विपृथुरेव च
सत्यकः सात्यकिश्चैव भङ्गकारमहारवौ। हार्दिक्य उद्धवश्चैव ये चान्ये नानुकीर्तिताः
एते परिवृताः स्त्रीभिर्गन्धर्वैश्च पृथक्पृथक्। तमुत्सवं रैवतके शोभयाञ्चक्रिरे तदा
वासदेवो ययौ तत्र सह स्त्रीभिर्मुदान्वितः। दत्त्वा दानं द्विजातिभ्यः परिव्राजमपश्यत
चित्रकौतूहले तस्मिन्वर्तमाने महाद्भुते। वासुदेवश्च पार्थश्च सहितौ परिजग्मतुः
तत्र चङ्क्रममाणौ तौ वसुदेवसुतां शुभाम्। अलङ्कृतां सखीमध्ये भद्रां ददृशतुस्तदा
दृष्ट्वैव तामर्जुनस्य कन्दर्पः समजायत। तं तदैकाग्रमनसं कृष्णः पार्थमलक्षयत्
अब्रवीत्पुरुषव्याघ्रः प्रसहन्निव भारत। वनेचरस्य किमिदं कामेनालोड्यते मनः
ममैषा भगिनी पार्थ सारणस्य सहोदरी। सुभद्रा नाम भद्रं ते पितुर्मे दयिता सुता। यदि ते वर्तते बुद्धिर्वक्ष्यामि पितरं स्वयम्
दुहिता वसुदेवस्य वासुदेवस्य च स्वसा। रूपेण चैषा संपन्ना कमिवैषा न मोहयेत्
कृतमेव तु कल्याणं सर्वं मम भवेद्ध्रुवम्। यदि स्यान्मम वार्ष्णेयी महिषीयं स्वसा तव
प्राप्तौ तु क उपायः स्यात्तं व्रवीहि जनार्दन। आस्थास्यामि तदा सर्वं यदि शक्यं नरेण तत्
स्वयं वरः क्षत्रियाणां विवाहः पुरुषर्षभ। स च संशयितः पार्थ स्वभावस्यानिमित्ततः
प्रसह्य हरणं चापि क्षत्रियाणां प्रशस्यते। विवाहहेतुः शूराणामिति धर्मविदो विदुः
स त्वमर्जुन कल्याणीं प्रसह्य भगिनीं मम। `यतिरूपधरस्तं तु यथा कालविपाकता।' हर स्वयंवरे ह्यस्याः को वै वेद चिकीर्षितम्
ततोऽर्जुनश्च कृष्णश्च विनिश्चित्येतिकृत्यताम्। शीघ्रगान्पुरुषानन्प्रेषयामासतुस्तदा
धर्मराजाय तत्सर्वमिन्द्रप्रस्थगताय वै। श्रुत्वैव च महाबाहुरनुजज्ञे समातृकः
भीमसेनस्तु तच्छ्रुत्वा कृतकृत्यं स्म मन्यते। इत्येवं मनुजैरुक्तं कृष्णः श्रुत्वा महामतिः
अनुज्ञाप्य तदा पार्थं हृदि स्थाप्य चिकीर्षितम्। इत्येवं मनुजैः सार्धं द्वारकां समुपेयिवान्
चैराः संचारिते तस्मिन्ननुज्ञाते युधिष्ठिरे। वासुदेवाभ्यनुज्ञातः कथयित्वेतिकृत्यताम्