ततो देवा भयं जग्मुरुग्रं दृष्ट्वा तयोस्तपः। तपोविघातार्थमथो देवा विघ्नानि चक्रिरे
रत्नैः प्रलोभयामासुः स्त्रीभिश्चोभौ पुनःपुनः। न च तौ चक्रतुर्भङ्गं व्रतस्य सुमहाव्रतौ
अथ मायां पुनर्देवास्तयोश्चक्रुर्महात्मनोः। भगिन्यो मातरो भार्यास्तयोश्चात्मजनस्तथा
प्रपात्यमाना विस्रस्ताः शूलहस्तेन रक्षसा। भ्रष्टाभरणकेशान्ता भ्रष्टाभरणवाससः
अभिभाष्य ततः सर्वास्तौ त्राहीति विचुक्रुशुः। न च तौ चक्रतुर्भङ्गं व्रतस्य सुमहाव्रतौ
यदा क्षोभं नोपयाति नार्तिमन्यतरस्तयोः। ततः स्त्रियस्ता भूतं च सर्वमन्तरधीयत
ततः पितामहः साक्षादभिगम्य महासुरौ। वरेण च्छ्दयामास क्वलोकहितः प्रभुः
ततः सुन्दोपसुन्दौ तौ भ्रातरौ दृढविक्रमौ। दृष्ट्वा पितामहं देवं तस्थतुः प्राञ्जली तदा
ऊचतुश्च प्रभुं देवं ततस्तौ सहितौ तदा। आवयोस्तपसाऽनेन यदि प्रीतः पितामहः
मायाविदावस्त्रविदौ बलिनौ कामरूपिणौ। उभावप्यमरौ स्यावः प्रसन्नो यदि नौ प्रभुः
ऋतेऽमरत्वं युवयोः सर्वमुक्तं भविष्यति। अन्यद्वृणीतं मृत्योश्च विधानममरैः सम्
प्रभविष्याव इति यन्महदभ्युद्यतं तपः। युवयोर्हेतुनानेन नामरत्वं विधीयते
त्रैलोक्यविजयार्थाय भवद्भ्यामास्थितं तपः। हेतुनाऽनेन दैत्येन्द्रौ न वां कामं करोम्यहम्
सुन्दोपसुन्दावूचतुः। त्रिषु लोकेषु यद्भूतं किंचित्स्थावरजङ्गमम्। सर्वस्मान्नौ भयं न स्यादृतेऽन्योन्यं पितामह
यत्प्रार्थितं यथोक्तं च काममेतद्ददानि वाम्। मृत्योर्विधानमेतच्च यथावद्वा भविष्यति
ततः पितामहो दत्त्वा वरमेतत्तदा तयोः। निवर्त्य तपसस्तौ च ब्रह्मलोकं जगाम ह
लब्ध्वा वराणि दैत्येन्द्रावथ तौ भ्रातरावुभौ। अवध्यौ सर्वलोकस्य स्वमेव भवनं गतौ
तौ तु लब्धवरौ दृष्ट्वा कृतकामौ मनस्विनौ। सर्वः सुहृञ्जनस्ताभ्यां प्रहर्षमुपजग्मिवान्
ततस्तौ तु जटा भित्त्वा मौलिनौ संबभूवतुः। महार्हाभरणोपेतौ विरजोम्बरधारिणौ
अकालकौमुदीं चैव चक्रतुः सार्वकालिकीम्। नित्यः प्रमुदितः सर्वस्तयोश्चैव सुहृञ्जनः
भक्ष्यतां भुज्यतां नित्यं दीयतां रम्यतामिति। गीयेतां पीयतां चेति शभ्दश्चासीद्गृहे गृहे
तत्रतत्र महानादैरुत्कृष्टतलनादितैः। हृष्टं प्रमुदितं सर्वं दैत्यानामभवत्पुरम्
तैस्तैर्विहारैर्बहुभिर्दैत्यानां कामरूपिणाम्। समाः संक्रीडतां तेषामहरेकमिवाभवत्
उत्सवे वृत्तमात्रे तु त्रैलोक्याकाङ्क्षिणावुभौ। मन्त्रयित्वा ततः सेनां तावज्ञापयतां तदा
सुहृद्भिरप्यनुज्ञातौ दैत्यैर्वृद्धैश्च मन्त्रिभिः। कृत्वा प्रास्थानिकं रात्रौ मघासु ययतुस्तदा
गदापिट्टशधारिण्या शूलमुद्गरहस्तया। प्रस्थितौ सह वर्मिण्या महत्या दैत्यसेनया
मङ्गलैः स्तुतिभिश्चापि विजयप्रतिसंहितैः। चारणैः स्तूयमानौ तौ जग्मतुः परया मुदा
तावन्तरिक्षमुत्प्लुत्य दैत्यौ कामगमावुभौ। देवानामेव भवनं जग्मतुर्युद्दुर्मदौ
तयोरागमनं ज्ञात्वा वरदानं च तत्प्रभोः। हित्वा त्रिविष्टपं जग्मुर्ब्रह्मलोकं ततः सुराः
ताविन्द्रलोकं निर्जित्य यक्षरक्षोगणांस्तदा। खेचराण्यपि भूतानि जघ्नतुस्तीव्रविक्रमौ