चाराणां चैव वचनादेकाकी स जनार्दनः। तत्राभ्यगच्छत्कौन्तेयं महात्मातं स माधवः
ददृशाते तदान्योन्यं प्रभासे कृष्णपाण्डवौ
तावन्योन्यं समाश्लिष्य पृष्ट्वा च कुशलं वने। आस्तां प्रियसखायौ तौ नरनारायणावृषी
ततोऽर्जुनं वासुदेवस्तां चर्यां पर्यपृच्छत। किमर्थं पाण्डवैतानि तीर्थान्यनुचरस्युत
ततोऽर्जनो यथावृत्तं सर्वमाख्यातवांस्तदा। श्रुत्वोवाच च वार्ष्णेय एवमेतदिति प्रभुः
तौ विहृत्य यथाकामं प्रभासे कृष्णपाण्डवौ। महीधरं रैवतकं वासायैवाभिजग्मतुः
पूर्वमेव तु कृष्णस्य वचनात्तं महीधरम्। पुरुषा मण्डयाञ्चक्रुरुपजह्रश्च भोजनम्
प्रतिगृह्यार्जुनः सर्वमुपभुज्य च पाण्डवः। सहैव वासुदेवेन दृष्टवान्नटनर्तकान्
अभ्यनुज्ञाय तान्सर्वानर्चयित्वा च पाण्डवः। सत्कृतं शनं दिव्यमभ्यगच्छन्महामतिः
ततस्तत्र महाबाहुः शयानः शयने शुभे। तीर्थानां पल्वलानां च पर्वतानां च दर्शनम्। आपगानां वनानां च कथयामास सात्वते
एवं स कथयन्नेव निद्रया जनमेजय। कौन्तेयोऽपि हृतस्तस्मिञ्शयने स्वर्गसन्निभे
मधुरेणैव गीतेन वीणाशब्देन चैव ह। प्रबोध्यमानो बुबुधे स्तुतिभिर्मङ्गलैस्तता
स कृत्वाऽवश्यकार्याणि वार्ष्णेयेनाभिनन्दितः। `वार्ष्णेयं समनुज्ञाप्य तत्र वासमरोचयत्
तथेत्युक्त्वा वासुदेवो भोजनं वै शशास ह। यतिरूपधरं पार्थं विसृज्य सहसा हरिः।' रथेन काञ्चनाङ्गेन द्वारकामभिजग्मिवान्
अलङ्कृता द्वारका तु बभूव जनमेजय
दिदृक्षन्तश्च गोविन्दं द्वारकावासिनो जनाः। नरेन्द्रमार्गमाजग्मुस्तूर्णं शतसहस्रशः
क्षणार्धमपि वार्ष्णेया गोविन्दविरहाक्षमाः। कौतूहलसमाविष्टा भृशमुत्प्रेक्ष्य संस्थिताः
अवलोकेषु नारीणां सहस्राणि शतानि च। भोजवृष्ण्यन्धकानां च समवायो महानभूत्
स तथा सत्कृतः सर्वैर्भोजवृष्ण्यन्धकात्मजैः। अभिवाद्याभिवाद्यांश्च सर्वैश्च प्रतिनन्दितः
कुमारैः सर्वशो वीरः सत्कारेणाभिचोदितः। समानवयसः सर्वानाश्लिष्य स पुनःपुनः
कृष्णः स्वभवनं रम्यं प्रविवेश महाबलः। प्रभासादागतं देव्यः सर्वाः कृष्णमपूजयन्
ततः कतिपयाहस्य तस्मिन्रैवतके गिरौ। वृष्ण्यन्धकानामभवदुत्सवो नृपसत्तम
तत्र दानं ददुर्वीरा ब्राह्मणेभ्यः सहस्रशः। भोजवृष्ण्यन्धकाश्चैव महे तस्य गिरेस्तदा
प्रसादै रत्नचित्रैश्च गिरेस्तस्य समन्ततः। स देशः शोभितो राजन्कल्पवृक्षैश्च सर्वशः
वादित्राणि च तत्रान्ये वादकाः समवादयन्। ननृतुर्नर्तकाश्चैव जगुर्गेयानि गायनाः
अलङ्कृताः कुमाराश्च वृष्णीनां सुमहौजसाम्। यानैर्हाटकचित्रैश्च चञ्चूर्यन्ते स्म सर्वशः
पौराश्च पादचारेण यानैरुच्चावचैस्तथा। सदाराः सानुयात्राश्च शतशोऽथ सहस्रशः
ततो हलधरः क्षीबो रेवतीसहितः प्रभुः। अनुगम्यमानो गन्धर्वैरचरत्रत्र भारत
तथैव राजा वृष्णीनामुग्रसेनः प्रतापवान्। अनुगीयमानो गन्धर्वैः स्त्रीसहस्रसहायवान्
रौक्मिणेयश्च साम्बश्च क्षीबौ समरदुर्मदौ। दिव्यमाल्याम्बरधरौ विजह्वातेऽमराविव