अगस्त्यतीर्थं सौभद्रं पौलोमं च सुपावनम्। कारन्धमं प्रसन्नं च महमेधफलं च तत्
भारद्वाजस्य तीर्थं तु पापप्रशमनं महत्। एतानि पञ्च तीर्थानि ददर्श कुरुसत्तमः
विविक्तान्युपलक्ष्याथ तानि तीर्थानि पाण्डवः। दृष्ट्वा च वर्ज्यमानानि मुनिभिर्धर्मबुद्धिभिः
तपस्विनस्ततोऽपृच्छत्प्राञ्जलिः कुरुनन्दनः। तीर्थानीमानि वर्ज्यन्ते किमर्थं ब्रह्मवादिभिः
ग्राहाः पञ्च वसन्त्येषु हरन्ति च तपोधनान्। तत एतानि वर्ज्यन्ते तीर्थानि कुरुनन्दन
तेषां श्रुत्वा महाबाहुर्वार्यमाणस्तपोधनैः। जगाम तानि तीर्थानि द्रष्टुं पुरुषसत्तमः
ततः सौभद्रमासाद्य महर्षेस्तीर्थमुत्तमम्। विगाह्य सहसा शूरः स्नानं चक्रे परन्तपः
अथ तं पुरुषव्याघ्रमन्तर्जलचरो महान्। जग्राह चरणे ग्राहः कुन्तीपुत्रं धनञ्जयम्
स तमादाय कौन्तेयो विस्फुरन्तं जलेचरम्। उदतिष्ठन्महाबाहुर्बलेन बलिनां वरः
उत्कृष्ट एव ग्राहस्तु सोऽर्जुनेन यशस्विना। बभूव नारी कल्याणी सर्वाभरणभूषइता
दीप्यमाना श्रिया राजन्दिव्यरूपा मनोरमा। तदद्भुतं महद्दृष्ट्वा कुन्तीपुत्रो धनञ्जयः
तां स्त्रियं परमप्रीत इदं वचनमब्रवीत्। का वै त्वमसि कल्याणिकुतो वाऽसि जलेचरी
अप्सराऽस्मि महाबाहो देवारण्यविहारिणी
इष्टा धनपतेर्नित्यं वर्गा नाम महाबल। मम सख्यश्चतस्रोऽन्याः सर्वाः कामगमाः शुभाः
ताभिः सार्धं प्रयाताऽस्मि लोकपालनिवेशनम्। ततः पश्यामहे सर्वा ब्राह्मणं संशितव्रतम्
रूपवन्तमधीयानमेकमेकान्तचारिणम्। तस्यैव तपसा राजंस्तद्वयं तेजसा वृतम्
आदित्य इव तं देशं इत्वं सर्व व्यकाशयत्। तस्य दृष्ट्वा तपस्तादृग्रूपचाद्भुतमुत्तमम्
अवतीर्णाः स्म तं देशं तपोविघ्नचिकीर्षया। अहं च सौरभेयी च समीची बुद्बुदा लता
यौगपद्येन तं विप्रमभ्यगच्छाम भारत। गायन्त्योऽथहसन्त्यश्च लोभयित्वा च तं द्विजं
स च नास्मासु कृतवान्मनो वीर कथंचन। नाकम्पत महातेजाः स्थितस्तपसि निर्मले
सोऽशपत्कुपितोऽस्मांस्तु ब्राह्मणः क्षत्रियर्षभ। ग्राहभूता जले यूयं चरिष्यथ शतं समाः
ततो वयं प्रव्यथिताः सर्वा भारतसत्तम। अयाम शरणं विप्रं तं तपोधनमच्युतम्
रूपेण वयसा चैव कन्दर्पेण च दर्पिताः। अयुक्तं कृतवत्यः स्म क्षन्तुमर्हसि नो द्विज
एष एव वधोऽस्माकं स्वयं प्राप्तस्तपोधन। यद्वयं संशितात्मानं प्रलोब्धुं त्वामिहागताः
अवध्यास्तु स्त्रियः सृष्टा मन्यन्ते धर्मचारिणः। तस्माद्धर्मेण वर्ध त्वं नास्मन्हिंसितुमर्हसि
सर्वभूतेषु धर्मज्ञ मैत्रो ब्राह्मण उच्यते। सत्यो भवतु कल्याण एष वादो मनीषिणाम्
शरणं च प्रपन्नानां शिष्टाः कुर्वन्ति पालनम्। शरणं त्वां प्रपन्नाः स्म तस्मात्त्वं क्षन्तुमर्हसि
एवमुक्तः स धर्मात्मा ब्राह्मणः शुभकर्मकृत्। प्रसादं कृतवान्वीर रविसोमसमप्रभः
शतं शतसहस्रं तु सर्वमक्षय्यवाचकम्। परिमाणं शतं त्वेतन्नेदमक्षय्यवाचकम्
यदा च वो ग्राहभूता गृह्णन्तीः पुरुषाञ्जले। उत्कर्षति जलात्तस्मात्स्थलं पुरुषसत्तमः