वायुभक्षो निराहारः शुष्यन्ननिमिषो मुनिः। इतस्ततः परिचरन्दीप्तपावकसप्रभः
अटमानः कदाचित्स्वान्स ददर्श पितामहान्। लम्बमानान्महागर्ते पादैरूर्ध्वैरवाङ्मुखान्
तानब्रवीत्स दृष्ट्वै जरत्कारुः पितामहान्। के भवन्तोऽवलम्बन्ते गर्ते ह्यस्मिन्नधोमुखाः
वीरणस्तम्भके लग्नाः सर्वतः परिभक्षिते। मूषकेन निगूढेन गर्तेऽस्मिन्नित्यवासिना
यायावरा नाम वयमृषयः संशितव्रताः। संतानप्रक्षयाद्ब्रह्मन्नधो गच्छाम मेदिनीम्
अस्माकं संततिस्त्वेको जरत्कारुरिति स्मृतः। मन्दभाग्योऽल्पभाग्यानां तप एकं समास्थितः
न स पुत्राञ्जनयितुं दारान्मूढश्चिकीर्षति। तेन लम्बामहे गर्ते संतानस्य क्षयादिह
अनाथास्तेन नाथेन यथा दुष्कृतिनस्तथा। `येषां तु संततिर्नास्ति मर्त्यलोके सुखावहा
न ते लभन्ते वसतिं स्वर्गे पुण्यकृतोऽपि हि।' कस्त्वं बन्धुरिवास्माकमनुशोचसि सत्तम
ज्ञातुमिच्छामहे ब्रह्मन्को भवानिह नः स्थितः। किमर्थं चैव नः शोच्याननुशोचसि सत्तम
मम पूर्वे भवन्तो वै पितरः सपितामहाः। ब्रूत किं करवाण्यद्य जरत्कारुरहं स्वयम्
यतस्व यत्नवांस्तात संतानाय कुलस्य नः। आत्मनोऽर्थेऽस्मदर्थे च धर्म इत्येव वा विभो
न हि धर्मफलैस्तात न तपोऽभिः सुसंचितैः। तां गतिं प्राप्नुवन्तीह पुत्रिणो यां व्रजन्ति वै
तद्दारग्रहणे यत्नं संतत्यां च मनः कुरु। पुत्रकास्मन्नियोगात्त्वमेतन्नः परमं हितम्
न दारान्वै करिष्येऽहं न धनं जीवितार्थतः। भवतां तु हितार्थाय करिष्ये दारसंग्रहम्
समयेन च कर्ताऽहमनेन विधिपूर्वकम्। तथा यद्युपलप्स्यामि करिष्ये नान्यथा ह्यहम्
सनाम्नी या भवित्री मे दित्सिता चैव बन्धुभिः। भैक्ष्यवत्तामहं कन्यामुपयंस्ये विधानतः
दरिद्राय हि मे भार्यां को दास्यति विशेषतः। प्रतिग्रहीष्ये भिक्षां तु यदि कश्चित्प्रदास्यति
एवं दारक्रियाहेतोः प्रयतिष्ये पितामहाः। अनेन विधिना शश्वन्न करिष्येऽहमन्यथा
तत्र चोत्पत्स्यते जन्तुर्भवतां तारणाय वै। शाश्वतं स्थानमासाद्य मोदन्तां पितरो मम
मात्रा हि भुजगाः शप्ताः पूर्वं ब्रह्मविदां वर। जनमेजयस्य वो यज्ञे धक्ष्यत्यनिलसारथिः
तस्य शापस्य शान्त्यर्थं प्रददौ पन्नगोत्तमः। स्वसारमृषये तस्मै सुव्रताय महात्मने
स च तां प्रतिजग्राह विधिदृष्टेन कर्मणा। आस्तीको नाम पुत्रश्च तस्यां जज्ञे महामनाः
तपस्वी च महात्मा च वेदवेदाङ्गपारगः। समः सर्वस्य लोकस्य पितृमातृभयापहः
अथ दीर्घस्य कालस्य पाण्डवेयो नराधिपः। आजहार महायज्ञं सर्पसत्रमिति श्रुतिः
तस्मिन्प्रवृत्ते सत्रे तु सर्पाणामन्तकाय वै। मोचयामास ताञ्शापादास्तीकः सुमहातपाः
भ्रातॄंश्च मातुलांश्चैव तथैवान्यान्स पन्नगान्। पितॄंश्च तारयामास संतत्या तपसा तथा
व्रतैश्च विविधैर्ब्रह्मन्स्वाध्यायैश्चानृणोऽभवत्। देवांश्च तर्पयामास यज्ञैर्विविधदक्षिणैः
ऋषींश्च ब्रह्मचर्येम सन्तत्या च पितामहान्। अपहृत्य गुरं भारं पितॄणां संशितव्रतः
जरत्कारुर्गतः स्वर्गं सहितः स्वैः पितामहैः। आस्तीकं च सुतं प्राप्य धर्मं चानुत्तमं मुनिः