धृतराष्ट्रश्च पाञ्चाल्य त्वया संबन्धमेयिवान्। कृतार्थं मन्यतेत्मानं तथा सर्वेऽपि कौरवाः
न तथा राज्यसंप्राप्तिस्तेषां प्रीतिकरी मता। यथा संबन्धकं प्राप्य यज्ञसेन त्वया सह
एतद्विदित्वा तु भवान्प्रस्थापयतु पाण्डवान्। द्रष्टुं हि पाण्डुपुत्रांश्च त्वरन्ति कुरवो भृशम्
विप्रोषिता दीर्घकालमेते चापि नरर्षभाः। उत्सुका नगरं द्रष्टुं भविष्यन्ति तथा पृथा
कृष्णामपि च पाञ्चालीं सर्वाः कुरुवरस्त्रियः। द्रष्टुकामाः प्रतीक्ष्ते पुरं च विषयाश्च नः
स भवान्पाण्डुपुत्राणामाज्ञापयतु मा चिरम्। गमनं सहदाराणामेतदत्र मतं मम
निसृष्टेषु त्वया राजन्पाण्डवेषु महात्मसु। ततोऽहं प्रेषयिष्यामि धृतराष्ट्रस्य शीघ्रगान्। आगमिष्यन्ति कौन्तेयाः कुन्ती च सह कृष्णया
एवमेतन्महाप्राज्ञ यथात्थ विदुराद्य माम्। ममापि परमो हर्षः संबन्धेऽस्मिन्कृते प्रभो
गमनं चापि युक्तं स्याद्दृढमेषां महात्मनाम्। न तु तावन्मया युक्तमेतद्वक्तुं स्वयं गिरा
यदा तु मन्यते वीरः कुन्तीपुत्रो युधिष्ठिरः। भीमसेनार्जुनौ चैव यमौ च पुरुषर्षभौ
रामकृष्णौ च धर्मज्ञौ तदा गच्छन्तु पाण्डवाः। एतौ हि पुरुषव्याघ्रावेषां प्रियहिते रतौ
परवन्तो वयं राजंस्त्वयि सर्वे सहानुगाः। यथा वक्ष्यसि नः प्रीत्या तत्करिष्यामहे वयम्
ततोऽब्रवीद्वासुदेवो गमनं रोचते मम। यथा वा मन्यते राजा द्रुपदः सर्वधर्मवित्
यथैव मन्यते वीरो दाशार्हः पुरुषोत्तमः। प्राप्तकालं महाबाहुः सा बुद्धिर्निश्चिता मम
यथैव हि महाभागाः कौन्तेया मम सांप्रतम्। तथैव वासुदेवस्य पाण्डुपुत्रा न संशयः
न तद्ध्यायति कौन्तेयः पाण्डुपुत्रो युधिष्ठिरः। यथैषां पुरुषव्याघ्रः श्रेयो ध्यायति केशवः
पृथायास्तु ततो वेश्म प्रविवेश महामतिः। पादौ स्पृष्ट्वा पृथायास्तु शिरसा च महीं गतः
दृष्ट्वा तु देवरं कुन्ती शुशोच च मुहुर्मुहुः
त्वत्प्रसादाज्जतुगृहे मृताः प्रत्यागतास्तथा। कूर्मी चिन्तयते पुत्रान्यत्र वा तत्र संमता
चिन्तया वर्धिताः पुत्रा यथा कुशलिनस्तथा। तव पुत्रास्तु जीवन्ति त्वद्भक्त्या भरतर्षभ
यथा परभृतः पुत्रानरिष्टा वर्धयेत्सदा। तथैव पुत्रास्तु मम त्वया तात सुरक्षिताः
क्लेशास्तु बहवः प्राप्तास्तथा प्राणान्तिका मया। अतः परं न जानामि कर्तव्यं ज्ञातुमर्हसि
न विनश्यन्ति लोकेषु तव पुत्रा महाबलाः। अचिरेणैव कालेन स्वराज्यस्था भवन्ति ते
बान्धवैः सहिताः सर्वे न शोकं कुरु माधवि
पाण्डवाश्चैव कृष्णश्च विदुरश्च महामतिः। आदाय द्रौपदीं कृष्णां कुन्तीं चैव यशस्विनीम्
सविहारं सुखं जग्मुर्नगरं नागसाह्वयम्। `सुवर्णकक्ष्याग्रैवेयान्सुवर्णाङ्कुशभूषितान्
जाम्बूनदपरिष्कारान्प्रभिन्नकरटामुखान्। अधिष्ठितान्महामात्रैः सर्वशस्त्रसमन्वितान्
सहस्रं प्रददौ राजा गजानां वरवर्मिणाम्। रथानां च सहस्रं वै सुवर्णमणिचित्रितम्
चतुर्युजां भानुमच्च पञ्चानां प्रददौ तदा। सुवर्णपरिबर्हाणां वरचामरमालिनाम्
जात्यश्वानां च पञ्चाशत्सहस्रं प्रददौ नृपः। दासीनामयुतं राजा प्रददौ वरभूषणम्। ततः सहस्रं दासानां प्रददौ वरधन्वनाम्