तस्य चार्तस्य तैर्वाक्यैश्चोद्यमानः पुनःपुनः। आक्रन्दे तत्र कौन्तेयश्चिन्तयामास दुःखितः
ह्रियमाणे धने तस्मिन्ब्राह्मणस्य तपस्विनः। अश्रुप्रमार्जनं तस्य कर्तव्यमिति निश्चयः
उपर्रेक्षणजोऽधर्मः सुमहान्स्यान्महीपतेः। यद्यस्य रुदतो द्वारि न करोम्यद्य रक्षणम्
अनास्तिक्यं च सर्वेषामस्माकमपि रक्षणे। प्रतितिष्ठेत लोकेऽस्मिन्नधर्मश्चैव नो भवेत्
अनापृच्छय तु राजानं गते मयि न संशयः। अजातशत्रोर्नृपतेर्मयि चैवानृतं भवेत्
अनुप्रवेशे राज्ञस्तु वनवासो भवेन्मम। सर्वमन्यत्परिहृतं धर्षणात्तु महीपतेः
अधर्मो वै महानस्तु वने वा मरणं मम। शरीरस्य विनाशेन धर्म एव विशिष्यते
एवं विनिश्चित्य ततः कुन्तीपुत्रो धनञ्जयः। अनुप्रविश्य राजानमापृच्छय च विशांपते
मुखमाच्छाद्य निबिडमुत्तरीयेण वाससा। अग्रजं चार्जुनो गेहादभिवाद्याशु निःसृतः
धनुरादाय संहृष्टो ब्राह्मणं प्रत्यभाषत। ब्राह्मणा गम्यतां शीघ्रं यावत्परधनैर्षिणः
न दूरे ते गताः क्षुद्रास्तावद्गच्छावहे सह। यावन्निवर्तयाम्यद्य चोरहस्ताद्धनं तव
सोऽनुसृत्य महाबाहुर्धन्वी वर्मी रथी ध्वजी। शरैर्विध्वस्य तांश्चोरानवजित्य च तद्धनम्
ब्राह्मणं समुपाकृत्य यशः प्राप्य च पाण्डवः। ततस्तद्गेधनं पार्थो दत्त्वा तस्मै द्विजातये
आजगाम पुरं वीरः सव्यसाची धनञ्जयः। सोऽभिवाद्य गुरून्सर्वान्सर्वैश्चाप्यभिनन्दितः
धर्मराजमुवाचेदं व्रतमादिश मे प्रभो। समयः समतिक्रान्तो भवत्संदर्शने मया
वनवासं गमिष्यामि समयो ह्येष नः कृतः। इत्युक्तो धर्मरास्तु सहसा वाक्यमप्रियम्
कथमित्यब्रवीद्वाचा शोकार्तः सज्जमानया। युधिष्ठिरो गुडाकेशं भ्राता भ्रातरमच्युतम्
उवाच दीनो राजा च धनञ्जयमिदं वचः। प्रमाणमस्मि यदि ते मत्तः शृणु वचोऽनघ
अनुप्रवेशे यद्वीर कृतवांस्त्वं ममाप्रियम्। सर्वं तदनुजानामि व्यलीकं न च मे हृदि
गुरोरनुप्रवेशो हि नोपघातो यवीयसः। यवीयसोऽनुप्रवेशो ज्येष्ठस्य विधिलोपकः
निवर्तस्व महाबाहो कुरुष्व वचनं मम। न हि ते धर्मलोपोऽस्ति न च ते धर्पणा कृता
न व्याजेन चरेद्धर्ममिति मे भवतः श्रुतम्। न सत्याद्विचलिष्यामि सत्येनायुधमालभे
सोऽभ्यनुज्ञाय राजानं वनचर्याय दीक्षितः। वने द्वादश मासांस्तु वासायानुजगाम ह
तं प्रयान्तं महाबाहुं कौरवाणां यशस्करम्। अनुजग्मुर्महात्मानो ब्राह्मणा वेदपारगाः
वेदवेदाङ्गविद्वासस्तथैवाध्यात्मचिन्तकाः। भैक्षाश्च भगवद्भक्ताः सूताः पौराणिकाश्च ये
कथकाश्चापरे राजञ्श्रमणाश्च वनौकसः। दिव्याख्यानानि ये चापि पठन्ति मधुरं द्विजाः
एतैश्चान्यैश्च बहुभिः सहायैः पाण्डुनन्दनः। वृतः श्लक्ष्णकथैः प्रायान्मरुद्भिरिव वासवः
रमणीयानि चित्राणि वनानि च सरांसि च। सरितः सागरांश्चैव देशानपि च भारत
पुण्यान्यपि च तीर्थानि ददर्श भरतर्षभः। स गङ्गाद्वारमाश्रित्य निवेशमकरोत्प्रभुः
तत्र तस्याद्भुतं कर्म शृणु त्वं जनमेजय। कृतवान्यद्विशुद्धात्मा पाण्डूनां प्रवरो हि सः