भगवंश्चिन्तयाविष्टः शयने शयितः सुखम्। भवान्बहुप्रकारेण जहास च पुनः पुनः
श्रोतव्यं यदि वा कृष्ण प्रसादो यदि ते मयि। वक्तुमर्हसि देवेश तच्छ्रोतुं कामयाम्यहम्
पितृष्वसुर्यः पुत्रो मे भीमसेनानुजोऽर्जुनः। तीर्थयात्रां गतः पार्थः कारणात्समयात्तदा
तीर्थयात्रासमाप्तौ तु निवृत्तो निशि भारतः। सुभध्रां चिन्तयामास रूपेणाप्रतिमां भुवि
चिन्तयेन्नेव तां भद्रां यतिरूपधरोऽर्जुनः। यतिरूपप्रतिच्छन्नो द्वारकां प्राप्य माधवीम्
येनकेनाप्युपायेन दृष्ट्वा तु वरवर्णिनीम्। वासुदेवमतं ज्ञात्वा प्रयतिष्ये मनोरथम्
एवं व्यवसितः पार्थो यतिलिङ्गेन पाण्डवः। छायायां वटवृक्षस्य वृष्टिं वर्षति वासवे
योगभारं वहन्नेव मानसं दुःखमाप्तवान्। एतदर्थं विजानीहि हसन्तं मां मुदा प्रिये
भ्रातरं तव पश्येति सत्यभामां व्यसर्जयत्। तत उत्थाय शयनात्प्रस्थितो मधुसूदनः
प्रभासदेशं संप्राप्तं बीभत्सुमपराजितम्। तीर्थान्यनुचरन्तं तं शुश्राव मधुसूदनः
चाराणां चैव वचनादेकाकी स जनार्दनः। तत्राभ्यगच्छत्कौन्तेयं महात्मातं स माधवः
ददृशाते तदान्योन्यं प्रभासे कृष्णपाण्डवौ
तावन्योन्यं समाश्लिष्य पृष्ट्वा च कुशलं वने। आस्तां प्रियसखायौ तौ नरनारायणावृषी
ततोऽर्जुनं वासुदेवस्तां चर्यां पर्यपृच्छत। किमर्थं पाण्डवैतानि तीर्थान्यनुचरस्युत
ततोऽर्जनो यथावृत्तं सर्वमाख्यातवांस्तदा। श्रुत्वोवाच च वार्ष्णेय एवमेतदिति प्रभुः
तौ विहृत्य यथाकामं प्रभासे कृष्णपाण्डवौ। महीधरं रैवतकं वासायैवाभिजग्मतुः
पूर्वमेव तु कृष्णस्य वचनात्तं महीधरम्। पुरुषा मण्डयाञ्चक्रुरुपजह्रश्च भोजनम्
प्रतिगृह्यार्जुनः सर्वमुपभुज्य च पाण्डवः। सहैव वासुदेवेन दृष्टवान्नटनर्तकान्
अभ्यनुज्ञाय तान्सर्वानर्चयित्वा च पाण्डवः। सत्कृतं शनं दिव्यमभ्यगच्छन्महामतिः
ततस्तत्र महाबाहुः शयानः शयने शुभे। तीर्थानां पल्वलानां च पर्वतानां च दर्शनम्। आपगानां वनानां च कथयामास सात्वते
एवं स कथयन्नेव निद्रया जनमेजय। कौन्तेयोऽपि हृतस्तस्मिञ्शयने स्वर्गसन्निभे
मधुरेणैव गीतेन वीणाशब्देन चैव ह। प्रबोध्यमानो बुबुधे स्तुतिभिर्मङ्गलैस्तता
स कृत्वाऽवश्यकार्याणि वार्ष्णेयेनाभिनन्दितः। `वार्ष्णेयं समनुज्ञाप्य तत्र वासमरोचयत्
तथेत्युक्त्वा वासुदेवो भोजनं वै शशास ह। यतिरूपधरं पार्थं विसृज्य सहसा हरिः।' रथेन काञ्चनाङ्गेन द्वारकामभिजग्मिवान्
अलङ्कृता द्वारका तु बभूव जनमेजय
दिदृक्षन्तश्च गोविन्दं द्वारकावासिनो जनाः। नरेन्द्रमार्गमाजग्मुस्तूर्णं शतसहस्रशः
क्षणार्धमपि वार्ष्णेया गोविन्दविरहाक्षमाः। कौतूहलसमाविष्टा भृशमुत्प्रेक्ष्य संस्थिताः
अवलोकेषु नारीणां सहस्राणि शतानि च। भोजवृष्ण्यन्धकानां च समवायो महानभूत्
स तथा सत्कृतः सर्वैर्भोजवृष्ण्यन्धकात्मजैः। अभिवाद्याभिवाद्यांश्च सर्वैश्च प्रतिनन्दितः
कुमारैः सर्वशो वीरः सत्कारेणाभिचोदितः। समानवयसः सर्वानाश्लिष्य स पुनःपुनः