सोऽशपत्कुपितोऽस्मांस्तु ब्राह्मणः क्षत्रियर्षभ। ग्राहभूता जले यूयं चरिष्यथ शतं समाः
ततो वयं प्रव्यथिताः सर्वा भारतसत्तम। अयाम शरणं विप्रं तं तपोधनमच्युतम्
रूपेण वयसा चैव कन्दर्पेण च दर्पिताः। अयुक्तं कृतवत्यः स्म क्षन्तुमर्हसि नो द्विज
एष एव वधोऽस्माकं स्वयं प्राप्तस्तपोधन। यद्वयं संशितात्मानं प्रलोब्धुं त्वामिहागताः
अवध्यास्तु स्त्रियः सृष्टा मन्यन्ते धर्मचारिणः। तस्माद्धर्मेण वर्ध त्वं नास्मन्हिंसितुमर्हसि
सर्वभूतेषु धर्मज्ञ मैत्रो ब्राह्मण उच्यते। सत्यो भवतु कल्याण एष वादो मनीषिणाम्
शरणं च प्रपन्नानां शिष्टाः कुर्वन्ति पालनम्। शरणं त्वां प्रपन्नाः स्म तस्मात्त्वं क्षन्तुमर्हसि
एवमुक्तः स धर्मात्मा ब्राह्मणः शुभकर्मकृत्। प्रसादं कृतवान्वीर रविसोमसमप्रभः
शतं शतसहस्रं तु सर्वमक्षय्यवाचकम्। परिमाणं शतं त्वेतन्नेदमक्षय्यवाचकम्
यदा च वो ग्राहभूता गृह्णन्तीः पुरुषाञ्जले। उत्कर्षति जलात्तस्मात्स्थलं पुरुषसत्तमः
तदा यूयं पुनः सर्वाः स्वं रूपं प्रतिपत्स्यथ। अनृतं नोक्तपूर्वं मे हसतापि कदाचन
तानि सर्वाणि तीर्थानि ततः प्रभृति चैव ह। नारीतीर्थानि नाम्नेह ख्यातिं यास्यन्ति सर्वशः। पुण्यानि च भविष्यन्ति पावनानि मनीषिणां
ततोऽभिवाद्य तं विप्रं कृत्वा चापि प्रदक्षिणम्। अचिन्तयामोऽपसृत्य तस्माद्देशात्सुदुःखिताः
क्व नु नाम वयं सर्वाः कालेनाल्पेन तं नरम्। समागच्छेम यो नस्तद्रूपमापादयेत्पुनः
ता वयं चिन्तयित्वैव मुहूर्तादिव भारत। दृष्टवत्यो महाभागं देवर्षिमुत नारदम्
संप्रहृष्टाः स्म तं दृष्ट्वा देवर्षिममितद्युतिम्। अभिवाद्य च तं पार्थ स्थिताः स्म व्रीडिताननाः
स नोऽपृच्छद्दुःखमूलमुक्तवत्यो वयं च तम्। श्रउत्वा तत्र यथावृत्तमिदं वचनमब्रवीत्
दक्षिणे सागरानूपे पञ्च तीर्थानि सन्ति वै। पुण्यानि रमणीयानि तानि गच्छत मा चिरं
तत्राशु पुरुषव्याघ्रः पाण्डवेयो धनञ्जयः। मोक्षयिष्यति शुद्धात्मा दुःखादस्मान्न संशयः
इत्युक्त्वा नारदः सर्वास्तत्रैवान्तरधीयत।' तस्य सर्वा वयं वीर श्रुत्वा वाक्यमितो गताः। तदिदं सत्यमेवाद्य मोक्षिताहं त्वयाऽनघ
एतास्तु मम ताः सख्यश्चतस्रोऽन्या जले श्रिताः। कुरु कर्म शुभं वीर एताः सर्वा विमोक्षय
ततस्ताः पाण्डवश्रेष्ठः सर्वा एव विशांपते। `अवगाह्य च तत्तीर्थं गृहीतो ग्राहिभिस्तदा
ग्राहीभिश्चोत्तताराशु तरयामास तत्क्षणात्। सा चाप्सरा बभूवाशु सर्वाभरणभूषिता
एवं क्रमेण ताः सर्वा मोक्षयामास वीर्यवान्
उत्थाय च जलात्तस्मात्प्रतिलभ्य वपुः स्वकम्। तास्तदाऽप्सरसो राजन्नदृश्यन्त यथा पुरा
तीर्थानि शोधयित्वा तु तथानुज्ञाय ताः प्रभुः। चित्राङ्गदां पुनर्द्रष्टुं मणलूरं पुनर्ययौ
तस्यामजनयत्पुत्रं राजानं बभ्रुवाहनम्। तं दृष्ट्वा पाण्डवो राजंश्चित्रवाहनमब्रवीत्
चित्राङ्गदायाः शुल्कं त्वं गृहाण बभ्रुवाहनम्। अनेन च भविष्यामि ऋणान्मुक्तो नराधिप
चित्राङ्गदां पुनर्वाक्यमब्रवीत्पाण्डुनन्दनः। इहैव भव भद्रं ते वर्धेथा बभ्रुवाहनम्
इन्द्रपस्थनिवासं मे त्वं तत्रागत्य रंस्यसि। कुन्ती युधिष्ठिरं भीमं भ्रातरौ मे कनीयसौ