न दूरे ते गताः क्षुद्रास्तावद्गच्छावहे सह। यावन्निवर्तयाम्यद्य चोरहस्ताद्धनं तव
सोऽनुसृत्य महाबाहुर्धन्वी वर्मी रथी ध्वजी। शरैर्विध्वस्य तांश्चोरानवजित्य च तद्धनम्
ब्राह्मणं समुपाकृत्य यशः प्राप्य च पाण्डवः। ततस्तद्गेधनं पार्थो दत्त्वा तस्मै द्विजातये
आजगाम पुरं वीरः सव्यसाची धनञ्जयः। सोऽभिवाद्य गुरून्सर्वान्सर्वैश्चाप्यभिनन्दितः
धर्मराजमुवाचेदं व्रतमादिश मे प्रभो। समयः समतिक्रान्तो भवत्संदर्शने मया
वनवासं गमिष्यामि समयो ह्येष नः कृतः। इत्युक्तो धर्मरास्तु सहसा वाक्यमप्रियम्
कथमित्यब्रवीद्वाचा शोकार्तः सज्जमानया। युधिष्ठिरो गुडाकेशं भ्राता भ्रातरमच्युतम्
उवाच दीनो राजा च धनञ्जयमिदं वचः। प्रमाणमस्मि यदि ते मत्तः शृणु वचोऽनघ
अनुप्रवेशे यद्वीर कृतवांस्त्वं ममाप्रियम्। सर्वं तदनुजानामि व्यलीकं न च मे हृदि
गुरोरनुप्रवेशो हि नोपघातो यवीयसः। यवीयसोऽनुप्रवेशो ज्येष्ठस्य विधिलोपकः
निवर्तस्व महाबाहो कुरुष्व वचनं मम। न हि ते धर्मलोपोऽस्ति न च ते धर्पणा कृता
न व्याजेन चरेद्धर्ममिति मे भवतः श्रुतम्। न सत्याद्विचलिष्यामि सत्येनायुधमालभे
सोऽभ्यनुज्ञाय राजानं वनचर्याय दीक्षितः। वने द्वादश मासांस्तु वासायानुजगाम ह
तं प्रयान्तं महाबाहुं कौरवाणां यशस्करम्। अनुजग्मुर्महात्मानो ब्राह्मणा वेदपारगाः
वेदवेदाङ्गविद्वासस्तथैवाध्यात्मचिन्तकाः। भैक्षाश्च भगवद्भक्ताः सूताः पौराणिकाश्च ये
कथकाश्चापरे राजञ्श्रमणाश्च वनौकसः। दिव्याख्यानानि ये चापि पठन्ति मधुरं द्विजाः
एतैश्चान्यैश्च बहुभिः सहायैः पाण्डुनन्दनः। वृतः श्लक्ष्णकथैः प्रायान्मरुद्भिरिव वासवः
रमणीयानि चित्राणि वनानि च सरांसि च। सरितः सागरांश्चैव देशानपि च भारत
पुण्यान्यपि च तीर्थानि ददर्श भरतर्षभः। स गङ्गाद्वारमाश्रित्य निवेशमकरोत्प्रभुः
तत्र तस्याद्भुतं कर्म शृणु त्वं जनमेजय। कृतवान्यद्विशुद्धात्मा पाण्डूनां प्रवरो हि सः
निविष्टे तत्र कौन्तेये ब्राह्मणेषु च भारत। अग्निहोत्राणि विप्रास्ते प्रादुश्चक्रुरनेकशः
तेषु प्रबोध्यमानेषु ज्वलितेषु हुतेषु च। कृतपुष्पोपहारेषु तीरान्तरगतेषु च
कृताभिषेकैर्विद्वद्भिर्नियतैः सत्पथे स्थितैः। शुशुभेऽतीव तद्राजन्गङ्गाद्वारं महात्मभिः
तथा पर्याकुले तस्मिन्निवेशे पाण्डवर्षभः। अभिषेकाय कौन्तेयो गङ्गामवततार ह
तत्राभिषेकं कृत्वा स तर्पयित्वा पितामहान्। उत्तितीर्षुर्जलाद्राजन्नग्निकार्यचिकीर्षया
अपकृष्टो महाबाहुर्नागराजस्य कन्यया। अन्तर्जले महाराज उलूप्या कामयानया
ददर्श पाण्डवस्तत्र पावकं सुसमाहितः। कौरव्यस्याथ नागस्य भवने परमार्चिते
तत्राग्निकार्यं कृतवान्कुन्तीपुत्रो धनञ्जयः। अशङ्कमानेन हुतस्तेनातुष्यद्धुताशनः
अग्निकार्यं स कृत्वा तु नागराजसुतां तदा। प्रसहन्निव कौन्तेय इदं वचनमब्रवीत्
किमिदं साहसं भीरु कृतवत्यसि भामिनि। कश्चायं सुभगे देशः का च त्वं कस्य वात्मजा