दिव्येषु सर्वकामेषु समानीतेषु तावुभौ। वरासनेषु संहृष्टौ सह स्त्रीभिर्निषीदतुः
ततो वादित्रनृत्ताभ्यामुपातिष्ठन्त तौ स्त्रियः। गीतैश्च स्तुतिसंयुक्तैः प्रीत्या समुपजग्मिरे
ततस्तिलोत्तमा तत्र वने पुष्पाणि चिन्वती। वेषं सा क्षिप्तमाधाय रक्तेनैकेन वाससा
नदीतीरेषु जातान्सा कर्णिकारान्प्रचिन्वती। शनैर्जगाम तं देशं यत्रास्तां तौ महासुरौ
तौ तु पीत्वा वरं पानं मदरक्तान्तलोचनौ। दृष्ट्वैव तां वरारोहां व्यथितौ संबभूवतुः
तावुत्थायासनं हित्वा जग्मतुर्यत्र सा स्थिता। उभौ च कामसंमत्तावुभौ प्रार्थयतश्च ताम्
दक्षिणे तां करे सुभ्रूं सुन्दो जग्राह पाणिना। उपसुन्दोपि जग्राह वामे पाणौ तिलोत्तमाम्
वरप्रदानमत्तौ तावौरसेन बलेन च। धनरत्नमदाभ्यां च सुरापानमदेन च
सर्वैरेतैर्मदैर्मत्तावन्योन्यं भ्रुकुटीकृतौ। मदकामसमाविष्टौ परस्परमथोचतुः
मम भार्या तव गुरुरिति सुन्दोऽभ्यभाषत। मम भार्या तव वधूरुपसुन्दोऽभ्यभाषत
नैषा तव ममैषेति ततस्तौ मन्युराविशत्। तस्या रूपेण संमत्तौ विगतस्नेहसौहृदौ
तस्या हेतोर्गदे भीमे संगृह्णीतामुभौ तदा। प्रगृह्य च गदे भीमे तस्यां तौ काममोहितौ
अहंपूर्वमहंपूर्वमित्यन्योन्यं निजघ्नतुः। तौ गदाभिहतौ भीमौ पेततुर्धरणीतले
रुधिरेणावसिक्ताङ्गौ द्वाविवार्कौ नभश्च्युतौ। ततस्ता विद्रुता नार्यः स च दैत्यगणस्तथा
पातालमगमत्सर्वो विषादभयकम्पितः। ततः पितामहस्तत्र सहदेवैर्महर्षिभिः
आजगाम विशुद्धात्मा पूजयंश्च तिलोत्तमाम्। वरेण च्छन्दयामास भगवान्प्रपितामहः
वरं दित्सुः स तत्रैनां प्रीतः प्राह पितामहः। आदित्यचरिताँल्लोकान्विचरिष्यसि भामिनि
तेजसा च सुदृष्टां त्वां न करिष्यति कश्चन। एवं तस्यै वरं दत्वा सर्वलोकपितामहः
इन्द्रे त्रैलोक्यमाधाय ब्रह्मलोकं गतः प्रभुः। एवं तौ सहितौ भऊत्वा सर्वार्थेष्वेकनिश्चयौ
तिलोत्तमार्थं संक्रुद्धावन्योन्यमभिजघ्नतुः। तस्माद्ब्रवीमि वः स्नेहात्सर्वाभरतसत्तमाः
यथा वो नात्र भेदः स्यात्सर्वेषां द्रौपदीकृते। तथा कुरुत भद्रं वो मम चेत्प्रियमिच्छथ
एवमुक्ता महात्मानो नारदेन महर्षिणा। समयं चक्रिरे राजंस्तेऽन्योन्यवशमागताः। समक्षं तस्य देवर्षेर्नारदस्यामितौजसः
एकैकस्य गृहे कृष्णा वसेद्वर्षमकल्मषा' द्रौपद्या नः सहासीनानन्योन्यं योऽभिदर्शयेत्। स नो द्वादश मासानि ब्रह्मचारी वने वसेत्
कृते तु समये तस्मिन्पाण्डवैर्धर्मचारिभिः। नारदोऽप्यगमत्प्रीत इष्टं देशं महामुनिः
एवं तैः समयः पूर्वं कृतो नारदचोदितैः। न चाभिद्यन्त ते सर्वे तदान्योन्येन भारत
अभ्यनन्दन्त ते सर्वे तदान्योन्यं च पाण्डवाः। एतद्विस्तरशः सर्वमाख्यातं ते नराधिप
काले च तस्मिन्संपन्ने यथावज्जनमेजय
एवं ते समयं कृत्वा न्यवसंस्तत्र पाण्डवाः। वशे शस्त्रप्रतापेन कुर्वन्तोऽन्यान्महीक्षितः
तेषां मनुजसिंहानां पञ्चानाममितौजसाम्। बभूव कृष्णा सर्वेषां पार्थानां वशवर्तिनी
ते तया तैश्च सा वीरैः पतिभिः सह पञ्चभिः। बभूव परमप्रीता नागैरिव सरस्वती