द्विपक्षगरुडप्रख्यैर्द्वारैः सौधैश्च शोभितम्। गुप्तमभ्रचयप्रख्यैर्गोपुरैर्मन्दरोपमैः
विविधैरपि निर्विद्धैः शस्त्रोपेतैः सुसंवृतैः। शक्तिभिश्चावृतं तद्धि द्विजिह्वैरिव पन्नगैः
तल्पैश्चाभ्यासिकैर्युक्तं शुशुभे योधरक्षितम्। थीक्ष्णाङ्कुशशतघ्नीभिर्यन्त्रजालैश्च शोभितम्
आयसैश्च महाचक्रैः शुशुभे तत्पुरोत्तमम्। सुविभक्तमहारथ्यं देवताबाधवर्जितम्
विरोचमानं विविधैः पाण्डुरैर्भवनोत्तमैः। तत्त्रिविष्टपसंकाशमिन्द्रप्रस्थं व्यरोचत
मेघवृन्दमिवाकाशे विद्धं विद्युत्समावृतम्। तत्र रम्ये शिवे देशे कौरव्यस्य निवेशनम्
शुशुभे धनसंपूर्णं धनाध्यक्षक्षयोपमम्। तत्रागच्छन्द्विजा राजन्सर्ववेदविदां वराः
निवासं रोचयन्ति स्म सर्वभाषाविदस्तथा। वणिजश्चाययुस्तत्र नानादिग्भ्यो धनार्थिनः
सर्वशिल्पविदस्तत्र वासायाभ्यागमंस्तदा। उद्यानानि च रम्याणि नगरस्य समन्ततः
आम्रैराम्रातकैर्नीपैरशोकैश्चम्पकैस्तथा। पुन्नागैर्नागपुष्पैश्च लकुचैः पनसैस्तथा
शालतालतमालैश्च बकुलैश्च सकेतकैः। मनोहरैः सुपुष्पैश्च फलभारावनामितैः
प्राचीनामलकैर्लोध्रैरङ्कोलैश्च सुपिष्पितैः। जम्बूभिः पाटलाभिश्च कुब्जकैरतिमुक्तकैः
करवीरैः पारिजातैरन्यैश्च विविधैर्द्रुमैः। नित्यपुष्पफलोपेतैर्नानाद्विजगणायुतैः
मत्तबर्हिणसंघुष्टकोकिलैश्च सदामदैः। गृहैरादर्शविमलैर्विविधैश्च लतागृहैः
मनोहरैश्चित्रगृहैस्तथाऽजगतिप्रवतैः। वापीभिर्विविधाभिश्च पूर्णाभिः परमाम्भसा
सरोभिरतिरम्यैश्च पद्मोत्पलसुगन्धिभिः। हंसकारण्डवयुतैश्चक्रवाकोपशोभितैः
रम्याश्च विविधास्तत्र पुष्करिण्यो वनावृताः। तडागानि च रम्याणि बृहन्ति सुबहूनि च
नदी च नन्दिनी नाम सा पुरीमुपगूहति। चातुर्वर्ण्यसमाकीर्णमन्यैः शिल्पिभिरावृतम्
सर्वदाभिसृतं सद्भिः कारितं विश्वकर्मणा। उपभोगसमृद्धैश्च सर्वद्रव्यसमावृतम्
नित्यमार्यजनोपेतं नरनारीगणैर्युतम्। वाजिवारणसंपूर्णं गोभिरुष्ट्रैः खरैरजैः
तत्त्रिविष्टपसङ्काशमिन्द्रप्रस्थं व्यरोचत। पुरीं सर्वगुणोपेतां निर्मितां विश्वकर्मणा
पौरवाणामधिपतिः कुन्तीपुत्रो युधिष्ठिरः। कृतमङ्गलसत्कारैर्ब्राह्मणैर्वेदपारगैः
द्वैपायनं पुरस्कृत्य धौम्यस्याभिमते स्थितः। भ्रातृभिः सहितो राजा राजमार्गमतीत्य च
औपवाह्यगतो राजा केशवेन सहाभिभूः। तोरणद्वारसुमुखं द्वात्रिंशद्द्वारसंयुतम्
वर्धमानपुरद्वारात्प्रविवेश महाद्युतिः। शङ्खदुन्दुभिनिर्घोषाः श्रूयन्ते बहवो भृशम्
जयेति ब्राह्मणगिरः श्रूयन्ते च सहस्रशः। संस्तूयमानो मुनिभिः सूतमागधबन्दिभिः
औपवाह्यगतो राजा राजमार्गमतीत्य च। कृतमङ्गलसत्कारं प्रविवेश गृहोत्तमम्
प्रविश्य भवनं राजा नागरैरभिसंवृतः। प्रहृष्टमुदितैरासीत्सत्कारैरभिपूजितः
पूजयामास विप्रेन्द्रान्केशेन महात्मना। ततस्तु राष्ट्रं नगरं नरनारीगणायुतम्
गोधनैश्च समाकीर्णं सस्यैर्वृद्धिं तदागमत्