समुद्रे पश्चिमे यानि तीर्थान्यायतनानि च। तानि सर्वाणि गत्वा स प्रभासमुपजग्मिवान्
चिन्तयामास रात्रौ तु गदेन कथितं पुरा। सुभद्रायाश्च माधुर्यरूपसंपद्गुणानि च
प्राप्तुमं तां चिन्तयामास कोऽत्रोपायो भवेदिति। वेषवैकृत्यमापन्नः परिव्राजकरूपधृत्
कुकुरान्धकवृष्णीनामज्ञातो वेषधारणात्। भ्रममाणश्चरन्भैक्षं परिव्राजकवेषवान्
येनकेनाप्युपायेन प्रविश्य च गृहं महत्। दृष्ट्वा सुभद्रां कृष्णस्य भगिनीमेकसुन्दरीम्
वासुदेवमतं ज्ञात्वा करिष्यामि हितं शुभम्। एवं विनिश्चयं कृत्वा दीक्षितो वै तदाऽभवत्
त्रिदण्डी मुण्डितः कुण्डी अक्षमालाङ्गुलीयकः। योगभारं वहन्पार्थो वटवृक्षस्य कोटरम्
प्रविशंश्चैव बीभत्सुर्वृष्टिं वर्षति वासवे। चिन्तयामास देवेशं केशवं क्लेशनाशनम्
केशवश्चिन्तितं ज्ञात्वा दिव्यज्ञानेन दृष्टवान्। शयानः शयने दिव्ये सत्यभामासहायवान्
केशवः सहसा राजञ्जहाय च ननन्द च। पुनः पुनः सत्यभामा चाब्रवीत्पुरुषोत्तमम्
भगवंश्चिन्तयाविष्टः शयने शयितः सुखम्। भवान्बहुप्रकारेण जहास च पुनः पुनः
श्रोतव्यं यदि वा कृष्ण प्रसादो यदि ते मयि। वक्तुमर्हसि देवेश तच्छ्रोतुं कामयाम्यहम्
पितृष्वसुर्यः पुत्रो मे भीमसेनानुजोऽर्जुनः। तीर्थयात्रां गतः पार्थः कारणात्समयात्तदा
तीर्थयात्रासमाप्तौ तु निवृत्तो निशि भारतः। सुभध्रां चिन्तयामास रूपेणाप्रतिमां भुवि
चिन्तयेन्नेव तां भद्रां यतिरूपधरोऽर्जुनः। यतिरूपप्रतिच्छन्नो द्वारकां प्राप्य माधवीम्
येनकेनाप्युपायेन दृष्ट्वा तु वरवर्णिनीम्। वासुदेवमतं ज्ञात्वा प्रयतिष्ये मनोरथम्
एवं व्यवसितः पार्थो यतिलिङ्गेन पाण्डवः। छायायां वटवृक्षस्य वृष्टिं वर्षति वासवे
योगभारं वहन्नेव मानसं दुःखमाप्तवान्। एतदर्थं विजानीहि हसन्तं मां मुदा प्रिये
भ्रातरं तव पश्येति सत्यभामां व्यसर्जयत्। तत उत्थाय शयनात्प्रस्थितो मधुसूदनः
प्रभासदेशं संप्राप्तं बीभत्सुमपराजितम्। तीर्थान्यनुचरन्तं तं शुश्राव मधुसूदनः
चाराणां चैव वचनादेकाकी स जनार्दनः। तत्राभ्यगच्छत्कौन्तेयं महात्मातं स माधवः
ददृशाते तदान्योन्यं प्रभासे कृष्णपाण्डवौ
तावन्योन्यं समाश्लिष्य पृष्ट्वा च कुशलं वने। आस्तां प्रियसखायौ तौ नरनारायणावृषी
ततोऽर्जुनं वासुदेवस्तां चर्यां पर्यपृच्छत। किमर्थं पाण्डवैतानि तीर्थान्यनुचरस्युत
ततोऽर्जनो यथावृत्तं सर्वमाख्यातवांस्तदा। श्रुत्वोवाच च वार्ष्णेय एवमेतदिति प्रभुः
तौ विहृत्य यथाकामं प्रभासे कृष्णपाण्डवौ। महीधरं रैवतकं वासायैवाभिजग्मतुः
पूर्वमेव तु कृष्णस्य वचनात्तं महीधरम्। पुरुषा मण्डयाञ्चक्रुरुपजह्रश्च भोजनम्
प्रतिगृह्यार्जुनः सर्वमुपभुज्य च पाण्डवः। सहैव वासुदेवेन दृष्टवान्नटनर्तकान्
अभ्यनुज्ञाय तान्सर्वानर्चयित्वा च पाण्डवः। सत्कृतं शनं दिव्यमभ्यगच्छन्महामतिः
ततस्तत्र महाबाहुः शयानः शयने शुभे। तीर्थानां पल्वलानां च पर्वतानां च दर्शनम्। आपगानां वनानां च कथयामास सात्वते