विज्ञाता चोक्तवाक्यानामेकतां बहुतां तथा। बोद्धा हि परमार्थांश्च विविधांश्च व्यतिक्रमान्
अभेदतश्च बहुशो बहुशश्चापि भेदतः। वक्ता विविधवाक्यानां नानादेशसमीक्षिता
पञ्चागमांश्च विविधानादेशांश्च समीक्षिता। नानार्थकुशलस्तत्र तद्धितेषु च कृत्स्नशः
परिभूषयिता वाचां वर्णतः स्वरतोऽर्थतः। प्रत्ययं च समाख्याता नियतं प्रतिधातुकम्
पञ्च चाक्षरजातानि स्वरसंज्ञानि यानि च। तमागतमृषिं दृष्ट्वा प्रत्युद्गम्याभिवाद्य च
आसनं रुचिरं तस्मै प्रददौ स युधिष्ठिरः। `कृष्णाजिनोत्तरे तस्मिन्नुपविष्टो महानृषिः
देवर्षेरुपविष्टस्य स्वयमर्ध्यं यथाविधि। प्रादाद्युधिष्ठिरो धीमान्राज्यं तस्मै न्यवेदयत्। प्रतिगृह्य तु तां पूजामृषिः प्रीतमनास्तदा
आशीर्भिर्वर्धयित्वा च तमुवाचास्यतामिति। निषसादाभ्यनुज्ञातस्ततो राजा युधिष्ठिरः
प्रेषयामास कृष्णायै भगवन्तमुपस्थितम्। श्रुत्वैतद्द्रौपदी चापि शुचिर्भूत्वा समाहिता
जगाम तत्र यत्रास्ते नारदः पाण्डवैः सह। तस्याभिवाद्य चरणौ देवर्षेर्धर्मचारिणी
कृताञ्जलिः सुसंवीता स्थिताऽथ द्रुपदात्मजा। तस्याश्चापि स धर्मात्मा सत्यवागृषिसत्तमः
आशिषो विविधाः प्रोच्य राजपुत्र्यास्तु नारदः। गम्यतामिति होवाच भगवांस्तामनिन्दिताम्
गतायामथ कृष्णायां युधिष्ठिरपुरोगमान्। विविक्ते पाण्डवान्सर्वानुवाच भगवानृषिः
पाञ्चाली भवतामेका धर्मपत्नी यशस्विनी। यथा वो नात्र भेदः स्यात्तथा नीतिर्विधीयतां
सुन्दोपसुन्दौ हि पुरा भ्रातरौ सहितावुभौ। आस्तामवध्यावन्येषां त्रिषु लोकेषु विश्रुतौ
एकराज्यावेकगृहावेकशय्यासनाशनौ। तिलोत्तमायास्तौ हेतोरन्योन्यमभिजघ्नतुः
रक्ष्यतां सौहृदं तस्मादन्योन्यप्रीतिभावकम्। यथा वो नात्र भेदः स्यात्तत्कुरुष्व युधिष्ठिर
सुन्दोपसुन्दावसुरौ कस्य पुत्रौ महामुने। उत्पन्नश्च कथं भेदः कथं चान्योन्यमघ्नताम्
अप्सरा देवकन्या वै कस्य चैषा तिलोत्तमा। यस्याः कामेन संमत्तौ जघ्नतुस्तौ परस्परम्
एतत्सर्वं यथा वृत्तं विस्तरेण तपोधन। श्रोतुमिच्छामहे ब्रह्मन्परं कौतूहलं हि मे
शणु मे विस्तरेणेममितिहासं पुरातनम्। भ्रातृभिः सहितः पार्थ यथा वृत्तं युधिष्ठिर
महासुरस्यान्ववाये हिरण्यकशिपोः पुरा। निकुम्भो नाम दैत्येन्द्रस्तेजस्वी बलवानभूत्
तस्य पुत्रौ महावीर्यौ जातौ भीमपराक्रमौ। सुन्दोपसुन्दौ दैत्येन्द्रौ दारुणौ क्रूरमानसौ
तावेकनिश्चयौ दैत्यावेककार्यार्थसंमतौ। निरन्तरमवर्तेतां समदुःखसुखावुभौ
विनाऽन्योन्यं न भुञ्जाते विनाऽन्योन्यं न जल्पतः। अन्योन्यस्य प्रियकरावन्योन्यस्य प्रियंवदौ
एकशीलसमाचारौ द्विधैवैकोऽभवत्कृतः। तौ विवृद्धौ महावीर्यौ कार्येष्वप्येकनिश्चयौ
त्रैलोक्यविजयार्थाय समाधायैकनिश्चयम्। दीक्षां कृत्वा गतौ विन्ध्यं तावुग्रं तेपतुस्तपः
तौ तु दीर्घेण कालेन तपोयुक्तौ बभूवतुः। क्षुत्पिपासापरिश्रान्तौ जटावल्कलधारिणौ
मलोपचितसर्वाङ्गौ वायुभक्षौ बभूवतुः। आत्ममांसानि जुह्वान्तौ पादाङ्गुष्ठाग्रधिष्ठितौ। ऊर्ध्वबाहू चानिमिषौ दीर्घकालं धृतव्रतौ
तयोस्तपःप्रभावेण दीर्घकालं प्रतापितः। धूमं प्रमुमुचे विन्ध्यस्तद्भुतमिवाभवत्