नैषा तव ममैषेति ततस्तौ मन्युराविशत्। तस्या रूपेण संमत्तौ विगतस्नेहसौहृदौ
तस्या हेतोर्गदे भीमे संगृह्णीतामुभौ तदा। प्रगृह्य च गदे भीमे तस्यां तौ काममोहितौ
अहंपूर्वमहंपूर्वमित्यन्योन्यं निजघ्नतुः। तौ गदाभिहतौ भीमौ पेततुर्धरणीतले
रुधिरेणावसिक्ताङ्गौ द्वाविवार्कौ नभश्च्युतौ। ततस्ता विद्रुता नार्यः स च दैत्यगणस्तथा
पातालमगमत्सर्वो विषादभयकम्पितः। ततः पितामहस्तत्र सहदेवैर्महर्षिभिः
आजगाम विशुद्धात्मा पूजयंश्च तिलोत्तमाम्। वरेण च्छन्दयामास भगवान्प्रपितामहः
वरं दित्सुः स तत्रैनां प्रीतः प्राह पितामहः। आदित्यचरिताँल्लोकान्विचरिष्यसि भामिनि
तेजसा च सुदृष्टां त्वां न करिष्यति कश्चन। एवं तस्यै वरं दत्वा सर्वलोकपितामहः
इन्द्रे त्रैलोक्यमाधाय ब्रह्मलोकं गतः प्रभुः। एवं तौ सहितौ भऊत्वा सर्वार्थेष्वेकनिश्चयौ
तिलोत्तमार्थं संक्रुद्धावन्योन्यमभिजघ्नतुः। तस्माद्ब्रवीमि वः स्नेहात्सर्वाभरतसत्तमाः
यथा वो नात्र भेदः स्यात्सर्वेषां द्रौपदीकृते। तथा कुरुत भद्रं वो मम चेत्प्रियमिच्छथ
एवमुक्ता महात्मानो नारदेन महर्षिणा। समयं चक्रिरे राजंस्तेऽन्योन्यवशमागताः। समक्षं तस्य देवर्षेर्नारदस्यामितौजसः
एकैकस्य गृहे कृष्णा वसेद्वर्षमकल्मषा' द्रौपद्या नः सहासीनानन्योन्यं योऽभिदर्शयेत्। स नो द्वादश मासानि ब्रह्मचारी वने वसेत्
कृते तु समये तस्मिन्पाण्डवैर्धर्मचारिभिः। नारदोऽप्यगमत्प्रीत इष्टं देशं महामुनिः
एवं तैः समयः पूर्वं कृतो नारदचोदितैः। न चाभिद्यन्त ते सर्वे तदान्योन्येन भारत
अभ्यनन्दन्त ते सर्वे तदान्योन्यं च पाण्डवाः। एतद्विस्तरशः सर्वमाख्यातं ते नराधिप
काले च तस्मिन्संपन्ने यथावज्जनमेजय
एवं ते समयं कृत्वा न्यवसंस्तत्र पाण्डवाः। वशे शस्त्रप्रतापेन कुर्वन्तोऽन्यान्महीक्षितः
तेषां मनुजसिंहानां पञ्चानाममितौजसाम्। बभूव कृष्णा सर्वेषां पार्थानां वशवर्तिनी
ते तया तैश्च सा वीरैः पतिभिः सह पञ्चभिः। बभूव परमप्रीता नागैरिव सरस्वती
वर्तमानेषु धर्मेण पाण्डवेषु महात्मसु। व्यवर्धन्कुरवः सर्वे हीनदोषाः सुखान्विताः
अथ दीर्घेण कालेन ब्राह्मणस्य विशांपते। कस्यचित्तस्करा जह्रुः केचिद्गा नृपसत्तम
ह्रियमाणे धने तस्मिन्ब्राह्मणः क्रोधमूर्च्छितः। आगम्य खाण्डवप्रस्थमुदक्रोशत्स पाण्डवान्
ह्रियते गोधनं क्षुद्रैर्नृशंसैरकृतात्मभिः। प्रसह्य चास्मद्विषयादभ्यधावत पाण्डवाः
ब्राह्मणस्य प्रशान्तस्य हविर्ध्वाङ्क्षैः प्रलुप्यते। शार्दूलस्य गुहां शून्यां नीचः क्रोष्टाभिमर्दति
अरक्षितारं राजानं बलिषद्भागहारिणम्। तमाहुः सर्वलोकस्य समग्रं पापचारिणम्
ब्राह्मणस्वे हृते चोरैर्धर्मार्थे च विलोपिते। रोरूयमाणे च मयि क्रियतां हस्तधारणा
रोरूयमाणस्याभ्याशे भृशं विप्रस्य पाण्डवः। तानि वाक्यानि शुश्राव कुन्तीपुत्रो धनञ्जयः
श्रुत्वैव च महाबाहुर्मा भैरित्याह तं द्विजम्। आयुधानि च यत्रासन्पाण्डवानां महात्मनां
कृष्णया सह तत्रास्ते धर्मराजो युधिष्ठिरः। संप्रवेशाय चाशक्तो गमनाय च पाण्डवः