गान्धारिपुत्राः शोचन्तः सर्वे ते सह बान्धवैः। ज्ञात्वा शोकं च पुत्राणां धृतराष्ट्रोऽब्रवीदिदं
समक्षं वासुदेवस्य कुरूणां च समक्षतः। अभिषेकस्त्वया प्राप्तो दुष्प्रापो ह्यकृतात्मभिः
गच्छ त्वमद्यैव नृप कृतकृत्योऽसि कौरव। आयुः पुरूरवा राजन्नहुषेण ययातिना
तत्रैव निवसन्ति स्म खाण्डवे तु नृपोत्तम। राजधानी तु सर्वेषां पौरवाणां महाभुज
विनाशितं मुनिगणैर्लोभाद्बुधसुतस्य वै। तस्मात्त्वं खाण्डवप्रस्थं पुरं राष्ट्रं च वर्धय
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च कृतलक्षणाः। त्वद्भक्त्या जन्तवश्चान्ये भजन्त्येव पुरं शुभम्
पुरं राष्ट्रं समृद्धं वै धनधान्यसमाकुलम्। तस्माद्गच्छस्व कौन्तेय भ्रातृभिः सहितोऽनघ
प्रतिगृह्य तु तद्वाक्यं तस्मै सर्वे प्रणम्य च। रथैर्नागैर्हयैश्चापि सहितास्तु पदातिभिः
प्रतस्थिरे ततो घोषसंयुक्तैः स्यन्दनैर्वरैः। तान्दृष्ट्वा नागराः सर्वे भक्त्या चैव प्रतस्थिरे
गच्छतः पाण्डवैः सार्धं दृष्ट्वा नागपुरालयात्। पाण्डवैः सहिता गन्तुं नार्हतेति च नागरान्
घोषयामास नगरे धार्तराष्ट्रः ससौबलः।' ततस्ते पाण्डवास्तत्र गत्वा कृष्णपुरोगमाः
मण्डयाञ्चक्रिरे तद्वै पुरं स्वर्गादिव च्युतम्। `वासुदेवो जगन्नाथश्चिन्तयामास वासवम्
महेन्द्रश्चिन्तितो राजन्विश्वकर्माणमादिशत्। विश्वकर्मन्महाप्राज्ञ अद्यप्रभृति तत्पुरम्
इन्द्रप्रस्थमिति ख्यातं दिव्यं भूम्यां भविष्यति। महेन्द्रशासनाद्गत्वा विश्वकर्मा तु केशवम्
प्रणम्य प्रणिपातार्हं किं करोमीत्यभाषत। वासुदेवस्तु तच्छ्रुत्वा विश्वकर्माणमूचिवान्
कुरुष्व कुरुराजस्य महेन्द्रपुरसन्निभम्। इन्द्रेण कृतनामानमिन्द्रप्रस्थं महापुरम्
ततः पुण्ये शिवे देशे शान्तिं कृत्वा महारथाः। स्वस्तिवाच्य यथान्यायमिन्द्रप्रस्थं भवत्विति
तत्पुरं मापयामासुर्द्वैपायनपुरोगमाः। `ततः स विश्वकर्मा तु चकार पुरमुत्तमम्
सागरप्रतिरूपाभिः परिखाभिरलङ्कृतम्। प्राकारेण च संपन्नं दिवमावृत्य तिष्ठता
पाण्डुराभ्रप्रकाशेन हिमरश्मिनिभेन च। शुशुभे तत्पुरश्रेष्ठं नागैर्भोगवती यथा
द्विपक्षगरुडप्रख्यैर्द्वारैः सौधैश्च शोभितम्। गुप्तमभ्रचयप्रख्यैर्गोपुरैर्मन्दरोपमैः
विविधैरपि निर्विद्धैः शस्त्रोपेतैः सुसंवृतैः। शक्तिभिश्चावृतं तद्धि द्विजिह्वैरिव पन्नगैः
तल्पैश्चाभ्यासिकैर्युक्तं शुशुभे योधरक्षितम्। थीक्ष्णाङ्कुशशतघ्नीभिर्यन्त्रजालैश्च शोभितम्
आयसैश्च महाचक्रैः शुशुभे तत्पुरोत्तमम्। सुविभक्तमहारथ्यं देवताबाधवर्जितम्
विरोचमानं विविधैः पाण्डुरैर्भवनोत्तमैः। तत्त्रिविष्टपसंकाशमिन्द्रप्रस्थं व्यरोचत
मेघवृन्दमिवाकाशे विद्धं विद्युत्समावृतम्। तत्र रम्ये शिवे देशे कौरव्यस्य निवेशनम्
शुशुभे धनसंपूर्णं धनाध्यक्षक्षयोपमम्। तत्रागच्छन्द्विजा राजन्सर्ववेदविदां वराः
निवासं रोचयन्ति स्म सर्वभाषाविदस्तथा। वणिजश्चाययुस्तत्र नानादिग्भ्यो धनार्थिनः
सर्वशिल्पविदस्तत्र वासायाभ्यागमंस्तदा। उद्यानानि च रम्याणि नगरस्य समन्ततः
आम्रैराम्रातकैर्नीपैरशोकैश्चम्पकैस्तथा। पुन्नागैर्नागपुष्पैश्च लकुचैः पनसैस्तथा