ऐरावतकुले जातः कौरव्यो नाम पन्नगः। तस्यास्मि दुहिता राजन्नुलूपी नाम पन्नगी
साऽहं त्वामभिषेकार्थमवतीर्णं समुद्गाम्। दृष्ट्वैव पुरुषव्याघ्र कन्दर्पेणाभिमूर्च्छिता
तां मामनङ्गग्लपितां त्वत्कृते कुरुनन्दन। अनन्यां नन्दयस्वाद्य प्रदानेनात्मनोऽनघ
ब्रह्मचर्यमिदं भद्रे मम द्वादशमासिकम्। धर्मराजेन चादिष्टं नाहमस्मि स्वयं वशः
तव चापि प्रियं कर्तुमिच्छामि जलचारिणि। अनृतं नोक्तपूर्वं च मया किंचन कर्हिचित्
कथं च नानृतं मे स्यात्तव चापि प्रियं भवेत्। न च पीड्येत मे धर्मस्तथा कुर्या भुजङ्गमे
जानाम्यहं पाण्डवेय यथा चरसि मेदिनीम्। यथा च ते ब्रह्मचर्यमिदमादिष्टवान्गुरुः
परस्परं वर्तमानान्द्रुपदस्यात्मजां प्रति। यो नोऽनुप्रविशेन्मोहात्स वै द्वादशमासिकम्
वने चरेद्ब्रह्मचर्यमिति वः समयः कृतः। तदिदं दौपदीहेतोरन्योन्यस्य प्रवासनम्
कृतवांस्तत्र धर्मार्थमत्र धर्मो न दुष्यति। परित्राणं च कर्तव्यमार्तानां पृथुलोचन
कृत्वा मम परित्राणं तव धर्मो न लुप्यते। यदि वाप्यस्य धर्मस्य सूक्ष्मोऽपि स्याद्व्यतिक्रमः
स च ते धर्म एव स्याद्दत्वा प्राणान्ममार्जुन। भक्तां च भज मां पार्थ सतामेतन्मतं प्रभो
न करिष्यसि चेदेवं मृतां मामुपधारय। प्राणदानान्महाबाहो चर धर्ममनुत्तमम्
शरणं च प्रपन्नास्मि त्वामद्य पुरुषोत्तम। दीनाननाथान्कौन्तेय परिरक्षसि नित्यशः
साऽहं शऱणमभ्येमि रोरवीमि च दुःखिता। याचे त्वां चाभिकामाहं तस्मात्कुरु मम प्रियम्। स त्वमात्मप्रदानेन सकामां कर्तुमर्हसि
एवमुक्तस्तु कौन्तेयः पन्नगेश्वरकन्यया। कृतवांस्तत्तथा सर्वं धर्ममुद्दिश्य कारणम्
स नागभवने रात्रिं तामुषित्वा प्रतापवान्। `पुत्रमुत्पादयामास स तस्यां सुमनोहरम्
इरावन्तं महाभागं महाबलपराक्रमम्।' उदितेऽभ्युत्थितः सूर्ये कौरव्यस्य निवेशनात्
आगतस्तु पुनस्तत्र गङ्गाद्वारं तया सह। परित्यज्य गता साध्वी उलूपी निजमन्दिरं
दत्त्वा वरमजेयत्वं जले सर्वत्र भारत। साध्या जलचराः सर्वे भविष्यन्ति न संशयः
कथयित्वा च तत्सर्वं ब्राह्मणेभ्यः स भारत। प्रययौ हिमवत्पार्श्वं ततो वज्रधरात्मजः
अगस्त्यवटमासाद्य वसिष्ठस्य च पर्वतम्। भृगुतुङ्गे च कौन्तेयः कृतवाञ्शौचमात्मनः
प्रददौ गोसहस्राणि सुबहूनि च भारत। निवेशांश्च द्विजातिभ्यः सोऽददत्कुरुसत्तमः
हिरण्यबिन्दोस्तीर्थे च स्नात्वा पुरुषसत्तमः। दृष्टवान्पाण्डवश्रेष्ठः पुण्यान्यायतनानि च
अवतीर्य नरश्रेष्ठो ब्राह्मणैः सह भारत। प्राचीं दिशमभिप्रेप्सुर्जगाम भरतर्षभः
आनुपूर्व्येण तीर्थानि दृष्टवान्कुरुसत्तमः। नदीं चोत्पलिनीं रम्यामरण्यं नैमिषं प्रति
नन्दामपरनन्दां च कौशिकीं च यशस्विनीम्। महानदीं गयां चैव गङ्गामपि च भारत
एवं तीर्थानि सर्वाणि पश्यमानस्तथाश्रमान्। आत्मनः पावनं कुर्वन्ब्राह्मणेभ्यो ददौ च गाः
अङ्गवङ्गकलिङ्गेषु यानि तीर्थानि कानिचित्। जगाम तानि सर्वाणि पुण्यान्यायतनानि च
दृष्ट्वा च विधिवत्तानि धनं चापि ददौ ततः। कलिङ्गराष्ट्रद्वारेषु ब्राह्मणाः पाण्डवानुगाः। अभ्यनुज्ञाय कौन्तेयमुपावर्तन्त भारत