भक्ष्यतां भुज्यतां नित्यं दीयतां रम्यतामिति। गीयेतां पीयतां चेति शभ्दश्चासीद्गृहे गृहे
तत्रतत्र महानादैरुत्कृष्टतलनादितैः। हृष्टं प्रमुदितं सर्वं दैत्यानामभवत्पुरम्
तैस्तैर्विहारैर्बहुभिर्दैत्यानां कामरूपिणाम्। समाः संक्रीडतां तेषामहरेकमिवाभवत्
उत्सवे वृत्तमात्रे तु त्रैलोक्याकाङ्क्षिणावुभौ। मन्त्रयित्वा ततः सेनां तावज्ञापयतां तदा
सुहृद्भिरप्यनुज्ञातौ दैत्यैर्वृद्धैश्च मन्त्रिभिः। कृत्वा प्रास्थानिकं रात्रौ मघासु ययतुस्तदा
गदापिट्टशधारिण्या शूलमुद्गरहस्तया। प्रस्थितौ सह वर्मिण्या महत्या दैत्यसेनया
मङ्गलैः स्तुतिभिश्चापि विजयप्रतिसंहितैः। चारणैः स्तूयमानौ तौ जग्मतुः परया मुदा
तावन्तरिक्षमुत्प्लुत्य दैत्यौ कामगमावुभौ। देवानामेव भवनं जग्मतुर्युद्दुर्मदौ
तयोरागमनं ज्ञात्वा वरदानं च तत्प्रभोः। हित्वा त्रिविष्टपं जग्मुर्ब्रह्मलोकं ततः सुराः
ताविन्द्रलोकं निर्जित्य यक्षरक्षोगणांस्तदा। खेचराण्यपि भूतानि जघ्नतुस्तीव्रविक्रमौ
अन्तर्भूमिगतान्नागाञ्जित्वा तौ च महारथौ। समुद्रवासिनीः सर्वा म्लेच्छजातीर्विजिग्यतुः
ततः सर्वां महीं जेतुमारब्धावुग्रशासनौ। सैनिकांश्च समाहूय सुतीक्ष्णं वाक्यमूचतुः
राजर्षयो महायज्ञैर्हव्यकव्यैर्द्विजातयः। तेजो बलं च देवानां वर्धन्ति श्रियं तथा
तेषामेवं प्रवृत्तानां सर्वेषामसुरद्विषाम्। संभूय सर्वैरस्माभिः कार्यः सर्वात्मना वधः
एवं सर्वान्समादिश्य पूर्वतीरे महोदधेः। क्रूरां मतिं समास्थाय जग्मतुः सर्वतोमुखौ
यज्ञैर्यजन्ति ये केचिद्याजयन्ति च ये द्विजाः। तान्सर्वान्प्रसभं हत्वा बलिनौ जग्मतुस्ततः
आश्रमेष्वग्निहोत्राणि मुनीनां भावितात्मनाम्। गृहीत्वा प्रक्षिपन्त्यप्सु विश्रब्धं सैनिकास्तयोः
तपोधनैश्च ये क्रुद्धैः शापा उक्ता महात्मभिः। नाक्रामन्त तयोस्तेऽपि वरदाननिराकृताः
नाक्रामन्त यदा शापा बाणा मुक्ताः शिलास्विव। नियमान्संपरित्यज्य व्यद्रवन्त द्विजातयः
पृथिव्यां ये तपःसिद्धा दान्ताः शमपरायणाः। तयोर्भयाद्दुद्रुवुस्ते वैनतेयादिवोरगाः
मथितैराश्रमैर्भग्नैर्विकीर्णकलशस्रुवैः। शून्यमासीज्जगत्सर्वं कालेनेव हतं तदा
ततो राजन्नदृश्यद्भिर्ऋषिभिश्च महासुरौ। उभौ विनिश्चयं कृत्वा विकुर्वाते वधैषिणौ
प्रभिन्नकरटौ मत्तौ भूत्वा कुञ्जररूपिणौ। संलीनमपि दुर्गेषु निन्यतुर्यमसादनम्
सिंहौ भूत्वा पुनर्व्याघ्रौ पुनश्चान्तर्हितावुभौ। तैस्तैरुपायैस्तौ क्रूरावृषीन्दृष्ट्वा निजघ्नतुः
निवृत्तयज्ञस्वाध्याया प्रनष्टनृपतिद्विजा। उत्सन्नोत्सवयज्ञा च बभूव वसुधा तदा
हाहाभूता भयार्ता च निवृत्तविपणापणा। निवृत्तदेवकार्या च पुण्योद्वाहविवर्जिता
निवृत्तकृषिगोरक्षा विध्वस्तनगराश्रमा। अस्थिकङ्कालसंकीर्णा भूर्बभूवोग्रदर्शना
निवृत्तपितृकार्यं च निर्वषट्कारमङ्गलम्। जगत्प्रतिभयाकारं दुष्प्रेक्ष्यमभवत्तदा
चन्द्रादित्यौ ग्रहास्तारा नक्षत्राणि दिवौकसः। जग्मुर्विषादं तत्कर्म दृष्ट्वा सुन्दोपसुन्दयोः
एवं सर्वा दिशो दैत्यौ जित्वा क्रूरेण कर्मणा। निःसपत्नौ कुरुक्षेत्रे निवेशमभिचक्रतुः