पुनः पुनश्च संहर्षाद्ब्राह्मणान्भर पौरव। अद्यैव नारदः श्रीमानागमिष्यति सत्वरः
आदत्स्व तस्य वाक्यानि शासनं कुरु तस्य वै। एवमुक्त्वा ततः कुन्तीमभिवाद्य जनार्दनः
उवाच श्लक्ष्णया वाचा गमिष्यामि नमोस्तु ते
आर्येण समभिज्ञातं त्वया वै यदुपुङ्गव। त्वया नाथेन गोविन्द दुःखं तीर्णं महत्तरम्
त्वं हि नाथस्त्वनाथानां दरिद्राणां विशेषतः। सर्वदुःखानि शाम्यन्ति तव संदर्शनान्मम
स्मरस्वैनान्महाप्राज्ञ तेन जीवन्ति पाण्डवाः
करिष्यामीति चामन्त्र्य अभिवाद्य पितृष्वसाम्। गमनाय मतिं चक्रे वासुदेवः सहानुगः
तान्निवेश्य ततो वीरः सह रामेण कौरवान्। ययौ द्वारवतीं राजन्पाण्डवानुमते तदा
एवं संप्राप्य राज्यं तदिन्द्रप्रस्थे तपोधन। अत ऊर्ध्वं नरव्याघ्राः किमकुर्वत पाण्डवाः
सर्व एव महात्मानः सर्वे मम पितामहाः। द्रौपदी धर्मपत्नी च कथं तानन्ववर्तत
कथमासुश्च कृष्णायामेकस्यां ते नरर्षभाः। वर्तमाना महाभागा नाभिद्यन्त परस्परम्
श्रोतुमिच्छाम्यहं तत्र विस्तरेण यथातथम्। तेषां चेष्टितमन्योन्यं युक्तानां कृष्णया सह
धृतराष्ट्राभ्यनुज्ञाता इन्द्रप्रस्थं प्रविश्य तत्। रेमिरे पुरुषव्याघ्राः कृष्णया सह पाण्डवाः
प्राप्य राज्यं महातेजाः सत्यसन्धो युधिष्ठिरः। पालयामास धर्मेण पृथिवीं भ्रातृभिः सह
जितारयो महात्मानः सत्यधर्मपरायणाः। एवं पुरमिदं प्राप्य तत्रोषुः पाण्डुनन्दनाः
कुर्वाणाः पौरकार्याणि सर्वाणि भरतर्षभाः। आसांचक्रुर्महार्हेषु पार्थिवेष्वासनेषु च
तेषु तत्रोपविष्टेषु पाण्डवेषु महात्मसु। आययौ धर्मराजं तु द्रष्टुकामोऽथ नारदः
पथा नक्षत्रजुष्टेन सुपर्णाचरितेन च। चन्द्रसूर्यप्रकाशेन सेवितेन महर्षिभिः
नभस्स्थलेन दिव्येन दुर्लभेनातपस्विनाम्। भूतार्चितो भूतधरां राष्ट्रमन्दिरभूषिताम्
अवेक्षमाणो द्युतिमानाजगाम महातपाः। सर्ववेदान्तगो विप्रः सर्ववेदाङ्गपारगः
परेण तपसा युक्तो ब्राह्मेण तपसा वृतः। नये नीतौ च निस्तो विश्रुतश्च महामुनिः
परात्परतरं प्राप्तो धर्मान्समभिजग्मिवान्। भावितात्मा गतरजाः शान्तो मृदुर्ऋजुर्दिवजः
धर्मेणाधिगतः सर्वैर्देवदानवमानुषैः। क्षीणकर्मसु पापेषु भूतेषु विविधेषु च
सर्वथा कृतमर्यादो वेदेषु विविधेषु च। शतशः सोमपा यज्ञे पुण्ये पुण्यकृदग्निचित्
ऋक्सामयजुषां वेत्ता न्यायदृग्धर्मकोविदः। ऋजुरारोहबान्वृद्धो भूयिष्ठपथिकोऽनघः
श्लक्ष्णया शिखयोपेतः संपन्नः परमत्विषा। अवदाते च सूक्ष्मे च दिव्ये च रचिते शुभे
महेन्द्रदत्ते महती बिभ्रत्परमवाससी। जाम्बूनदमये दिव्ये गण्डूपदमुखे नवे
अग्न्यर्कसदृशे दिव्ये धारयन्कुण्डले शुभे। राजतच्छत्रमुच्छ्रित्य चित्रं परमवर्चसम्
प्राप्य दुष्प्रापमन्येन ब्रह्मवर्चसमुत्तमम्। भवने भूमिपालस्य बृहस्पतिरिवाप्लुतः
संहितायां च सर्वेषां स्थितस्योपस्थितस्य च। द्विपदस्य च धर्मस्य क्रमधर्मस्य पारगः