तेषां पुण्यजनोपेतं राष्ट्रमाविशतां महत्। पाण्डवानां महाराज शश्वत्प्रीतिरवर्धत
सौबलेन च कर्णेन धार्तराष्ट्रैः कृपेण च।' तथा भीष्मेण राज्ञा च धर्मप्रणयिना सदा
पाण्डवाः समपद्यन्त खाण्डवप्रस्थवासिनः। पञ्चभिस्तैर्महेष्वासैरिन्द्रकल्पैः समावृतम्
शुशुभे तत्पुरश्रेष्ठं नागैर्भोगवती यथा। `ततस्तु विश्वकर्माणं पूजयित्वा विसृज्य च
द्वैपायनं च संपूज्य विसृज्य च नराधिपः। वार्ष्णेयमब्रवीद्राजा गन्तुकामं कृतक्षणम्
तव प्रसादाद्वार्ष्णेय राज्यं प्राप्तं मयाऽनघ। प्रसादादेव ते वीर शून्यं राष्ट्रं सुदुर्गमम्
तवैव तु प्रसादेन राज्यस्थाश्च भवामहे। गतिस्त्वमापत्कालेऽपि पाण्डवानां च माधव
ज्ञात्वा तु कृत्यं कर्तव्यं कारयस्व भवान्हि नः। यदिष्टमनुमन्तव्यं पाण्डवानां त्वयाऽनघ
त्वत्प्रभावान्महाराज्यं संप्राप्तं हि स्वधर्मतः। पितृपैतामहं राज्यं कथं न स्यात्तव प्रभो
धार्तराष्ट्रा दुराचाराः किं करिष्यन्ति पाण्डवान्। यथेष्टं पालय जगच्छश्वद्धर्मधुरं वह
पुनः पुनश्च संहर्षाद्ब्राह्मणान्भर पौरव। अद्यैव नारदः श्रीमानागमिष्यति सत्वरः
आदत्स्व तस्य वाक्यानि शासनं कुरु तस्य वै। एवमुक्त्वा ततः कुन्तीमभिवाद्य जनार्दनः
उवाच श्लक्ष्णया वाचा गमिष्यामि नमोस्तु ते
आर्येण समभिज्ञातं त्वया वै यदुपुङ्गव। त्वया नाथेन गोविन्द दुःखं तीर्णं महत्तरम्
त्वं हि नाथस्त्वनाथानां दरिद्राणां विशेषतः। सर्वदुःखानि शाम्यन्ति तव संदर्शनान्मम
स्मरस्वैनान्महाप्राज्ञ तेन जीवन्ति पाण्डवाः
करिष्यामीति चामन्त्र्य अभिवाद्य पितृष्वसाम्। गमनाय मतिं चक्रे वासुदेवः सहानुगः
तान्निवेश्य ततो वीरः सह रामेण कौरवान्। ययौ द्वारवतीं राजन्पाण्डवानुमते तदा
एवं संप्राप्य राज्यं तदिन्द्रप्रस्थे तपोधन। अत ऊर्ध्वं नरव्याघ्राः किमकुर्वत पाण्डवाः
सर्व एव महात्मानः सर्वे मम पितामहाः। द्रौपदी धर्मपत्नी च कथं तानन्ववर्तत
कथमासुश्च कृष्णायामेकस्यां ते नरर्षभाः। वर्तमाना महाभागा नाभिद्यन्त परस्परम्
श्रोतुमिच्छाम्यहं तत्र विस्तरेण यथातथम्। तेषां चेष्टितमन्योन्यं युक्तानां कृष्णया सह
धृतराष्ट्राभ्यनुज्ञाता इन्द्रप्रस्थं प्रविश्य तत्। रेमिरे पुरुषव्याघ्राः कृष्णया सह पाण्डवाः
प्राप्य राज्यं महातेजाः सत्यसन्धो युधिष्ठिरः। पालयामास धर्मेण पृथिवीं भ्रातृभिः सह
जितारयो महात्मानः सत्यधर्मपरायणाः। एवं पुरमिदं प्राप्य तत्रोषुः पाण्डुनन्दनाः
कुर्वाणाः पौरकार्याणि सर्वाणि भरतर्षभाः। आसांचक्रुर्महार्हेषु पार्थिवेष्वासनेषु च
तेषु तत्रोपविष्टेषु पाण्डवेषु महात्मसु। आययौ धर्मराजं तु द्रष्टुकामोऽथ नारदः
पथा नक्षत्रजुष्टेन सुपर्णाचरितेन च। चन्द्रसूर्यप्रकाशेन सेवितेन महर्षिभिः
नभस्स्थलेन दिव्येन दुर्लभेनातपस्विनाम्। भूतार्चितो भूतधरां राष्ट्रमन्दिरभूषिताम्
अवेक्षमाणो द्युतिमानाजगाम महातपाः। सर्ववेदान्तगो विप्रः सर्ववेदाङ्गपारगः