कथयित्वा च तत्सर्वं ब्राह्मणेभ्यः स भारत। प्रययौ हिमवत्पार्श्वं ततो वज्रधरात्मजः
अगस्त्यवटमासाद्य वसिष्ठस्य च पर्वतम्। भृगुतुङ्गे च कौन्तेयः कृतवाञ्शौचमात्मनः
प्रददौ गोसहस्राणि सुबहूनि च भारत। निवेशांश्च द्विजातिभ्यः सोऽददत्कुरुसत्तमः
हिरण्यबिन्दोस्तीर्थे च स्नात्वा पुरुषसत्तमः। दृष्टवान्पाण्डवश्रेष्ठः पुण्यान्यायतनानि च
अवतीर्य नरश्रेष्ठो ब्राह्मणैः सह भारत। प्राचीं दिशमभिप्रेप्सुर्जगाम भरतर्षभः
आनुपूर्व्येण तीर्थानि दृष्टवान्कुरुसत्तमः। नदीं चोत्पलिनीं रम्यामरण्यं नैमिषं प्रति
नन्दामपरनन्दां च कौशिकीं च यशस्विनीम्। महानदीं गयां चैव गङ्गामपि च भारत
एवं तीर्थानि सर्वाणि पश्यमानस्तथाश्रमान्। आत्मनः पावनं कुर्वन्ब्राह्मणेभ्यो ददौ च गाः
अङ्गवङ्गकलिङ्गेषु यानि तीर्थानि कानिचित्। जगाम तानि सर्वाणि पुण्यान्यायतनानि च
दृष्ट्वा च विधिवत्तानि धनं चापि ददौ ततः। कलिङ्गराष्ट्रद्वारेषु ब्राह्मणाः पाण्डवानुगाः। अभ्यनुज्ञाय कौन्तेयमुपावर्तन्त भारत
स तु तैरभ्यनुज्ञातः कुन्तीपुत्रो धनञ्जयः। सहायैरल्पकैः शूरः प्रययौ यत्र सागरः
स कलिङ्गानतिक्रम्य देशानायतनानि च। हर्म्याणि रमणीयानि प्रेक्षणाणो ययौ प्रभुः
महेन्द्रपर्वतं दृष्ट्वा तापसैरुपशोभितम्। `गोदावर्यां ततः स्नात्वा तामतीत्य महाबलः
कावेरीं तां समासाद्य सङ्गमे सागरस्य च। स्नात्वा संपूज्य देवांश्च पितॄंश्च मुनिभिः सह
समुद्रतीरेण शनैर्मणलूरं जगाम ह
तत्र सर्वाणि तीर्थानि पुण्यान्यायतनानि च। अभिगम्य महाबाहुरभ्यगच्छन्महीपतिम्
मणलूरेश्वरं राजन्धर्मज्ञं चित्रवाहनम्। तस्य चित्राङ्गदा नाम दुहिता चारुदर्शना
तां ददर्श पुरे तस्मिन्विचरन्तीं यदृच्छया। दृष्ट्वा च तां वरारोहां चकमे चैत्रवाहनीम्
अभिगम्य च राजानमवदत्स्वं प्रयोजनम्। देहि मे खल्विमां राजन्क्षत्रियाय महात्मने
तच्छ्रुत्वा त्वब्रवीद्राजा कस्य पुत्रोऽसि नाम किम्। उवाच तं पाण्डवोऽहं कुन्तीपुत्रो धनञ्जयः
तमुवाचाथ राजा स सान्त्वपूर्वमिदं वचः। राजा प्रभञ्जनो नाम कुलेऽस्मिन्संबभूव ह
अपुत्रः प्रसवेनार्थी तपस्तेपे स उत्तमम्। उग्रेण तपसा तेन देवदेवः पिनाकधृक्
ईश्वरस्तोषितः पार्थ देवदेवः उमापतिः। स तस्मै भघवान्प्रादादेकैकं प्रसवं कुले
एकैकः प्रसवस्तस्माद्भवत्यस्मिन्कुले सदा। तेषां कुमाराः सर्वेषां पूर्वेषां मम जज्ञिरे
एका च मम कन्येयं कुलस्योत्पादनी भृशम्। पुत्रो ममायमिति मे भावना पुरुषर्षभ
पुत्रिकाहेतुविधिना संज्ञिता भरतर्षभ। तस्मादेकः सुतो योऽस्यां जायते भारत त्वया
एतच्छुल्कं भवत्वस्याः कुलकृज्जायतामिह। एतेन समयेनेमां प्रतिगृह्णीष्व पाण्डव
स तथेति प्रतिज्ञाय तां कन्यां प्रतिगृह्य च। `मासे त्रयोदशे पार्थः कृत्वा वैवाहिकीं क्रियाम्।' उवास नगरे तस्मिन्मासांस्त्रीन्स तया सह
ततः समुद्रे तीर्थानि दक्षिमे भरतर्षभः। अभ्यगच्छत्सुपुण्यानि सोभितानि तपस्विभिः
वर्जयन्ति स्म तीर्तानि तत्र पञ्च सम तापसाः। अवकीर्णानि यान्यासन्पुरस्तात्तु तपस्विभिः