ततो देवर्षयः सर्वे सिद्धाश्च परमर्षयः। जग्मुस्तदा परमार्तिं दृष्ट्वा तत्कदनं महत्
तेऽभिजग्मुर्जितक्रोधा जितात्मानो जितेन्द्रियाः। पितामहस्य भनं जगतः कृपया तदा
ततो ददृशुरासीनं सह देवैः पितामहम्। सिद्धैर्ब्रह्मर्षिभिश्चैव समन्तात्परिवारितम्
तत्र देवो महादेवस्तत्राग्निर्वायुना सह। चन्द्रादित्यौ च शक्रश्च पारमेष्ठ्यास्तथर्षयः
वैखानसा वालखिल्या वानप्रस्था मरीचिपाः। अजाश्चैवाविमूढाश्च तेजोगर्भास्तपस्विनः
ऋषयः सर्व एवैते पितामहमुपागमन्। ततोऽभिगम्य ते दीनाः सर्व एव महर्षयः
सुन्दोपसुन्दयौः कर्म सर्वमेव शशंसिरे। यथा हृतं यथा चैव कृतं येन क्रमेण च
न्यवेदयंस्ततः सर्वमखिलेन पितामहे। ततो देवगणाः सर्वे ते चैव परमर्षयः
तमेवार्थं पुरस्कृत्य पितामहमचोदयन्। ततः पितामहः श्रुत्वा सर्वेषां तद्वचस्तदा
मुहूर्तमिव संचिन्त्य कर्तव्यस्य च निश्चयम्। तयोर्वधं समुद्दिश्य विश्वकर्माणमाह्वयत्
दृष्ट्वा च विश्वकर्माणं व्यादिदेश पितामहः। सृज्यतां प्रार्थनीयैका प्रमदेति महातपाः
पितामहं नमस्कृत्य तद्वाक्यमभिनन्द्य च। निर्ममे योषितं दिव्यां चिन्तयित्वा पुनःपुनः
त्रिषु लोकेषु यत्किंचिद्भूतं स्थावरजङ्गमम्। समानयद्दर्शनीयं तत्तदत्र स विश्ववित्
कोटिशश्चैव रत्नानि तस्या गात्रे न्यवेशत्। तां रत्नसङ्घातमयीमसृजद्देवरूपिणीम्
सा प्रयत्नेन महता निर्मिता विश्वकर्मणा। त्रिषु लोकेषु नारीणां रूपेणाप्रतिमाभवत्
न तस्याः सूक्ष्ममप्यस्ति यद्गात्रे रूपसंपदा। नियुक्ता यत्र वा दृष्टिर्न सज्जति निरीक्षताम्
सा विग्रहवतीव श्रीः कामरूपा वपुष्मती। `पितामहमुपातिष्ठत्किं करोमीति चाब्रवीत्
प्रीतो भूत्वा स दृष्ट्वैव प्रीत्या चास्यै वरं ददौ। कान्तत्वं सर्वभूतानां साश्रियानुत्तमं वपुः
सा तेन वरदानेन कर्तुश्च क्रियया तदा।' जहार सर्वभूतानां चक्षूंषि च मनांसि च
तिलंतिलं समानीय रत्नानां यद्विनिर्मिता। तिलोत्तमेति तत्तस्या नाम चक्रे पितामहः
ब्रह्माणं सा नमस्कृत्य प्राञ्जलिर्वाक्यमब्रवीत्। किं कार्यं मयि भूतेश येनास्म्यद्येह निर्मिता
गच्छ सुन्दोपसुन्दाभ्यामसुराभ्यां तिलोत्तमे। प्रार्थनीयेन रूपेण कुरु भद्रे प्रलोभनम्
त्वत्कृते दर्शादेव रूपसंपत्कृतेन वै। विरोधः स्याद्यथा ताभ्यामन्योन्येन तथा कुरु
सा तथेति प्रतिज्ञाय नमस्कृत्य पितामहम्। चकार मण्डलं तत्र विबुधानां प्रदक्षिणम्
प्राङ्मुखो भगवानास्ते दक्षिणेन महेश्वरः। देवाश्चैवोत्तरेणासन्सर्वतस्त्वृषयोऽभवन्
कुर्वन्त्यां तु तदा तत्र मण्डलं तत्प्रदक्षिणम्। इन्द्रः स्थाणुश्च भगवान्धैर्येण तु परिच्युतौ
द्रष्टुकामस्य चात्यर्थं गतायां पार्श्वतस्तथा। अन्यदञ्चितपद्माक्षं दक्षिणं निःसृतं मुखम्
पृष्ठतः परिवर्तन्त्यां पश्चिमं निःसृतं मुखम्। गतायां चोत्तरं पार्श्वमुत्तरं निःसृतं मुखम्
महेन्द्रस्यापि नेत्राणां पृष्ठतः पार्श्वतोग्रतः। रक्तान्तानां विशालानां सहस्रं सर्वतोऽभवत्
एवं चतुर्मुखः स्थाणुर्महादेवोऽभवत्पुरा। तथा सहस्रनेत्रश्च बभूव बलसूदनः