हैमानि शय्यासनबाजनानि द्रव्याणि चान्यानि च गोधनानि। पृथक्पृथक्वैव ददौ स कोटिं पाञ्चालराजः परमप्रहृष्टः
शिबिकानां शतं पूर्णं वाहान्पञ्चशतं नरान्
एवमेतानि पाञ्चालो जन्यार्थे प्रददौ धनम्। हरणं चापि पाञ्चाल्या ज्ञातिदेयं च सोमकः
धृष्टद्युम्नो ययौ तत्र भगिनीं गृह्य भारत। नानद्यमानो बहुशस्तूर्यघोषैः सहस्रशः
श्रुत्वा चोपस्थितान्वीरान्धृतराष्ट्रोऽम्बिकासुतः। प्रतिग्रहाय पाण्डूनां प्रेषयामास कौरवान्
विकर्णं च महेष्वासं चित्रसेनं च भारत। द्रोणं च परमेष्वासं गौतमं कृपमेव च
तैस्तैः परिवृताः शूरैः शोभमाना महारथाः। नगरं हास्तिनपुरं शनैः प्रविविशुस्तदा
पाण्डवानागताञ्छ्रुत्वा नागरास्तु कुतूहलात्। मण्डयाञ्चक्रिरे तत्र नगरं नागसाह्वयम्
मुक्तपुष्पावकीर्णं तु जलसिक्तं तु सर्वतः। धूपितं दिव्यधूपेन मङ्गलैश्चाभिसंवृतम्
पताकोच्छ्रितमाल्यं च पुरमप्रतिमं बभौ। शङ्खभेरीनिनादैश्च नानावादित्रनिस्वनैः
कौतूहलेन नगरं पूर्यमाणमिवाभवत्। यत्र ते पुरुषव्याघ्राः शोकदुःखसमन्विताः
निर्गताश्च पुरात्पूर्वं धृतराष्ट्रप्रबाधिताः। पुनर्निवृत्ता दिष्ट्या वै सह मात्रा परन्तपाः
इत्येवमीरिता वाचो जनैः प्रियचिकीर्षुभिः।' तत उच्चावचा वाचः प्रियाः सर्वत्र भारत
अयं स पुरुषव्याघ्रः पुनरायाति धर्मवित्
यो नः स्वानिव दायादान्धर्मेण परिरक्षति। अद्य पाण्डुर्महाराजो वनादिव मनःप्रियम्
आगतश्चैवमस्माकं चिकीर्षन्नात्र संशयः। किं न्वद्य सुकृतं कर्म सर्वेषां नः प्रियं परम्
यन्नः कुन्तीसुता वीरा भर्तारः पुनरागताः। यदि दत्तं यदि हुतं यदि वाप्यस्ति नस्तपः। तेन तिष्ठन्तु नगरे पाण्डवाः शरदां शतम्
ततस्ते धृतराष्ट्रस्य भीष्मस्य च महात्मनः। अन्येषां च तदर्हाणां चक्रुः पादाभिवन्दनम्
पृष्टास्तु कुशलप्रश्नं सर्वेण नगरेण ते। समाविशन्त वेश्मानि धृतराष्ट्रस्य शासनात्
दुर्योधनस्य महिषी काशिराजसुता तदा। धृतराष्ट्रस्य पुत्राणां वधूभिः सहिता तदा
पाञ्चालीं प्रतिजग्राह साध्वीं श्रियमिवापराम्। पूजयामास पूजार्हां शचीदेवीमिवागताम्
ववन्दे तत्र गान्धारीं कृष्णया सह माधवी। आशिषश्च प्रयुक्त्वा तु पाञ्चालीं परिषस्वजे
परिष्वज्यैव गान्धारी कृष्णां कमललोचनाम्। पुत्राणां मम पाञ्चाली मृत्युरेवेत्यमन्यत
संचिन्त्य विदुरं प्राह युक्तितः सुबलात्मजा। कुन्तीं राजसुतां क्षत्तः सवधूं सपरिच्छदाम्
पाण्डोर्निवेशनं शीघ्रं नीयतां यदि रोचते। करणेन मुहूर्तेन नक्षत्रेण शुभे तिथौ
यथा सुखं तथा कुन्ती रंस्यते स्वगृहे सुतैः। तथेत्येव तदा क्षत्ता कारयामास तत्तथा
पूजयामासुरत्यर्थं बान्धवाः पाण्डवांस्तदा। नागराः श्रेणिमुख्याश्च पूजयन्ति स्म पाण्डवान्
भीष्मो द्रोणः कृपः कर्णो बाह्लीकः ससुतस्तदा। शासनाद्धृतराष्ट्रस्य अकुर्वन्नतिथिक्रियाम्
एवं विहरतां तेषां पाण्डवानां महात्मनाम्। नेता सर्वस्य कार्यस्य विदुरो राजशासनात्
विश्रान्तास्ते महात्मानः कंचित्कालं सकेशवाः। आहूता धृतराष्ट्रेण राज्ञा शान्तनवेन च