गाधा सामानुसामज्ञः साम्नां परमवल्गुनाम्। आत्मनः सर्वमोक्षिभ्यः कृतिमान्कृत्यवित्सदा
यजुर्धर्मैर्बहुविधैर्मतो मतिमतां वरः। विदितार्थः समश्चैव च्छेत्ता निगमसंशयान्
अर्थनिर्वचने नित्यं संशयच्छिदसंशयः। प्रकृत्या धर्मकुशलो दाता धर्मविशारदः
लोपेनागमधर्मेण संक्रमेण च वृत्तिषु। एकशब्दांश्च नानार्थानेकार्थांश्च पृथक्कृतान्
पृथगर्थाभिधानांश्च प्रयोगानन्ववेक्षिता। प्रमाणभूतो लोकेषु सर्वाधिकरणेषु च
सर्ववर्णविकारेषु नित्यं कुशलपूजितः। स्वरेऽस्वरे च विविधे वृत्तेषु विविधेषु च
समस्थानेषु सर्वेषु समाम्नायेषु धातुषु। उद्देश्यानां समाख्याता सर्वमाख्यातमुद्दिशन्
अभिसन्धिषु तत्त्वज्ञः पदान्यङ्गान्यनुस्मरन्। कालधर्मेण निर्दिष्टं यथार्थं च विचारयन्
चिकीर्षितं च यो वेत्ता यथा लोकेन संवृतम्। विभाषितं च समयं भाषितं हृदयंगमम्
आत्मने च परस्मै च स्वरसंस्कारयोगवित्। एषां स्वराणां ज्ञाता च बोद्धा प्रवचनः स्वराट्
विज्ञाता चोक्तवाक्यानामेकतां बहुतां तथा। बोद्धा हि परमार्थांश्च विविधांश्च व्यतिक्रमान्
अभेदतश्च बहुशो बहुशश्चापि भेदतः। वक्ता विविधवाक्यानां नानादेशसमीक्षिता
पञ्चागमांश्च विविधानादेशांश्च समीक्षिता। नानार्थकुशलस्तत्र तद्धितेषु च कृत्स्नशः
परिभूषयिता वाचां वर्णतः स्वरतोऽर्थतः। प्रत्ययं च समाख्याता नियतं प्रतिधातुकम्
पञ्च चाक्षरजातानि स्वरसंज्ञानि यानि च। तमागतमृषिं दृष्ट्वा प्रत्युद्गम्याभिवाद्य च
आसनं रुचिरं तस्मै प्रददौ स युधिष्ठिरः। `कृष्णाजिनोत्तरे तस्मिन्नुपविष्टो महानृषिः
देवर्षेरुपविष्टस्य स्वयमर्ध्यं यथाविधि। प्रादाद्युधिष्ठिरो धीमान्राज्यं तस्मै न्यवेदयत्। प्रतिगृह्य तु तां पूजामृषिः प्रीतमनास्तदा
आशीर्भिर्वर्धयित्वा च तमुवाचास्यतामिति। निषसादाभ्यनुज्ञातस्ततो राजा युधिष्ठिरः
प्रेषयामास कृष्णायै भगवन्तमुपस्थितम्। श्रुत्वैतद्द्रौपदी चापि शुचिर्भूत्वा समाहिता
जगाम तत्र यत्रास्ते नारदः पाण्डवैः सह। तस्याभिवाद्य चरणौ देवर्षेर्धर्मचारिणी
कृताञ्जलिः सुसंवीता स्थिताऽथ द्रुपदात्मजा। तस्याश्चापि स धर्मात्मा सत्यवागृषिसत्तमः
आशिषो विविधाः प्रोच्य राजपुत्र्यास्तु नारदः। गम्यतामिति होवाच भगवांस्तामनिन्दिताम्
गतायामथ कृष्णायां युधिष्ठिरपुरोगमान्। विविक्ते पाण्डवान्सर्वानुवाच भगवानृषिः
पाञ्चाली भवतामेका धर्मपत्नी यशस्विनी। यथा वो नात्र भेदः स्यात्तथा नीतिर्विधीयतां
सुन्दोपसुन्दौ हि पुरा भ्रातरौ सहितावुभौ। आस्तामवध्यावन्येषां त्रिषु लोकेषु विश्रुतौ
एकराज्यावेकगृहावेकशय्यासनाशनौ। तिलोत्तमायास्तौ हेतोरन्योन्यमभिजघ्नतुः
रक्ष्यतां सौहृदं तस्मादन्योन्यप्रीतिभावकम्। यथा वो नात्र भेदः स्यात्तत्कुरुष्व युधिष्ठिर
सुन्दोपसुन्दावसुरौ कस्य पुत्रौ महामुने। उत्पन्नश्च कथं भेदः कथं चान्योन्यमघ्नताम्
अप्सरा देवकन्या वै कस्य चैषा तिलोत्तमा। यस्याः कामेन संमत्तौ जघ्नतुस्तौ परस्परम्
एतत्सर्वं यथा वृत्तं विस्तरेण तपोधन। श्रोतुमिच्छामहे ब्रह्मन्परं कौतूहलं हि मे