तथा देवनिकायानां महर्षीणां च सर्वशः। मुखानि चाभ्यवर्तन्त येन याति तिलोत्तमा
तस्या गात्रे निपतिता दृष्टिस्तेषां महात्मनाम्। सर्वेषामेव भूयिष्ठमृते देवं पितामहम्
गच्छन्त्यां तु तया सर्वे देवाश्च परमर्षयः। कृतमित्येव तत्कार्यं मेनिरे रूपसंपदा
तिलोत्तमायां तस्यां तु गतायां लोकभावनः। `कृतं कार्यमिति श्रीमानब्रवीच्च पितामहः।' सर्वान्विसर्जयामास देवानृषिगणांश्च तान्
जित्वा तु पृथिवीं दैत्यौ निःसपत्नौ गतव्यथौ। कृत्वा त्रैलोक्यमव्यग्रं कृतकृत्यौ बभूवतुः
देवगन्धर्वयक्षाणां नागपार्थिवरक्षसाम्। आदाय सर्वरत्नानि परां तुष्टिमुपागतौ
यदा न प्रतिषेद्धारस्तयोः सन्तीह केचन।। निरुद्योगौ तदा भूत्वा विजह्रातेऽमराविव
स्त्रीभिर्माल्यैश्च गन्धैश्च भक्ष्यभोज्यैः सुपुष्कलैः। पानैश्च विविधैर्हृद्यैः परां प्रीतिमवापतुः
अन्तःपुरवनोद्याने पर्वतेषु वनेषु च। यथेप्सितेषु देशेषु विजह्रातेऽमराविव
ततः कदाचिद्विन्ध्यस्य प्रस्थे समशिलातले। पुष्पिताग्रेषु सालेषु विहारमभिजग्मतुः
दिव्येषु सर्वकामेषु समानीतेषु तावुभौ। वरासनेषु संहृष्टौ सह स्त्रीभिर्निषीदतुः
ततो वादित्रनृत्ताभ्यामुपातिष्ठन्त तौ स्त्रियः। गीतैश्च स्तुतिसंयुक्तैः प्रीत्या समुपजग्मिरे
ततस्तिलोत्तमा तत्र वने पुष्पाणि चिन्वती। वेषं सा क्षिप्तमाधाय रक्तेनैकेन वाससा
नदीतीरेषु जातान्सा कर्णिकारान्प्रचिन्वती। शनैर्जगाम तं देशं यत्रास्तां तौ महासुरौ
तौ तु पीत्वा वरं पानं मदरक्तान्तलोचनौ। दृष्ट्वैव तां वरारोहां व्यथितौ संबभूवतुः
तावुत्थायासनं हित्वा जग्मतुर्यत्र सा स्थिता। उभौ च कामसंमत्तावुभौ प्रार्थयतश्च ताम्
दक्षिणे तां करे सुभ्रूं सुन्दो जग्राह पाणिना। उपसुन्दोपि जग्राह वामे पाणौ तिलोत्तमाम्
वरप्रदानमत्तौ तावौरसेन बलेन च। धनरत्नमदाभ्यां च सुरापानमदेन च
सर्वैरेतैर्मदैर्मत्तावन्योन्यं भ्रुकुटीकृतौ। मदकामसमाविष्टौ परस्परमथोचतुः
मम भार्या तव गुरुरिति सुन्दोऽभ्यभाषत। मम भार्या तव वधूरुपसुन्दोऽभ्यभाषत
नैषा तव ममैषेति ततस्तौ मन्युराविशत्। तस्या रूपेण संमत्तौ विगतस्नेहसौहृदौ
तस्या हेतोर्गदे भीमे संगृह्णीतामुभौ तदा। प्रगृह्य च गदे भीमे तस्यां तौ काममोहितौ
अहंपूर्वमहंपूर्वमित्यन्योन्यं निजघ्नतुः। तौ गदाभिहतौ भीमौ पेततुर्धरणीतले
रुधिरेणावसिक्ताङ्गौ द्वाविवार्कौ नभश्च्युतौ। ततस्ता विद्रुता नार्यः स च दैत्यगणस्तथा
पातालमगमत्सर्वो विषादभयकम्पितः। ततः पितामहस्तत्र सहदेवैर्महर्षिभिः
आजगाम विशुद्धात्मा पूजयंश्च तिलोत्तमाम्। वरेण च्छन्दयामास भगवान्प्रपितामहः
वरं दित्सुः स तत्रैनां प्रीतः प्राह पितामहः। आदित्यचरिताँल्लोकान्विचरिष्यसि भामिनि
तेजसा च सुदृष्टां त्वां न करिष्यति कश्चन। एवं तस्यै वरं दत्वा सर्वलोकपितामहः
इन्द्रे त्रैलोक्यमाधाय ब्रह्मलोकं गतः प्रभुः। एवं तौ सहितौ भऊत्वा सर्वार्थेष्वेकनिश्चयौ
तिलोत्तमार्थं संक्रुद्धावन्योन्यमभिजघ्नतुः। तस्माद्ब्रवीमि वः स्नेहात्सर्वाभरतसत्तमाः