पाञ्चालीं प्रतिजग्राह साध्वीं श्रियमिवापराम्। पूजयामास पूजार्हां शचीदेवीमिवागताम्
ववन्दे तत्र गान्धारीं कृष्णया सह माधवी। आशिषश्च प्रयुक्त्वा तु पाञ्चालीं परिषस्वजे
परिष्वज्यैव गान्धारी कृष्णां कमललोचनाम्। पुत्राणां मम पाञ्चाली मृत्युरेवेत्यमन्यत
संचिन्त्य विदुरं प्राह युक्तितः सुबलात्मजा। कुन्तीं राजसुतां क्षत्तः सवधूं सपरिच्छदाम्
पाण्डोर्निवेशनं शीघ्रं नीयतां यदि रोचते। करणेन मुहूर्तेन नक्षत्रेण शुभे तिथौ
यथा सुखं तथा कुन्ती रंस्यते स्वगृहे सुतैः। तथेत्येव तदा क्षत्ता कारयामास तत्तथा
पूजयामासुरत्यर्थं बान्धवाः पाण्डवांस्तदा। नागराः श्रेणिमुख्याश्च पूजयन्ति स्म पाण्डवान्
भीष्मो द्रोणः कृपः कर्णो बाह्लीकः ससुतस्तदा। शासनाद्धृतराष्ट्रस्य अकुर्वन्नतिथिक्रियाम्
एवं विहरतां तेषां पाण्डवानां महात्मनाम्। नेता सर्वस्य कार्यस्य विदुरो राजशासनात्
विश्रान्तास्ते महात्मानः कंचित्कालं सकेशवाः। आहूता धृतराष्ट्रेण राज्ञा शान्तनवेन च
भ्रातृभिः सह कौन्तेय निबोधेदं वचो मम। `पाण्डुना वर्धितं राज्यं पाण्डुना पालितं जगत्
शासनान्मम कौन्तेय मम भ्राता महाबलः। कृतवान्दुष्करं कर्म नित्यमेव विशांपते
तस्मात्त्वमपि कौन्तेय शासनं कुरु मा चिरम्। मम पुत्रा दुरात्मानः सर्वेऽहंकारसंयुताः
शासनं न करिष्यन्ति मम नित्यं युधिष्ठिर। स्वकार्यनिरतैर्नित्यमवलिप्तैर्दुरात्मभिः
पुनर्वै विग्रहो मा भूत्खाण्डवप्रस्थमाविश। न हि वो वसतस्तत्र कश्चिच्छक्तः प्रबाधितुम्
संरक्ष्यमाणान्पार्थेन त्रिदशानिव वज्रिणा। अर्धराज्यं तु संप्राप्य खाण्डवप्रस्थणाविश
केशवो यदि मन्यते तत्कर्तव्यमसंशयम्
प्रतिगृह्य तु तद्वाक्यं नृपं सर्वे प्रणम्य च। `वासुदेवेन संमन्त्र्य पाण्डवाः समुपाविशन्
अभिषेकस्य संभारान्क्षत्तरानय मा चिरम्। अभिषिक्तं करिष्यामि ह्यद्य वै कुरुनन्दनम्
ब्राह्मणा नैगमश्रेष्ठाः श्रेणीमुख्याश्च सर्वतः। आहूयन्तां प्रकृतयो बान्धवाश्च विशेषतः
पुण्याहं वाच्यतां तात गोसहस्रं प्रदीयताम्। ग्राममुख्याश्च विप्रेभ्यो दीयन्तां बहुदक्षिणाः
अङ्गदे मकुटं क्षत्तर्हस्ताभरणमानय। मुक्तावलीश्च हारं च निष्काणि कटकानि च
कटिबन्धश्च सूत्रं च तथोदरनिबन्धनम्। अष्टोत्तरसहस्रं तु ब्राह्मणाधिष्ठिता गजाः
जाह्नवीसलिलं शीघ्रमानीयन्तां पुरोहितैः। अभिषेकोदकक्लिन्नं सर्वाभरणभूषितम्
औपवाह्योपरिगतं दिव्यचारमरवीजितम्। सुवर्णमणिचित्रेण श्वेतच्छत्रेण शोभितम्
जयेति द्विजवाक्येनु स्तूयमानं नृपैस्तथा। दृष्ट्वा कुन्तीसुतं ज्येष्ठमाजमीढं युधिष्ठिरम्
प्रीताः प्रीतेन मनसा प्रशंसन्तु परे जनाः। पाण्डोः कृतोपकारस्य राज्यं दत्वा ममैव च
प्रतिक्रिया कृतमिदं भविष्यति न संशयः। भीष्मो द्रोणः कृपः क्षत्ता साधुसाध्वित्यथाब्रुवन्
युक्तमेतन्महाभाग कौरवाणां यशस्करम्। शीघ्रमद्यैव राजेन्द्र त्वयोक्तं कर्तुमर्हसि
इत्येवमुक्तो वार्ष्णेयस्त्वरयामास तत्तदा। तथोक्तं धृतराष्ट्रेण कारयामास केशवः