पुण्याहं वाच्यतां तात गोसहस्रं प्रदीयताम्। ग्राममुख्याश्च विप्रेभ्यो दीयन्तां बहुदक्षिणाः
अङ्गदे मकुटं क्षत्तर्हस्ताभरणमानय। मुक्तावलीश्च हारं च निष्काणि कटकानि च
कटिबन्धश्च सूत्रं च तथोदरनिबन्धनम्। अष्टोत्तरसहस्रं तु ब्राह्मणाधिष्ठिता गजाः
जाह्नवीसलिलं शीघ्रमानीयन्तां पुरोहितैः। अभिषेकोदकक्लिन्नं सर्वाभरणभूषितम्
औपवाह्योपरिगतं दिव्यचारमरवीजितम्। सुवर्णमणिचित्रेण श्वेतच्छत्रेण शोभितम्
जयेति द्विजवाक्येनु स्तूयमानं नृपैस्तथा। दृष्ट्वा कुन्तीसुतं ज्येष्ठमाजमीढं युधिष्ठिरम्
प्रीताः प्रीतेन मनसा प्रशंसन्तु परे जनाः। पाण्डोः कृतोपकारस्य राज्यं दत्वा ममैव च
प्रतिक्रिया कृतमिदं भविष्यति न संशयः। भीष्मो द्रोणः कृपः क्षत्ता साधुसाध्वित्यथाब्रुवन्
युक्तमेतन्महाभाग कौरवाणां यशस्करम्। शीघ्रमद्यैव राजेन्द्र त्वयोक्तं कर्तुमर्हसि
इत्येवमुक्तो वार्ष्णेयस्त्वरयामास तत्तदा। तथोक्तं धृतराष्ट्रेण कारयामास केशवः
तस्मिन्क्षणे महाराज कृष्णद्वैपायनस्तदा। आगत्य कुरुभिः सर्वैः पूजितः ससुहृद्गणैः
मूर्धाभिषिक्तैः सहितो ब्राह्मणैर्वेदपारगैः। कारयामास विधिवत्केशवानुमते तदा
कृपो द्रोणश्च भीष्मश्च धौम्यश्च व्यासकेशवौ। बाह्लीकः सोमदत्तश्च चातुर्वेद्यपुरस्कृताः
अभिषेकं तदा चक्रुर्भद्रपीठे सुसंस्कृतम्
जित्वा तु पृथिवीं कृत्स्नां वशे कृत्वा नृपान्भवान्। राजसूयादिभिर्यज्ञैः क्रतुभिर्वरदक्षिणैः
स्नात्वा ह्यवभृथस्नानं मोदतां बान्धवैः सह। एवमुक्त्वा तु ते सर्वे आशीर्भिरभिपूजयन्
मूर्धाभिषिक्तः कौरव्यः सर्वाभरणभूषितः। जयेति संस्तुतो राजा प्रददौ धनमक्षयम्
सर्वमूर्धाभिषिक्तैश्च पूजितः कुरनन्दनः। औपवाह्यमथारुह्य श्वेतच्छत्रेण शोभितः
रराज राजाभिमतो महेन्द्र इव दैवतैः। ततः प्रदक्षिणीकृत्य नगरं नागसाह्वयम्
प्रविवेश तदा राजा नागरैः पूजितो गृहम्। मूर्धाभिषिक्तं कौन्तेयमभ्यगच्छन्त कौरवाः
गान्धारिपुत्राः शोचन्तः सर्वे ते सह बान्धवैः। ज्ञात्वा शोकं च पुत्राणां धृतराष्ट्रोऽब्रवीदिदं
समक्षं वासुदेवस्य कुरूणां च समक्षतः। अभिषेकस्त्वया प्राप्तो दुष्प्रापो ह्यकृतात्मभिः
गच्छ त्वमद्यैव नृप कृतकृत्योऽसि कौरव। आयुः पुरूरवा राजन्नहुषेण ययातिना
तत्रैव निवसन्ति स्म खाण्डवे तु नृपोत्तम। राजधानी तु सर्वेषां पौरवाणां महाभुज
विनाशितं मुनिगणैर्लोभाद्बुधसुतस्य वै। तस्मात्त्वं खाण्डवप्रस्थं पुरं राष्ट्रं च वर्धय
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च कृतलक्षणाः। त्वद्भक्त्या जन्तवश्चान्ये भजन्त्येव पुरं शुभम्
पुरं राष्ट्रं समृद्धं वै धनधान्यसमाकुलम्। तस्माद्गच्छस्व कौन्तेय भ्रातृभिः सहितोऽनघ
प्रतिगृह्य तु तद्वाक्यं तस्मै सर्वे प्रणम्य च। रथैर्नागैर्हयैश्चापि सहितास्तु पदातिभिः
प्रतस्थिरे ततो घोषसंयुक्तैः स्यन्दनैर्वरैः। तान्दृष्ट्वा नागराः सर्वे भक्त्या चैव प्रतस्थिरे
गच्छतः पाण्डवैः सार्धं दृष्ट्वा नागपुरालयात्। पाण्डवैः सहिता गन्तुं नार्हतेति च नागरान्