ग्रहनक्षत्रताराणां प्रमाणं च युगैः सह। ऋचो यजूषि सामानि वेदाध्यात्मं तथैव च
न्यायशिक्षा चिकित्सा च दानं पाशुपतं तथा। इति नैकाश्रयं जन्म दिव्यमानुषसंज्ञितम्
तीर्थानां चैव पुण्यानां देशानां चैव कीर्तनम्। नदीनां पर्वतानां च वनानां सागरस्य च
पुराणां चैव दिव्यानां कल्पानां युद्धकौशलम्। वाक्यजातिविशेषाश्च लोकयात्राक्रमश्च यः
यच्चापि सर्वगं वस्तु तच्चैव प्रतिपादितम्। परं न लेखकः कश्चिदेतस्य भुवि विद्यते
तपोविशिष्टदपि वै वसिष्ठान्मुनिपुंगवात्। मन्ये श्रेष्ठव्यं त्वां वै रहस्यज्ञानवेदनात्
जन्मप्रभृति सत्यां ते वेद्मि गां ब्रह्मवादिनीम्। त्वयाच काव्यमित्युक्तं तस्मात्काव्यं भविष्यति
अस्य काव्यस्य कवयो न समर्था विशेषणे। विशेषणे गृहस्थस्य शेषास्त्रय इवाश्रमाः
जडान्धबधिरोन्मत्तं तमोभूतं जगद्भवेत्। यदि ज्ञानहुताशेन त्वया नोज्ज्वलियं भवेत्
तमसान्धस्य लोकस्य वेष्टितस्य स्वकर्मभिः। ज्ञानाञ्जनशलाकाभिर्बुद्धिनेत्रोत्सवः कृतः
त्वया भारतसूर्येण नृणां विनिहतं तमः
पुराणपूर्णचन्द्रेण श्रुतिज्योत्स्नाप्रकाशिना। नृणां कुमुदसौम्यानां कृतं बुद्धिप्रसादनम्
इतिहासप्रदीपेन मोहावरणघातिना। लोकगर्भगृहं कृत्स्नं यथावत्संप्रकाशितम्
संग्रहाध्यायबीजो वै पौलोमास्तीकमूलवान्। संभवस्कन्धविस्तारः सभापर्वविटङ्कवान्
आरण्यपर्वरूपाढ्यो विराटोद्योगसारवान्। भीष्मपर्वमहाशाखो द्रोणपर्वपलाशवान्
कर्णपर्वसितैः पुष्पैः शल्यपर्वसुगन्धिभिः। स्त्रीपर्वैषीकविश्रामः शान्तिपर्वमहाफलः
अश्वमेधामृतसस्त्वाश्रमस्थानसंश्रयः। मौसलश्रुतिसंक्षेपः शिष्टद्विजनिषेवितः
सर्वेषां कविमुख्यानामुपजीव्यो भविष्यति। पर्जन्यइव भूतानामक्षयो भारद्रुमः
काव्यस्य लेखनार्थाय गणेशः स्मर्यतां मुने
एवमाभाष्य तं ब्रह्मा जगाम स्वं निवेशनम्। भगवान्स जगत्स्रष्टा ऋषिदेवगणैः सह
ततः सस्मार हेरम्बं व्यासः सत्यवतीसुतः
स्मृतमात्रो गणेशानो भक्तचिन्तितपूरकः। तत्राजगाम विघ्नेशो वेदव्यासो यतः स्थितः
पूजितश्चोपविष्टश्च व्यासेनोक्तस्तदानघ। लेखको भारतस्यास्य भव त्वं गणनायक।। मयैव प्रोच्यमानस्य मनसा कल्पितस्य च
श्रुत्वैतत्प्राह विघ्नेशो यदि मे लेखनी क्षणम्। लिखतो नावतिष्ठेत तदा स्यां लेखको ह्यहम्
व्यासोऽप्युवाच तं देवमबुद्ध्वा मा लिख क्वचित्। ओमित्युक्त्वा गणेशोपि बभूव किल लेखकः
ग्रन्थग्रन्थिं तदा चक्रे मुनिर्गूढं कुतूहलात्। यस्मिन्प्रतिज्ञया प्राह मुनिर्द्वैपायनस्त्विदम्
अष्टौ श्लोकसहस्राणि अष्टौ श्लोकशतानि च। अहं वेद्मि शुको वेत्ति संजयो वेत्ति वा न वा
तच्छ्लोककूटमद्यापि ग्रथितं सुदृढं मुने। भेत्तुं न शक्यतेऽर्थस्यं गूढत्वात्प्रश्रितस्य च
सर्वज्ञोपि गणेशो यत्क्षणमास्ते विचारयन्। तावच्चकार व्यासोपि श्लोकानन्यान्बहूनपि
तस्य वृक्षस्य वक्ष्यामि शाखापुष्पफलोदयम्। स्वादुमेध्यरसोपेतमच्छेद्यममरैरपि